________________
प्रीणयामास सा सर्वांगीण नैपुणात् । तथा यथामुना सैव चक्रे चामर हारिणी ॥ ४८८ ॥ सेयं तव सवित्री भो भवांतरगतेव तु । रूपस्वरूपादिभिदा 'प्रत्यभ्यज्ञायि' न' त्वया ।। ४८९ ।। त्वां तु' प्रत्यभिजज्ञौ सा हिया लोभाश्च नभ्यधात् । अहो लोभस्य साम्राज्यं सर्वागीणर्मभंगुरम् ॥ ४९० ॥ धिग् धिक् पण्यांगना पापकर्म दुष्कर्मसीमगम् । मात्रा यत्रार्थमात्रार्थ पुत्रो ज्ञात्वापि काम्यते ॥ ४९१ ॥ निंद्या निद्यादपि त्याज्यास्त्याज्यादपि पण स्त्रियः । स्थाने विज्ञैर्विनिर्दिष्टा यासां दुःशीलतेदृशी ॥ ४९२ ॥ विषादविस्मया॑यत्तचित्तस्तमवदत्ततः । श्रीदत्तस्त्रिर्जगद्वेत्तरेतद्वेत्ति कथं कपिः ॥ ४९३ ।। साधो ! साधुरिवोद्ध
कूपे ततः स मे । कथं च मानुषीं भाषां भाषतेऽथाभ्यधादृषिः ॥ ४९४ || यस्तदा ते पिता सोमश्रियं ध्यायन् पुरं विशन् । अकांडकांडघातेन मृतः स व्यंतरोऽभवत् ।। ४९५ ।। वनाद्वनं परिभ्राम्यन् भृंगवच्चित्तरंगवान् । दैवादत्रागतो' मात्रा - सक्तं स त्वामवैक्षत ।। ४९६ ॥ सोऽवतीर्य लवंगांगे' त्वां तथा प्रत्यबूबुधत् । सूनोः 'पिता' हिताकांक्षी भवांतरगतोऽपि हि ॥ ४९७ ॥ स चैनां प्राग्भवप्रेम्णा कपिरूपेण सांप्रतम् । यास्यत्यारोप्य पृष्ठे द्राक् तव पश्यत एव भोः ॥ ४९८ ॥ वदत्येवं देव ताम् । सिंहोंsबिकामिवारोप्य पृष्ठे स्वेष्टं कपिर्ययौ ॥। ४९९ ।। मोहविस्फूर्जितमहो अहो भवविडंबना | ब्रुवन्नेवं शिरो धुन्वन् सोऽगानीत्वा 'गृहेऽगजाम् ॥ ५०० ॥ तावत्सुवर्णरेखा केयंकिया प्रनिता जगुः । दास्योऽनुमत्य लक्षार्द्ध' श्रीदत्तस्तां वनेऽनयत् ॥ ५०१ ॥ आहातुं तां तया दास्यः महिताः कापि हट्टके । दृष्ट्वोपविष्टं श्रीदत्तं पृष्टवत्यः' ससंभ्रमम् ॥ ५०२ ।। सुवर्णरेखा कुत्रेति' श्रीदत्तोऽप्यवदत्तदा । को वेत्ति कुत्र यातेति तस्या अनुचरोऽस्मि किम् ॥ ५०३ ॥
१ सर्वच ||
गवाय 'दौष्पपेटीभिश्रेटीभिः कथिते तथा । रोषेण राक्षसीदेश्या सा वेश्यांग्रे नृपं ययौ ॥ ५०४ ॥ मुषिता सुषितास्मीत्युचैः चक्रुषी च सा । किमेतदिति राज्ञाय पृष्टां भाषिष्ट कष्टभृत् ॥ ५०५ ॥ सुवर्णरेखां' साक्षान्मे' सुवर्णपुरुषं 'प्रभो! । श्रीदत्तः काप्यपाहार्षित् पश्यनोहरशेखरः ॥ ५०६ ॥ तस्याश्वोरिकेयमुष्ट्रस्येवातर्येति विस्मितः । ततः श्रीदत्तमाहाय पृष्टव्यं पृष्टवान्नृपः ॥ ५०७ ॥ व्यक्तं तदानीं नांदत्त श्रीदत्तः किंचिदुत्तरम् । न कश्चित्सत्यमप्युक्तमिदंमंतेति चिंतयन् ॥ ५०८ ॥ यतः–“असंभाव्यं न वक्तव्यं प्रत्यक्षं यदि दृश्यते । यथा वानरसंगीतं यथा तरति सा शिला ॥ ५०९ ।। " दुष्कर्मणैव नरके' कारायां' चिक्षिपेऽय सः । राज्ञा रुष्टेन तद्भांडशाले मुद्राप्यदाप्यत ॥ ५१० ॥ अक्षिप्यत च चेटीषु' तत्पुत्री निजमंदिरे । विधात्रेवॉवनीभर्त्रा' सत्रा 'मित्रात्मता कुतः ॥ ५११ ॥ अनुक्त्या वात्ययेर्वाभूद्भूपकोपाग्निदीपना । यथार्थमेव तद् वच्मि ' जातु ' भद्रं भवेत्ततः ॥ ५१२ ॥ ध्यात्वेत्यरक्षकैर्विज्ञापित॑स्तेन तथा नृपः । चारात्कृष्ट्वा तममाक्षीत् ' सोऽप्याख्यत्तां कपिर्ललौ ॥५१३॥ ततः' सर्वे' हसंतिस्म'शंसंतिस्म च विस्मिताः । सत्यं कीदृगहो प्रोक्तमहो दुष्टस्य धृष्टता ।। ५३४ ।। कोपकमेण च क्षिप्रं राशादिष्टो' वधाय सः । रोषस्तोषश्च महतां तत्कालं हि फलेग्रहिः ॥ ५१५ ॥ सौनिकैरिव गौर्भूभृद्भटैरत्युद्भटैः स्फुटम् । बधस्थानं नीयमानः स चेत्यंतरंचिंतयत् ।। ५१६ ।। पुत्रीसेवित्रीभोगेच्छामित्रद्रोहादि पातकम् । ध्रुवं मेऽत्रैव फलितं धिग् दुर्दैवदुरंतताम् ।। ५१७ ।। किमिदं सत्यवादेऽपि निःसमं त्वसमंजसम् । विधिं विरुद्धं रोद्धुं वा कः क्षमः क्षुभितब्धिवत् ॥ ५१८ ।। यतः–“ धारिज्जइ इंतो जलणिही वि' कल्लोलभिन्नकुलसेलो । गहु' अण्णजम्माणम्मिअ, सुहासुहो' दिव्वपरिणा
१ राक्षसदृशी । २ पुस्कारं कृतवत्री 3 चोरचूडामणिः । ४ फलेग्रहिः सफलः । ५ सवित्री माता |
·
मो ।। ५१९ ।। " तस्य पुण्यैरिवकृष्टो' राष्ट्रांतर्विहरंस्तदा । केवली' मुनिचंद्राहः पुनीतेस्म वनांतरम् ॥ ५२० ॥ उद्यानपालविज्ञप्तः क्ष्मापालः सपरिच्छदः । गत्वा नत्वा ययाचे' तं देशनां प्रातराशवत् ॥ ५२१ ॥ गुरुर्ज जगद्वंधुर्नधर्मो यस्य नो नयः । तस्य का देशना देश्या मणिमाला' करिव ॥ ५२२ ॥ संभ्रांतः क्षोणिकांतस्तं माहिर्मनयी कुतः । तेनोक्तं सत्यवक्तुः श्रीदत्तस्य कुरुषे नु किम् ॥ ५२३ ।। ततः श्रीदत्तमीहाय्य हीणः क्षोणीदुरीदरात् । निवेश्य 'स्वांतिके यावत्मोचेऽसौ सत्यवाकथम् | ॥ ५२४ ॥ वहन् सुवर्णरेखां स तावदीगात् एवंगमः । तामुत्तार्य' निविष्टश्च सर्वैर्दृष्टश्च कौतुकात् ।। ५२५ ॥ श्रीदत्तः सत्यवादीति नृपाद्यैः श्लाघितस्ततः । पृष्टश्वाशेषवृत्तांतः प्रभुणा प्रत्यपाद्यत ॥ ५२६ ॥ श्रीदत्तश्च ततः पृच्छां चक्रे वक्रेतराशयः । कुतः पुत्र्यां सवित्र्यां चानुरागोऽजनि में प्रभो ! ॥ ५२७ ॥ गुरुः प्रोचे प्राच्यजन्मसंबंधात्तं पुनः शृणु । आसीत्पंचालदेशांतः कांपिल्यपुरपत्तनम् ।। ५२८ ॥ अग्निशर्मा द्विजस्तत्र तत्पुत्रचैत्रनामभृत् | गौरीगंगाइये ' तस्य महेशस्येव वल्लभे ।। ५२९ ॥ नाम्ना मैत्रेण मित्रेण संत्रा चैत्रोऽन्यदा ययौ । याश्चार्थं कुंक देशे ' भिक्षेष्टा ' हि' द्विजन्मनाम् ।। ५३० ॥ बंभ्रम्यंतौ बहु द्रव्यमर्जयामासतुश्च तौ । चैत्रे सुप्तेऽन्यदा मैत्रो व्यततर्क कुतर्कहत् ॥ ५३१ ॥ सर्व द्रव्यं निहत्यैनं गृहामीति क्षणादयम् । उत्तस्थौ हंतुमप्येनं हा धिगर्थमनर्थदम् ॥ ५३२ ।। विवेकसत्यसंतोषत्रपाप्रेमकृपादिकान् । विध्वंसतेऽर्थलुब्धो द्राग् दुर्वायुरिव वारिदान ।। ५३३ ।। तत्रैव देवयोगाश्च विवेकादयादयम् । विध्वस्तयुक्तलोभांधतमसः समचितयत् ।। ५३४ ॥ विश्वस्तमित्रघातार्थं ' धिग् धिग् मामाततायिनम् । निंद्यं निंद्यतमेभ्योऽपि ध्या
१ प्रभातभोजनवत् । श्रीश्राद्धविधिप्रकरणम
21