SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ शमार्गासन्नान्यान्यचैत्या पूजने मुख्यचैत्यगमनमपि प्रांत प्रसन्यते,। न चैवं युज्यते, उपाश्रमप्रवेशे आसनसाधूनामापि गुरुवंदनात्पूर्व वंदनप्रसंगात् । प्रणाममात्रंत्वासन्नार्चादीनां पूर्वमपियुक्तं । तृतीयोपांगाविसंवादिन्यां सघाचारोक्तविजयदेववक्तव्यतायामपि द्वारसमवसरणबिंबपूजा पश्चादुक्ता । यथा-" तो गंतु सुहम्मसहं, जिणसकहा दंसणंमि पणमित्ता। उग्घाडित्तु समुग्गे, पमज्जए लोमहत्येणं ।। १ ।। सुरहिजलेणिगवीसं, वारापरकालिआणुलिंपित्ता । गोसीसचंदणेणं, तो कुसुमाईहिं अच्चेइ ॥२॥ तो दारपडिमपू, सहास पंचसुवि करइ पुव्वं व । दारचणाइ सेसं, तइअ उवंगाउ नायव्वं ।। ३॥" तस्मान्मूलनायकस्य पूजा सर्वेभ्योऽपि पूर्व सविशेषा च कार्या । उक्तमपि-" उचिअतं पूआए, विसेसकरणं तु मूलबिंबस्स । जं पडइ तत्थ पढम, जणस्स दिट्ठी सहमणेणं ॥१॥" शिष्यः-"पूआवंदणमाई, काऊणेगस्स सेसकरणंमि । नायगसेवगभावो. होइ को लोगनाहाणं ॥ २॥ एगस्सायरसारा, कीरइ पूआवरेसि थोवयरी । एसावि महावना, लखि जइ निउणबुद्धीहि ॥ ३ ॥" आचार्य:-" नायगसेवगबुद्धी, न होइ एएसु जाणगजणस्स । पिच्छंतस्स समाणं, परिवारं पाडिहेराई॥४॥ ववहारो पुण पढम, पइटिओ मूलनायगो एसो । अवणिज्जइ सेसाणं, नायगभावो न उण तेण ॥ ५॥ वंदणपूअगबलिढोअणेसु एगस्स कीरमाणेसु । आसायणा न दिट्ठा, उचितपवित्तस्स पुरिसस्स ।। ६॥ जद मिम्मयपडिमाणं, पूआ पुप्फाइएहिं खलु उचिआ। कणगाइ निम्मिआणं, उचिअतमा मज्जणाई वि ।। ७॥ कल्लाणगाइकज्जा, एगस्स विसेसपूअकरणे वि । नावना परिणामो, जह धम्मिजणस्स सेसेसु ॥८॥ उचिअपवित्तिं एवं, जहा कुगंतस्स होइ नावन्ना । तह मूलविआ, विसेसकरणे वि तं नत्थि ॥ ९॥ जिणभवणबिंबपूआ, कीरति जिणाण नो कए किंतु । सुहभावणानिमित्तं, बुहाण इयराण बोहत्थं ॥ १० ॥ चेहरेण केई, पसंतरूवेण केइ विबेण । पूआइसया अन्ने, अमे बुज्झति उवएसा ॥११॥" अत एव चैत्यं गृहचैत्यं च तथा तयोबिबानि विशिष्य च मुख्यबिंब यथा स्वसामर्थ्य देशकालाद्यपेक्षमतिविशिष्ठानि कारयति । गृहचैत्यं हि पित्तलताम्रादिधातुमयं संप्रत्यपि कारयितुं शक्यते । तदशक्तौ दंतादिमयं दंतभ्रमर्यादिरचनापित्तलहिंगुलशोभाप्रवरकोरणीविशिष्ठकाष्ठादिमयं वा कार्यते । तथा चैत्ये गृहचैत्ये च प्रत्यहं सर्वतः प्रमार्जनं यथाविलोक्यमानतैलाभ्यंजनं सुधाधवलनं जिनचरित्रादिविचित्रचित्ररचनं समग्रपूजोपकरणसमारचनं परिधापनिकाचंद्रोदयपदानादि च तथा करोति यथा सश्रीकतातिरेकः स्यात् । गृहचैत्योपरि च धौतिकाद्यपि न मोच्यं, चैत्यवत्तत्रापि चतुरशीत्याशातनानां वर्जनीयत्वात् , पित्तलशैलादिमय्योऽर्चाश्च स्नपनानंतरमकेनांगरूक्षणेन सर्वतो निर्जलीकृत्य प्रत्यहं द्वितीयेन मृदूज्जवलांगरूक्षणेन मुहुर्मुहुः सर्वतः स्पृशेत् , एवमर्चानामौज्जवल्यं स्यात् । यत्र यत्र स्वल्पोऽपि जलक्लेदस्तिष्ठति तत्र तत्र श्यामिका स्यादिति, स सर्वथा व्यपास्यते, केसरबहुलचंदनविलेपनेनाप्यधिकाधिकमौज्ज्वल्यं तासां स्यात् । न च पंचतीर्थीचतुर्विंशतिपट्टादौ मिथः स्नात्रजलस्पर्शादिना दोष आशंक्यः, यदाहुः-"रायप्पसेणइज्जे, सोहम्मे सूरियाभदेवस्स । जीवाभिगमे विजयापुरीइ विजयाइदेवाणं ॥ १॥ भिंगारलोमहत्थयलूहणया धृवदहणमाईअं। पडिमाणं सकहाणय पूआए इक्कयं भणियं ।।२।। निव्वुअजिणिंदसकहा सग्गसमुग्गेमु तिसु वि लोएसु । अन्नोन्नं संलग्गा, ण्डवणजलाईहिं संपुट्ठा।।३।। पुव्वधरकालविहिआ, पडिमाई संति केसु वि पुरेसु। वत्तरका खेत्तरका, महकया गंथदिवाय॥४॥" एकस्याईतः प्रतिमा व्यत्क्याख्या १, एकत्र पट्टादौ चतुर्विंशतिप्रतिमा क्षेत्राख्या २, एवं सप्ततिशतप्रतिमा महाख्या ३, -" मालाधराइआण वि, धुवणजलाई फुसेइ जिणबिंबं । पुत्थय पत्ताईण वि, उवरुवरि फरिसणाईअं ॥५॥ ता नजइ नो दोसो, करणे चउवीसवट्टयाईणं । आयरणाजुत्तीओ, गंथेसु अ दिस्समाण ति॥६॥" वृहद्भाष्येऽप्युक्तं—“जिणरिदिदंसणत्यं, एगं कारेइ कोइ भत्तिजुओ । पायडिअपाडिहेरं, देवागमसोहिअं चेव ॥ १॥ दंसणनाणचरित्ताराहणकज्जे जिणात्तिअं कोइ । परमिढिनमोकारं, उज्जमिउं कोइ पंचजिणे ॥ २॥ कल्लाणयतवमहवा, उज्जमिउं भरहवासभावित्ति । बहुमाणविसेसाउ, केई कारंति चउव्वीसं ।। ३ ।। उक्कोस(सं)सत्तरिसयं, नरलोए विहरइत्ति भत्तीए । सत्तरिसयंपि कोई, बिंबाणं कारइ धणहो ॥ ४ ॥" तस्मात् त्रितीर्थीपंचतीर्थीचतुर्विंशतिपट्टादिकारणं न्याय्यमेव दृश्यते । इत्यंगपूजा १ । रौप्यसौवर्णशालिसिद्धार्थाद्यक्षतैरष्टमगलालेखनं । यथा श्रेणिकनृपस्य प्रत्यहमष्टोत्तरशतसौवर्णयवैः । अन्यथा वा ज्ञानदर्शनचारित्राराधननिमित्तं दृष्ट्या पुंजत्रयेण पट्टादौ विशिष्टाक्षतढौकनं, तथा विविधानां कूराद्यशन१शर्करागुडादिपानरपकानफलादिखाद्य३ तांबूलादिस्वाद्यानां ४ ढौकनं । गोशीर्षचंदनरसेन पंचाङ्गलितलैमंडलालेखनादि पुष्पप्रकरारात्रिकादि च सर्वमग्रपूजायामतर्भवति । यद् भाष्यं-" गंधवनट्टवाइअ, लवणजलारत्तिआइ दीवाई । जं किच्चं तं सव्वंपि ओअरइ अग्गपूआए ॥१॥" नैवेद्यप्रजा च प्रत्यहमपि सुकरा महाफला च, धान्यस्य विशिष्य च राद्धस्य जगज्जीवनतया सर्वोत्कृष्टरत्नत्वात् , तत एव वनवासागतश्रीरामेण महाजनोऽन्त्रस्य कुशलं पृष्टः । कलहनिवृत्तिप्रीत्याद्यपि मिथोऽन्नभोजनेनैव सुदृढं । देवा अपि नैवेद्येन प्रायः प्रीयंते । श्रूयते ह्यग्निवेतालः शतमृढकनैवेद्यादिना विक्रमादित्यस्य वशीभूतः। भूतप्रेतादयोऽपि झरेयीक्षिपवटकाद्यन्नमेवोत्तारणादौ याचंते । तथा दिक्पालादीनां बलिः तीर्थकृद्देशनानंतरबलिश्चान्नेनैव क्रियते । निःस्वो इली साधृक्त्यासनचैत्ये नित्यं नैवेद्यं ददानोऽन्यदोत्सूरे सिंहरूपभिक्षुत्रयदर्शनपरीक्षातुष्टयक्षगिरा सप्तमेऽति स्वयंवरे कन्यां नृपजयं राज्यं च श्रीश्राद्धविधिप्रकरणम 45
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy