SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ऽर्चयेत् । केऽप्याहुः " पूर्व भाले तिलकं कृत्वा नवांगपूजा कार्या।" श्रीजिनमभसरिकृतपूजाविधौ तु-"सरससुरहिचंदणेण देवस्स दाहिणजाणुदाहिणखंधनिडालवामकंधवामजाणुलरकणेसु पंचसु हिअएहिं सह छसु वा अंगेसु पूअं फाऊण पचग्गकुसुमेहिं गंधवासेहिं च पूएइ" इत्युक्तं । यदि च पाक् केनापि पूजा कृता स्यात्तदा विशिष्टान्यपूजासामग्र्यभावे तां नोत्सारयेत् , भव्यानां तद्दर्शनजन्यपुण्यानुबंधिपुण्यानुबंधस्यांतरायमसंगात्, किंतु तामेव विशेषयेत् । यदवृहदभाष्यं"अह पुव्वं चिय केणइ, हविज पूआ कया सुविहवेण । तंपि सविसेससोहं जह होइ तहा तहा कुज्जा॥१॥ निम्मल्लपि न एवं, भन्नइ निम्मल्ललरकणाभावा । भोगविणटं दव्वं, निम्पल्लं बिति गीयत्था ॥२॥ इत्तो चेव जिणाणं, पूणरवि आरोवणं कुगंति जहा । वत्थाहरणाईणं, जुगलिअकुंडलिअमाईणं ॥३॥ कहमनह एगाए, कासाईए जिणिदपडिमाणं । अट्ठसयं लूहता, विजयाई वनिआ समए ॥४॥" यद जिनबिंबारोपितं सद विच्छायीभूतं विगंधं जातं दृश्यमानं च निःश्रीकं न भव्यजनमनः प्रमोदहेतुस्त निर्माल्यं ब्रुवंति बहुश्रुता इति संघाचारवृत्तौ । प्रद्युम्नसूरिकृते विचारसारमकरणेत्वेवमुक्तं-"चेइअदव्वं दुविहं, पूा निम्मल्लभेअओ इत्थ । आयाणाई दव्वं, पूारित्थं मुणेयव्वं ॥१॥ अस्कयफलबलिवत्थाइ संतिथं जं पुणो दविणजायं । तं निम्मलं वुच्चइ, जिणगिहकम्ममि उवओगो ॥२॥" अत्र दौकिताक्षतादेर्निर्माल्यत्वमुक्तं, परमन्यत्रागमे प्रकरण चरित्रादौ वा कापि न दृश्यते, वृद्धसंप्रदायादिनापि कापि गच्छेऽपि नोपलभ्यते । यत्र च ग्रामादावादानादिद्रव्यागमोपायो नास्ति, तत्राक्षतबल्यादिद्रव्येणव प्रतिमाः पूज्यमानाः संति । अक्षतादेर्निर्माल्यत्वे तु तत्र प्रतिमापूजापि कथं स्यात तस्मायोगविनष्टस्यैव निर्माल्यत्वं युक्तियुक्तं प्रतिभाति । “भोगविणटुं दव्वं निम्मलं बिति गीअत्था" इत्यागमोक्तेरपि, तत्वंतु केवलिगम्यं । चंदनपुष्पादिपूजा च तथा कार्या यथा जिनस्य चक्षुर्मुखाच्छादनादि न स्यात्, सश्रीकतातिरेकश्च स्यात्, तथैव द्रष्टृणां प्रमोदपुण्यवृद्ध्यादि संभवात् । अंगाग्रभावैश्च त्रिधा पूजा । तत्र निर्माल्यापनयनं, प्रमार्जनांगप्रक्षालनं, वालककूचिकाव्यापारणं, पूजनं, कुसुमांजलिमोचनं, पंचामृतस्नात्रं, शुद्धोदकधारामदानं, धूपितस्वच्छमृदुगंधकाषायिकादिवत्रणांगरूक्षणं, कर्पूरकुंकुमादिमिश्रगोशीर्षचंदनविलेपनांगीविधानादि, तथा गोरोचनामृगमदादिभिस्तिलकपत्रभंग्यादिकरणं, निस्सपत्नरत्नसौवर्णमुक्ताभरणरौप्यसुवर्णपुष्पादिभिरलंकरणं । यथा श्रीवस्तुपालः स्वकारितसपादलक्षबिंबानां श्रीशजयसर्वबिम्बनांच रत्नस्व भरणानि कारितवान् । यथा वा दमयंती माम्भवेऽष्टापदे चतुर्विशतेरहतारात्नतिलकानि ददौ । एवं चान्येषामपि भाववृद्ध्याद। यतः-"पवरेहिं साहणेहिं, पायं भावोवि जायए पवरो। न य अन्नो उवओगो, एएसिं सयाण लट्ठयरो॥