SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ करैः प्रतिमोभयपार्श्ववर्तिभिर्दिव्यो ध्वनिः ३, शेषाणि स्फुटान्येव । इतिभावपूजा ३।-"पंचोषयारजुत्ता, पूआ अट्ठोवयारकलिआ य । रिद्धिविसेसेण पुणो, नेआ सव्वोवयारावि ॥ १॥ तहि पंचुवयारा, कुसुमरकयगंधधूवदीवहिं । १ कुसुमरकय-गंधे-पईवे-धूव-नेवज-फल-जलेहिं पुणो । अट्ठविहकम्महणणी, अढुवयारा हवइ पूआ ॥१॥ सव्वोवयारपूआ, ण्हवणच्चणवत्थभूसणाईहिं । फलबलिदीवाईनट्टगीअआरत्तिआइहिं ॥२॥" इति वृहद्भाष्यायुक्तं पूजाभेदायं । तथा -" सयमाणयणे पढमा, बीआ आणावणण अन्नेहिं । तइआ मणसा संपाडणेण वरपुप्फमाइणं ।।१॥” इति कायवाङ्मनोयोगितया करकारणानुमतिभेदतया च पूजात्रिकं । तथा-"पूपि पुप्फामिसथुइपडिवत्तिभेअओ चउविहंपि जहासत्तीए कुज्जा।" ललितविस्तरादौ तु पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राधान्यमित्युक्तं । तत्रामिषं प्रधानमशनादि भोग्य वस्तु । यद गौडः-"उत्कोचे पलले न स्त्री आमिषं भोग्यवस्तुनि ।" प्रतिपत्तिः पुनरविकलाप्तोपदेशपरिपालना । इत्यागमोक्तं पूजाभेदचतुष्टयं । तथा-" दुविहा जिणिंदपूआ, दवे भावे अ तत्थ दव्वंमि । दव्वेहिं जिणपूआ, जिणआणापालणं भावे ॥१॥" इत्याद्युक्तं द्रव्यभावादिलक्षणं पूजाभेदद्वयादि । तथा-" पुप्फारुहणं गंधारुहणं" इत्यादयः सप्तदश, स्नात्रविलेपनादयश्चैकविंशतिः पूजाभेदा अंगादिपूजात्रये सर्वव्यापकेंऽतर्भवंति । सप्तदशपूजाभेदांश्चैवमूचुः-"ण्हवणविलेवर्णअंगंमि चरकु जुअलं च वासपूआए । पुप्फारुहणं मालारुहणं तह वन्नेयारुहणं ॥ १ ॥ चुन्नारुहणं जिणपुंगवाण आहरणरोहणं चेव । पुगिह पुप्फगरो, आरति मंगलैंपईवो ॥२॥ दीवो धृवुरकेवं, नेवज सुहफलाणढोअणयं । गेअं नट्ट बज, पूजाभेआ इमे सत्तर ॥३॥" एकविंशतिभेदपूजादिविधिश्चैवमुक्तः-" स्नानं पूर्वामुखीभूय प्रतीच्या दंतधावनम् । उदीच्यां श्वेतवस्त्राणि पूजा पूर्वोत्तरामुखी ॥१॥ गृहे प्रविशतां वामभागे शल्यविवर्जिते । देवतावसरं कुर्यात्सार्द्धहस्तोलभामिके ॥ २॥ नीचैर्भूमिस्थितं कुर्याद्देवतावसरं यदि । नीचैर्नीचैस्ततो वंशः संतत्यापि सदा भवेत् ॥ ३ ॥ पूजकः स्याद्यथा पूर्व उत्तरस्याश्च संमुखः । दक्षिणस्या दिशो वर्ज विदिग्वर्जनमेव हि ॥ ४ ॥ पश्चिमाभिमुखं कुर्यात् पूजां जैनेंद्रमूर्तये । चतुर्थसंततिच्छेदो दक्षिणस्यामसंततिः ॥५॥ आनेय्यां तु यदा पूजा धनहानिर्दिने दिने । वायव्यां संततिर्नैव नैर्ऋत्यां च कुलक्षयः ॥ ६ ॥ ऐशान्यां कुर्वतां पूजां संस्थितिर्नैव जायते । अंघ्रि-जानु-कर-सेषु मूर्ध्नि पूजा यथाक्रमम् ॥ ७ ॥ श्रीचंदनं विना नैव पूजा कार्या कदाचन । भाले कंठे हृदंभोजोदरे तिलककारणम् ॥ ८ ॥ नवभिस्तिलकैः पूजा करणीया निरंतरम् । प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः ॥९॥ मध्याहे कुसुमैः पूजा संध्यायां धूपदीपकात् । वामांशे धृपदाहः स्याज्जलपात्रं तु संमुखम् ॥ १०॥ अहेतो दक्षिणे भागे दीपस्य विनिवेशनम् । ध्यानं तु दक्षिणे भागे चैत्यानां वंदनं तथा ।। ११ ॥ हस्तात्मस्खलितं क्षितौ निपतितं लग्नं कचित्पादयोर्यन्मू|र्ध्वगतं धृतं कुवसनै भेरधो यद्धृतम् । स्पृष्टं दुष्टजनैर्घनैरभिहतं यदृषितं कीटकैस्त्याज्यं तत्कुसुमं दलं फलमथो भक्तैर्जिनपीतये ॥ १२ ॥ नैकपुष्पं द्विधा कुर्यान्न च्छिद्यात्कलिकामपि । चंपकोत्पलभेदेन भवेद्दोषो विशेषतः ।। १३ ।। गंधधूपाक्षतैः स्रग्भिः प्रदीपैर्बलिवारिभिः । प्रधानैश्च फलैः पूजा विधेया श्रीजिनेशितुः ।। १४ ॥ शांतौ श्वेतं तथा पीतं लाभे श्याम पराजये । मंगलार्थे तथा रक्तं पंचवर्ण च सिद्धये ॥ १५॥ पंचामृतं तथा शांती दीपः स्यात्सघृतैर्गुडैः । वही लवणनिक्षेपः शांत्यै तुष्टयै प्रशस्यते ॥१६॥ खंडिते संधिते छिन्ने रक्ते रौद्रे च वाससि। दानपूजातपोहोमसंध्यादि निष्फलं भवेत् ॥१७॥ 'अग्रपूजा' इत्यपि पाठः 'अपपूर ' इस्यपि पद्मासनसमासीनो नासाग्रन्यस्तलोचनः । मौनी वस्त्रावृतास्योऽयं पूजां कुर्याजिनेशितुः ॥१८॥ स्नानं विलेपन-विभूषण-पुष्पवास-धूप-दीप-फल-तंदुल-पत्र-पूगैः । नैवेद्य-वारि-वसनैश्चमरीतपत्र-वादित्र-गीत-नटन-स्तुति-कोशवृद्ध्या ॥१९॥ इत्येकविंशतिविधा जिनराजपूजा ख्याता सुरासुरगणेन कृता सदैव । खंडीकृता कुमातिभिः कलिकालयोगाद यद्यत्मियं तदिह भाववशेन योज्यम् ॥२०॥" इति पूजाप्रकरणमुमास्वातिवाचककृतमिति प्रसिद्धिः। तथा-'ऐशान्यां देवताहम्' इति विवेकविलासे । तथा-"न वैषम्ये न पादस्थे न चैवोत्कटिकासने । नैवोर्चे वामपादे न न पूजा वामहस्ततः ॥१॥ न शुष्कैः पूजयेद्देवं कुसुमैन महीगतैः । न विशीर्णदलैः स्पृष्टै शुभैर्नाऽविकाशिभिः ॥२॥ कीटकोशापविद्धानि शीर्णपर्युषितानि च । वर्जयेदर्णनाभेन वासितं यदशोभनम् ॥३॥ पृतिगंधीन्यगंधीनि अम्लगंधीनि वर्जयेत् । मलमूत्रादिनिर्माणादुच्छिष्टानि कृतानि च ॥४॥" सविस्तरपूजावसरे च नित्यं विशेषतश्च पर्वसु त्रिपंचसप्तकुसुमाञ्जलिप्रक्षेपादिपूर्व भगवतः स्नात्रं विधेयं । तत्रायं विधिः, प्रातः पूर्व निर्माल्योत्सारणं प्रक्षालनं संक्षेपपूजा आरात्रिकं मंगलमदीपश्च । ततः स्नात्रादिस विस्तरद्वितीयपूजामारंभे देवस्य पुरः सकुङ्कमजलकलशः स्थाप्यः । ततः-" मुक्तालंकारविकारसारसौम्यत्वकांतिकमनीयम् । सहजनिजरूपनिर्जितजगत्त्रयं पातु जिनबिम्बम् ॥ १॥" इत्युक्त्वांऽलङ्कारोत्तारणम् । -" अवणि कुसुमाहरणं पयइपइटिअमणोहरच्छायं । जिणरूवं मजणपीठसंठिअं वो सिवं दिसउ ॥२॥” इत्युक्त्वा निर्माल्योत्तारणम् । ततः प्रागुक्तकलशदालनं पूजा च । अथ धौतधूपितकलशेषु स्नात्राईसुगंधजलक्षेपः, श्रेण्या तेषां व्यवस्थापनं सद्वस्त्रेणाच्छादनं च । ततः स्वचंदन(पादिना कृततिलकहस्तकंकणहस्तधृपनादिकृत्याः श्रेणिस्थाः श्रावकाः कुसुमाञ्जलिपाठान् पठन्ति श्रीश्राद्धविधिप्रकरणम् 47
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy