________________
विंशतिघटीस्वर्णेन सर्वतो मठयित्वा स्वर्णाद्रिशृङ्गमिष स्वणमयायके । श्रीरैवते काश्चनबलानकमबन्धस्त्वयं गतचतुर्विंशतिकायां तृतीयः सागरजिना उज्जयिन्यां नरवाहननपेण केवलिपर्षदं दृष्ट्वा मष्टोऽहं कदा केवली भावी ? जिनेनोक्तमांगामिचतुर्विशतिकायां । द्वाविंशश्रीनेमिनाथजिनतीर्थे । ततः स प्रव्रज्य 'ब्रह्मेन्द्रीभूय । वज्रमृन्मयं श्रीनेमिबिम्बं कृत्वा दशसागरोपमान्यानचे। स्वायुःमान्ते । रैवतान्तश्चैत्यगर्भगृहायं रत्नमणिस्वर्णमयबिषयुतं कृत्वा । तदने काञ्चनबलानकं चक्रे । तत्र तद्विम्ब स्थापितं । क्रमाद्वैवते संघपतिरत्नः स प्रौढसंघो यात्रार्थमीययौ । हर्षोत्कर्षात्स्नात्रे कृते लेप्यमयविम्वं जगाल । ततः संघपतिरत्नोऽतिदूनः ' षष्टिक्षपणतुष्टाम्बागिरा काश्चनबलानकाद्वज्रमयं श्रीनमिबिंबमामतन्तुवेष्टितमानिन्ये । चैत्यद्वारागमने पश्चाद्विलोफने तत्तत्रैव तस्थौ । ततश्चैत्यद्वारं परावर्तितमद्यापि तथैवास्ति । कोचदाहुः, काञ्चनबलानके द्वासप्ततिमहत्यः पतिमा आसन् । तत्राष्टादशाष्टादश हैम्यो राल्यो राजत्य आश्मन्यश्चेति द्वासप्ततिरिति रेवते श्रीनेमिप्रबन्धः द्वारम् ६॥
तथा प्रतिमानां प्रतिष्ठा शीघ्र विधाप्या । यदुक्तं षोडशके-"निष्पन्नस्यैवं खलु, जिनबिंबस्योदिता प्रतिष्ठाशु । दशदिवसाभ्यन्तरतः, सा च त्रिविधा समासेन ॥ १॥ व्यक्त्याख्या खल्वेका, क्षेत्राख्या चापरा' महाख्या'च । यस्तीर्थकृद्यदा किल, तस्य तदाघेति समयविदः॥२॥ ऋषभाधानां तु तथा, सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु, चरमेह महामतिष्ठति ॥३॥" वृहदभाष्येऽपि-" वत्तिपइठा एगा, खेत्तपइहा महापइट्ठाय । एगचउवीससत्तरसयाण'सा होइ अणुकमसो ॥१॥" प्रतिष्ठाविधिश्च सर्वाङ्गीणतदुपकरणमलिननानास्थानश्रीसंघगुर्वाकारणमौढप्रवेशमहादितत्स्वागतकरणभोजनवसनपदानादिसर्वाङ्गीणसत्कारणवन्दिमोक्षकारणमारिनिवारणावारितसत्रवितरणसूत्रधारसत्कारणस्फीतसङ्गीताधभिनवाद्भुतोत्सवावतारणादिरष्टादशस्नात्रकरणादिश्च प्रतिष्ठाकल्पादेर्शेयः । प्रतिष्ठायां स्नात्रैर्जन्मावस्था, फलनैवेधपुष्पविलेपनसङ्गीताद्युपचारैः कौमाराद्युतरोत्तरावस्था, छामस्थ्यसूचकाच्छादनाच्छादितकायत्वार्यधिवासनया शुद्धचारित्रावस्था, नेत्रोन्मीलनेन केवलोत्पत्यवस्था, सर्वाङ्गीणपूजोपचारैश्च समवमृत्यवस्था चिन्तयेदिति श्रादसमाचारीहत्तौ । प्रतिष्ठानन्तरं च दादशमासान् । विशिष्य च प्रतिष्ठादिने स्नानादि कृत्वा · संपूर्ण वर्षेष्टाहिकादिविशेषपूजापूर्वायुर्ग्रन्थिबन्धनीयः, उत्तरोत्तरविशेषपूजा च कार्या । तदिने च साधर्मिकवात्सल्यसंघार्चादि यथाशक्ति विधेयं । प्रतिष्ठाषोडशके वेवमुक्तं-"अष्टौ दिवसान यावद, पूजाऽविच्छेदतोऽस्य कर्तव्या। दानं च यथाविभवं, दातव्यं सर्वसत्त्वेभ्यः॥१॥"द्वारम ७। तथैवं। प्रौढोत्सवैः सुतादीनां पुत्रादीनां आदिशब्दात् पुत्रीभ्रातृभ्रातृव्यस्वजनसुहृत्परिजनादीनां प्रव्राजना च दीक्षादापनमुपलक्षणत्वादुपस्थापनाकारणं च विधेयं । यतः-"पंच य पुत्तसयाई, भरहस्स य सत्त नत्तु अ सयाई। सयराहं पवइआ, तंमि कुमारा'समोसरणे ॥१॥" कृष्णचेटकनृपयोस्तु स्वापत्यविवाहनेऽपि नियमवतोः स्वपुच्यादीनामन्येषां च थावच्चापुत्रादीनां प्रौढोत्सवैः प्रवाजना प्रतीता । इयं च महाफला । यतः-"ते धन्ना कयपुना, जणओ'जणणी असयणवग्गो अ।जेसिं कुलमि जायइ, चारित्तधरो महापुत्तो ॥१॥" लोकेऽपि-" तावद् भ्रमन्ति संसारे, पितरः पिंडकांक्षिणः। यावत्कुले विशुद्धात्मा, यतिः पुत्रो न जायते ।। २॥" द्वारम् ८।
___तथा पदस्थापना गणिवाचनाचार्यवाचकाचार्यादिपदप्रतिष्ठापनं दीक्षितस्वपुत्रादीनामन्येषां वा पदार्हाणां शासनौमत्यादिनिमित्तप्रौढोत्सवैविधाप्या । श्रूयते हि-प्रथमेऽहंतः समवसरणे शक्रेण गणधरपदस्थापनाकारणं मन्त्रिवस्तुपालेनाप्येकविशतिसूरीणां पदस्थापना कारिता । द्वारम् १ ।
तथा पुस्तकानां श्रीकल्पाद्योगमजिनचरित्रादिसत्कानां न्यायार्जितवित्तेन विशिष्टपत्रविशिष्टविशुद्धाक्षरादियुक्त्या लेखनं । तथा वाचनं संविग्नगीतार्थेभ्यः पोढमारंभाधुत्सवः प्रत्यहं पूजादिबहुमानपूर्वकं व्याख्यापनं । अनेकभव्यप्रतिबोधहेतुर्विधेयं । उपलक्षणत्वात्तद्वाचनभणनादिकृतां वस्त्रादिभिरुपष्टंभप्रदानं च । यतः--" ये लेखयन्ति' जिनशासनपुस्तकानि, व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति । रक्षणविधौ च समाद्रियन्ते, ते मर्त्यदेवशिवशर्म नरा लभन्ते ॥ १ ॥ पठति पाठयते ' पठताममुं, वसनभोजनपुस्तकवस्तुभिः। प्रतिदिनं । कुरुते य । उपग्रह, स . इह सर्वविदेव भवेन्नरः ॥२॥" जिनागमस्य च केवलज्ञानादप्यतिशायिता दृश्यते । यदाहः-" ओहो सुओवउत्तो, सुअनाणी जड़ ह गिण्डइ अमृद्धं । तं केवळी विभुंजइ, अपमाणसुअंभवे इहरा ॥१॥" श्रुतं हि दुष्षमाकालवशाद् द्वादशवर्षीदुर्भिक्षादिभिरुच्छिन्नमायं मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तं । ततः श्रुतबहुमानिना'तत्पुस्तकेषु लेखनीय दुकूलादिभिरभ्यर्चनीयं च । श्रूयते च साधुपेथडेन सप्त मन्त्रिवस्तुपालेन चाष्टादशकोटिद्रव्यैस्त्रयो ज्ञानकोशा लेखिताः । थिरापद्रीयसंघपत्याभूनाम्ना तु त्रिकोटिटङ्ककैः सर्वागमप्रतिरका सौवर्णाक्षरैर्द्वितीया सर्वग्रन्थप्रतिश्च मष्यक्षरैः। द्वारं १०)
तथा पौषधशालायाः श्राद्धादीनां पौषधग्रहणार्थ साधारणस्थानस्य प्रागुक्तगृहविधिना कारणं विधापन विधेयं । साच साधर्मिकाथै कारिता प्रगणिता च निरवद्यार्हस्थानत्वेन यथावसरं साधनामप्युपाश्रयत्वेन प्रदेयेति । तस्याः महाफलत्वं । यतः"जो देउवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिन्नावत्थन्नपाणसयणासणविगप्पा ॥१॥" श्रीवस्तुपालन नवशती
128
श्रीश्राद्धविधिप्रकरणम्