१॥" तथा परिधापानका चंद्रोदयादि विचित्रदुकूलादिवस्त्रैः परिधापनं । ग्रंथिम-वेष्टिम-पूरिम-संघातिमरूपचतुर्विधप्रधानाम्लानविध्यानीतशतपत्रसहस्रपत्रजातीकेतकचंपकादिविशेषपुष्पैर्माला-मुकुंट-शिरस्क- पुष्पगृहादिविरचनं। जिनहस्ते सौवर्णबीजपूरनालिकेरपूगीफलनागवल्लीदलनाणकमुद्रिकामोदकादिमोचनं। धृपोत्क्षेपसुगंधवासमक्षेपाद्यपि सर्वमंगपूजायां भवति । तथोक्तं वृहद्भाष्ये "ण्हवणविलेवणआहरणवत्थफलगंधधूवपुप्फेहिं । कीरइ जिणंगपूआ, तत्थ विही एस नायव्यो ॥१॥ वत्येण बंधिऊणं, नासं अहवा जहा समाहीए । वजेअव्वं तु तया देहमि वि कंडुअणमाई ॥२॥" अन्यत्रापि “कायकंडूयणं वज्जे, तहा खेलविगिंचणं । थुइथुत्तभणणं चेव, पूअंतो जगबंधुणो ॥ १॥" देवपूजाक्षणे च मुख्यवृत्त्या मौनमेव कार्य, तदशक्तौ पापहेतुर्वचः सर्वथा त्याज्यं, नैषेधिकीकरणे गृहादिव्यापारनिषेधात्, तत एव पापहेतुः संज्ञापि वा, अनौचित्यादिमसंगादपि । यथा धवलक्कवासी श्रेष्ठी जिणहाकोतिःस्थो घृतकुतुपकपोसादिभारवहनेन निर्वाही भक्तामरस्तवादि स्मृतेः तुष्टचक्रेश्वरीदत्तवश्यकृद्रत्नमाहम्ना मार्गे दुष्टतया विख्यातं चौरत्रयं जघान पत्तने भीमदेवनृपोऽदूतं तमुदंतं श्रुत्वा सबहुमानमाकार्य तस्मै देशरक्षार्थ खरं ददौ। तदा शत्रुशल्यः सेनानीः सेय॑माख्यत् । खांडउ तासु समप्पिड़, जसु खंडइ अभास । जिणहा इक समप्पिइ, तुळचेलउ कप्पास ॥१॥" स प्रत्याह “असिधर घणुधर कुंतधर, सत्तिधरा य बहूआ सत्तुसल जे रणि सुरनर जणणिति विरलपसू अ ॥ १ ॥ अश्वः शस्त्रं शास्त्रं वाणी वीणा नरश्च नारी च । पुरुषविशेष प्राप्ता भवंत्ययोग्याश्च योग्याश्च ॥२॥" तदुक्त्या हृष्टो नृपः तं तंलारसं चक्रे । तेन गुर्जरत्रायां चोरनाम निष्ठापितं । अन्येद्युः सुराष्ट्राचारणस्तत्परीक्षार्थ कृतोष्ट्रचौर्यस्तद्भटैर्बद्धः मातर्देवपूजाक्षण जिणहाने नीतः तेन पुष्पद्वंतताटनसंज्ञाकरणे चारणः पोच-"जिणहानइ जिणवरह न मिलइ तारो तार । जिणि करि जिणवर पुजिइ, ते किम मारणहार? ॥१॥" ततस्तेन हीणेन चौर्य न कार्यमित्युक्त्वा स मुक्तः प्राह-"इका चोरी सा किआ, जा खोलडइ नमाइ । बीजी चोरी किम करइ, चारण चोर न थाय ॥१॥" ततश्चारणः सम्यगुल्या परिधापितः। जिणहाख्यो यात्राचैत्यपुस्तकलेखनादिपुण्यं चक्रे । पोलिकशुल्कमोचनादि च, तत्तु जनेऽद्ययावनिर्वहते इति जिणहाकमबंधः । मूलबिंबसविस्तरपूजानंतरं च सृष्ट्या सर्वापरबिपूजा यथायोगं कार्या । द्वारबिंबसमवसरणबिंबपूजापि मुख्यबिंबपूजाद्यनंतरं गर्भगृहानिर्गमनसमये कर्त्तव्या संभाव्यते नतु प्रवेशे, पूर्व मूलबिंबस्यैव पूजाया औचित्यप्रतिभासात् । आसन्नीभूतत्वेन द्वारबिंबादेः पूर्व पूजने वृहाचैत्यप्रवेशेऽनेकबिंबानामासन्नीभवनेन पूर्व पूजामसंगः । तथा चाल्पपुष्पादिसमाप्ती मूलार्चापूजापि न स्यात् । तथा श्रीशत्रुजयरैवतादितीर्येषु प्रवे 44 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy