SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ चैषा तु ताशी । वयोवर्षानुमानात्स्याद्वालेयं जातु मे सुता ॥ ४४० ॥ प्रमूर्रियं तु नैव स्यादिमां पृच्छामि चेति सा | पृष्टा स्पष्टर्मभाविष्ट भोः कस्त्वामुपलक्षयेत् ।। ४४१ ॥ पशुवाचा विभ्रमे किं पतितोऽसि मुधा बुध !। तयेत्युक्तोऽपि साशंकचित्तः श्रीदत्त उत्थितः ॥ ४४२॥ न युक्तनिशंकायां प्रवृत्तिः सुधियां कचिद । विशत्यनिश्चितस्ताघे'श्रेयस्कामः किमभासि ॥१४३|| इतस्ततः सबंभ्रम्यन्मुनिमेकमवैक्षत । नत्वेममृचे कपिना पातितोऽस्मि भ्रमोदधौ ॥ ४४४ ॥ ज्ञानेनाद्धर'मा स्वामिन्मुनींद्रोऽप्याह 'मद्गुरुः । केवली देशमध्येऽस्ति भानुवद्भुवि बोधकृत् ॥ ४४५ ॥ जानन जानेऽवधिनाऽधुनाहमपि वच्मि च । यथा भोः! कपिना प्रोचे तत्तथैवाप्तवाक्यवत् ॥ ४४६॥ कथमित्यमिति प्रोक्तेऽमुना मुनिवरोऽप्यवक् । आकर्णय संकर्ण! माक पुत्र्या व्यतिकरं ब्रुवे ॥४४७ ॥ त्वपिता स्वप्रियाहेतोः प्रच्छनं प्रस्थितस्तदा । समरं समरक्रूरं पल्लीपतिमुपास्थितः ॥ ४४८ ।। ईगेवोचितोऽत्रेति तस्य । तव्य दानतः । अचीचलन्महासैन्यं श्रीमंदिरपुरं प्रति ॥ ४४९ ॥ तस्माद्वारिवोद्वेलाः' प्रबलास्तत्पुरप्रजाः । भीताः। स्थानं शिवं गंतुमीघुर्भव्या भवादिव ॥ ४५० ।। तदा त्वद्दयिता गंगातीरे सिंहपुरे पुरे । सुतायुता पितुर्वेश्म' सुमुखी जग्मुषी जवात् ।। ४५१ ॥ तत्रैषा बहुवर्षाणि तस्थौ स्वभ्रातृसंनिधौ । स्त्रीणां पत्यायोगे हि पिता भ्रातैव वा गतिः॥ ४५२ ॥ मासे कदाचिदापाढे विषागादेन सा सुता । अदंशि दंदशूकेन धिग दुष्कर्म दुरात्मताम् ॥ ४५३|| निश्चैतन्याथ सा कन्या जनन्यायैर्विधापितैः। प्रापोपचारैश्चैतन्यं न वंध्येव स्तनंधयम् ॥ ४५४ ॥ सहसा वहिसात्क महिग्रस्तं हि नाइति । आयुर्दाादिसंयोगे प्रोज्जीवत्यपि जातचित् ॥ ४५५ ॥ इ. १ अनिश्चितगांभीर्य । * हे निद्वन् ! । त्यंतमंजुमंजूषं क्षिप्त्वा' निबदलै ताम् । ते त्यक्तरंगा गंगाया: प्रवाहे 'तामवाहयत् ।। ४५६ ॥ तदाबुदमहादृष्ट्या गंगा पूरमुपेयुपी। दुर्नीतिरिव तीरद्र न् स्वाश्रितान् द्रागुपाद्रवत् ॥ ४५७॥ तेन पूरेण दरेण प्रेरिता वायुनेव नौः। मापुषी मंजुमंजुषा साब्धौ लब्धा ततस्त्वया ॥ ४५८ ।। पुरः सर्वे स्वयं वेत्ति सेयं पुत्री भवेत्तव । अथो मातुब्रुवे वृत्तं चित्तं कृत्वा स्थिरं श्रण ।। ४५९ ॥ तस्मात्पल्लीपतेः सैन्यावादिव 'सुदुस्सहात । निस्तेजाः सूरकांतोऽभूद्युक्तमभ्यर्णमीयूषः ॥४६०॥ सज्जीचकार पाकारं सोऽनुकारं गिरेस्ततः । पुरीं च पूरयामास' तृण्याधान्येन्धनादिभिः ।। ४६१।। मध्येदुर्ग दुर्दर्षान्यधाधोधानुदायुधान् । योऽभ्येत्य योध्धुमनलं बलं तस्येहगेव हि ॥४६२।। सेर्नाथपल्लिनाथस्याप्यक्रमेण प्रचक्रमे । कियदेतिकया भत्तं दर्ग दुष्कर्मवन्मुनिः ।। ४६३ ।। तत्सैन्याश्च'तदा दुर्गोपरिस्थसुभटांशुगान् । नाजीगणंस्तृणायापि द्विपा मत्ता' इवांकुशान् ॥