________________
भवो, नहि' रङ्कश्चक्रित्वाद्युच्चैरभिलषन् अपि कदाप्यांमोति । भोजनाच्छादनादि तु मानोत्यपि । तदवादिष्म – स्वानुमित्या मितीकुर्यादिच्छामिच्छाफलार्थिकः । लोकेऽपि लभ्येत मितं, मार्गितं नामितं कचित् ॥ १ ॥ " ततः स्वभाग्याद्यनुसारेणैवेच्छां कुर्यादधिकाधिकेच्छायां तु तदलाभात्तदर्थ्यातिदुःखितैव स्यात् । कोटीपूरणार्थबहुक्लेशसासहिनवनवतिटंकलक्षाधिपधनश्रेष्ध्यादिवत् । आख्यातं च – “ आकांक्षितानि जन्तूनां संपद्यन्ते यथा यथा । तथा तथा विशेषासौ, मनो भवति दुःखितम् ॥ १ ॥ आशादासस्तु यो जातो, दासस्त्रिभुवनस्य सः । आशा दासीकृता येन तस्य दास्ये जगत्त्रयी ॥ २ ॥ " गृहस्थेन चान्योन्याप्रतिबन्धेन त्रिवर्गोऽपि साध्यः । यतः - " धम्मो अध्यो कामो, पुरिसत्था वन्निया तओ लोए । तिन्हंपि जहावसरं, सेवा संसिज्जइ बुहेहिं ।। १ ।। तत्र धर्मार्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदां । न च तस्य धनं धर्मः शरीरं वा यस्य कामेऽत्यन्तासक्तिः । धर्मकामातिक्रमाद्धनमुपार्जितं परेऽनुभवन्ति, स्वयं तु परं पापस्य भाजनं सिंह इव सिन्धुरवधात् । अर्थकार्मातिक्रमेण च धर्मसेवा यतीनामेव धर्मो न गृहस्थानां । न च धर्मबाधयार्थकामौ सेवेत, यतो बीजभोजिनः कुटुंबिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणं । उक्तं च सोमनीताबपि, – “ स खलु सुखी योऽमुत्रमुखांविरोधेनेहलोकसुखमनुभवतीति । ” एवमर्थबाधया धर्मकामौ सेवमानस्य ऋणाधिकत्वं, कामबाधया धर्मार्थौ सेव मानस्य गार्हस्थ्यसुखाद्यभावः स्यात् । एवं च तादोत्विक - मूलेहर- कैदर्येषु धर्मार्थकामानामन्योन्यबाधा सुळभैव । तथाहियः किमप्यसंचिन्त्योत्पन्नमर्थमपव्येति स तादात्विकः १ । यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः २ । यो भृत्यात्मपीडाभ्यामर्थं सश्चिनोति न च कचिदपि व्ययते स कदर्यः ३ । तत्र तादात्विकमळहरयोरर्थभ्रंशेन धर्मकामयोर्विनाशन्नस् कल्याणं । कदर्यस्य त्वर्थसंग्रहो राजदायादभूमितस्करादीनां निधिर्नतु धर्मकामयोर्हेतुः । यतः, – “ दायादाः स्पृहयन्ति तस्क रगणा मुष्णन्ति भूमी जो, गृह्णन्ति च्छलमाकलय्य हुतभुग् भस्मीकरोति क्षणात् । अम्भः ठावयते क्षितौ विनिहितं यक्षा हरन्ते हठात् दुर्वृत्तास्तनया नयन्ति निधनं धिग् बरुधीनं घनम् ॥ १ ॥ मृत्युः शरीरगोप्तारं, रक्षितारं धनं घरा । दुश्चारिणीव हसति, स्वपतिं पुत्रवत्सलम् || २ || कीटिकासश्चितं धान्यं, मक्षिकासञ्चितं मधु । कृपणोपार्जिता लक्ष्मीः । परैरेवोपभुज्यते ।। ३ ।। ” अतस्त्रिवर्गस्य बाधा गृहस्थस्य कर्त्तुर्मनुचिता, यदा तु दैववशाद्भवति, तदोत्तरोत्तरबाधायां पूर्वपूर्ववाधा रक्षणीया । तत्र कामबाधायां धर्मार्थयोर्बाधा रक्षणीया, तयोः सतोः कामस्य सुकरोत्पादत्वात् । कामार्थयोर्वाधायां धर्मो रक्षणीयो धर्ममूलत्वादर्थकामयोः । उक्तं च - " धर्मश्चेन्नावसीदेत, कपालेनापि जीवतः । आढ्योऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः ॥ १ ॥ त्रिवर्गसंसाधनमन्तरेण, पशोरिवायुर्विफलं नरस्य । तत्रापि धर्मं प्रवरं वदन्ति, न तं विना यद्भवतोऽर्थकामौ ॥ १ ॥ " आयोचितश्च व्ययः । यन्नीतिशास्त्रम् – “ पादमायान्निधिं कुर्यात्पादं वित्ताय कल्पयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥ १ ॥ ” केचित्त्वाहुः–“ आयादर्द्ध नियुञ्जीत, धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम् ॥ १ ॥ " निर्द्रव्यसद्रव्ययोरयं विभाग इत्यप्येके । तथा – “ जीअं कस्स न इट्ठ, कस्स व लच्छी न वल्लहा होइ । अवसरपत्ताई पुणो दुन्नवि तणयाउ लहुअंति ॥ १ ॥ यशस्करे 'कर्मणि' मित्रसंङ्ग्रहे, मियासु नारीष्वंधनेषु बन्धुषु । धैर्मे 'विवाहे व्यसने रिपुक्षये, धनव्ययोऽष्टासु न गण्यते बुधैः ॥ २ ॥ यः काकणीमप्यपथप्रपन्नामन्वेषते निष्कसहस्रतुल्याम् । काले च कोटिष्वपि मुक्तहस्त॑स्त॒स्यानुबन्धं न जहाति लक्ष्मीः ॥ ३ ॥ यथा कस्यापीभ्यस्य नव्या स्नुषा श्वशुरं दीपोत्पतिततैलच्छटया उपानहर्मभ्यञ्जन्तं वीक्ष्य किमिदमंतिकार्पण्यमुतातिवैविक्त्यमिति सन्दिहाना परीक्षार्थं मे शीर्ष दुष्यात ' इति मिषासुप्ता भृशं क्रन्दति । श्वशुरेण बहुप्रतिकारकरणे तयोक्तं, “ मम प्रागप्यन्तरान्तरा एवं मान्द्यं स्याद् गुणस्तु जात्यमुक्ताफलचूर्णलेपेनैव स्यात् ” । तदा श्वशुरो हृष्टः तांन्यानीय यावद्वर्त्तयति, तावत्तया सम्यक् स्वरूपमुक्तं । धर्म्ये व्ययश्च श्रीवशीकरणं तेनैव तस्याः स्थिरीभावात् । भाष्यतेऽपि – “ मा मंस्थाः क्षीयते वित्तं, दीयमानं कदाचन । कृपारामगवादीनां ददतामेव संपदः ।। १ ।। " यथाहि - विद्यापति श्रेष्ठी ' बहुसमृद्धो दशमदिने यास्यामीति स्वप्नान्तर्लक्ष्म्योक्तः कान्तागिरा तान एव सर्व धनं सप्तक्षेत्रादौ व्यय्य कृतपरिग्रहमानः सुखं सुप्तः प्रातर्गृहं प्राग्वत् पूर्ण दृष्ट्वा पुनः सर्वं व्ययति स्म । एवं नवदिनी गता, दशमदिने ' त्वत्पुण्यैरहं सुस्थिरीभूता ' इति लक्ष्म्योक्ते व्रतभङ्गभिया पुरं त्यक्त्वा बहिःस्थोऽपुत्रनृपमृतेरधिवासितगजेनाभिषिक्तो दिव्यगिरा जिनं राजानं कृत्वा राज्यं निर्वाह्य पञ्चमभवे सिद्धः । एवञ्चार्थोपार्जनमशङ्कनीयत्वप्रशंसनीयत्वहान्यविष्यत्वंसुखसमाधिदृद्धिहेतुत्वपुण्यकार्योपयोगित्वादिंनेइलोकपरलोकहितं । पठितञ्च – “ सर्वत्र शुचयो धीराः, स्वकर्मवलगर्विताः । कुकर्मनिहतात्मानः, पापाः सर्वत्र शङ्किताः ॥ १ ॥ " अत्र ज्ञातम् । यथा - देव - यशोनामानौ द्वौ वणिजौ मिथः प्रीत्या सह व्यवहरन्तौ कापि पुरे मार्गे मणिकुण्डलं पतितं ददृशतुः । आद्यः सुश्रावकत्वात् दृढव्रतः परद्रव्यं सर्वथानर्थभूतं मन्वाः ? पश्चादेव निवृत्तः । द्वितीयोऽपि सह निवृत्तः परं न पतितग्रहणेऽधिकदोषः इति ध्यात्वा वृद्धस्य दृष्टिं वञ्चयित्वा तज्जगृहे । दध्यौ च, “ धन्योऽयं यस्येदृशी निःस्पृहता । परं मित्रत्वात्संविभागिनं करिष्याम्येनं सुयुक्त्या ” इति । तद् गुप्तीकृत्यान्यत्र पुरे गत्वा तेन कुण्डलेन प्रभूतभाण्डमाददे । क्रमात्स्वस्थानमागतौ तौ । आनीतभाण्डविभजनेऽतिप्रभूतं भाण्डं दृष्ट्वा देवेन निर्व
44
श्रीश्राद्धविधिप्रकरणम
75