४६४॥ तेऽथ प्रतोली घणैर्भक्त्वा' शीर्णामिव 'क्षणात् । प्राविक्षस्तत्पुरांताक् सरित्पूरानुकारिणः ॥ ४६५ ॥ पुरः पुरं विशन्' सोमः कांतोत्कस्ते पिता तदा । ललाटलग्नबाणाः सद्य एव व्यपद्यत ॥४६६।। अन्यथा चिंत्यते कार्य दैवेन क्रियतेऽन्यथा । मियाकृते हि प्रारंभः स्वात्मघातकृतेऽभवत् ॥ ४६७ ॥ आह च कथासंग्राहक गाथा कृत् । “ अन्नं गयस्स हिअए, अन्नं वाहस्स अन्नमुरगस्स । अन्नं सियालहिअए अन्नं हिअए कयंतस्स ॥४६८॥" आत्यंतिकभयभ्रांतस्वांतः कांतः क्षितस्ततः । सरकांतः पणस्योगात्कुतो 'वा पापिनां जयः ॥ ४६९ ।। सोमश्रीश्च 'तदा'कंमा त्रस्यंतीव कुरंगिका । द्राक् पल्लिाभिल्लैर्जगृहे दुष्टैर्गोष्टशुनैरिव ॥ ४७० ॥ विलुंख्य नगरं स्वैरं स्वस्थानं प्रतिगच्छताम् । तेषां पात्मनष्टा सा कथंचिदैवयोगतः ॥ ४७१॥ तयारण्ये । तृण्या तृणसमूहः । २ पता कियत् किमात्रम् इति बुध्या । ३ आशुगान् बाणान् । ४ दुघणैः मुद्गरैः । भ्रमंत्या चांभक्षि' किंचित्तरोः फलम् । इस्वांगी ' तदभूत्किंचिद् गौरांगी च विशिष्य सा ॥ ४७२ ॥ कोऽप्यचित्यो मणिमंत्रौषधीनां महिाथ सा । वणिभिरध्वगैः कैश्चिद् दृष्टा पृष्टा च विस्मितैः ॥ ४७३ ॥ का त्वं देवांगना नागांगना वा वनदेवता । स्थलदेव्यंबुदेवी' वा मानवी तुन सर्वथा ॥४७४ ॥ जगाद गद्गद सापि कापि नैवास्मि देवता । मां । मानवीमेव विदाकुर्वत्वेतां । विदांवराः ! ॥ ४७५॥ दुःखकूपानुपातोऽस्माद्रपादेवाभिरूपतः । ममाभवद्विधौ ऋद्ध दोषायैव गुणोऽपि हि ।। ४७६ ॥ मुखं 'नः संनिधौ तिष्ठेत्युदित्वा मुदितास्ततः । तेऽप्यगोपायिषुर्गुप्तं तां रत्नमिव' यत्नतः ॥ ४७७ ।। तां तादृक्षगुणाक्रांतां' कांता कर्तुमथैषिषुः । प्रत्येकमपि ते भक्ष्यं प्रेक्ष्य को न बुभुक्षते ॥४७८॥ प्राप्ताः सुवर्णकुलेऽस्मिंस्ते क्रमात्सदुपक्रमात् । नानावस्तून्योददिरे तदर्थ हि तदागमः ॥ ४७९ ॥ समर्षीभूतमधिकं तदा त्वेकं क्रयाणकम् । तेऽजिक्षत साक्षेपं वणिग्रीतिरियं खलु ॥४८०॥माच्यपुण्यविद् भोग्यफलभोगेन निष्ठिता। नैवास्ति नीवि प्राग्वस्त्वादानेनोपंतदं तदा ॥४८१।। तद्व्यकीणंत तेप्येतां वेश्यास्थाने धनेच्छया । लोभ एवोद्भटः पुंसां विशिष्य बणिजां पुनः ॥४८२।। वेश्या'विभ्रमवत्याख्या द्रव्यलक्षार्पणान्मुदा।स्वीचक्रे तां च तज्जातर्युवतिः किल कामधुक्॥४८३॥ तस्याः सुवर्णरेखेति नव्याख्याख्याप्यतांनया । गृहांतरगतौ प्रायः स्त्रीणां नामांतरं भवेत् ।। ४८४ ॥ शिक्षादक्षा च साक्षेपं शिक्षयामास तामसौ । गीतनृत्यादिनैपुण्यं पण्यं पण्यमृगीदृशाम् ।। ४८५। क्रमादोजन्मवेश्येव सापि तद्धर्ममीयुषी । वारि संपृच्यते येन तेन तन्मयतां श्रयेत् ॥ ४८६ ॥ धिधिकुसंगतिं सापि ययोन्येव बभूवुषी । तद्भवेऽपि भवेयुर्वा' दुर्दैवादरयो भवाः ॥ ४८७ ॥ क्षोणीशं १ तदा इत्यव्ययस्याव्ययीमावसमासे उपतदम् । 20 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy