________________
हारैर्महाव्याध्युत्पत्तौ ' शरीरमोचं खलु धर्मसाधनं ' इति वैद्योक्तदधिकृते गोष्ठेषु तिष्ठन् वीतभये माप्तः व्रतभग्नो गज्याध्ययं मार्य एवेत्यमात्यैऍग्राहितः केशी भक्तोऽपि सविषं दध्यंदापयत् । सुरेण विषं हृस्वा दधिग्रहणं निषिद्धं पु.नाशिक दधिग्रहणे त्रिः सुरेण विषं हृतं । जातु सुरप्रमादे सविषदधिभोगे 'मासमनशनेनोत्पन्नकेवलः सिद्धः । सुरस्तु क्रुद्धो वीतभये पासवृष्टिं चक्रे । कुंभकारं राजर्षिशय्यातरं सिनपल्यां नीत्वा। कुंभकारकृतमिति तन्नाम न्यस्तवान् । उदायननृपसुतोऽभीचियोग्यत्वेऽपि पित्रा राज्यामदानाद् नो मातृष्वज्ञेयकूणिकनृपोपान्ते गत्वा सुखं स्थितः । सुश्राद्धधर्ममाराधयन्नप्यंत्यक्तपितृपराभववैरस्तर्दनालोच्य पाक्षिकनिशनेन मृतोऽसुरवरोऽभूत् । एकपल्यायुः । ततो विदेहे सेत्स्यति । पांसुदृष्टौ भूगता कपिलपिप्रतिष्ठिता प्रतिमा श्रीगुरुमुखात् ज्ञाता । कुमारपालनृपेण । पांसुस्थलखानने । उदायननृपदत्तशासनपत्रान्विता सद्यः स्फुटीभूता । यथावत् प्रपूज्य प्राज्योत्सवैरणहिल्लपत्तने नीता । नव्यकारितगरीयस्तरस्फाटिकपासादे न्यस्ता । पत्रलिखितमुदायननपदत्तं ग्रामाकरादिशासनं सर्व प्रमाणीकृत्य चिरमर्चिता च । तत्पतिमास्थापनेन स सर्वाङ्गीणसमृद्ध्या ववृधे । इति देवाधिदेवमतिमोदायननृपादिसंबन्धः॥
एवं देवदायकरणे हि विशिष्टपूजाधविच्छित्तियथाविलोक्यमानचैत्यादिसमारचनदक्षादिसुयुक्तिः। तदुक्तं-"जो जिणवराणभवणं, कुणइ 'जहासत्ति विहवसंजुत्तं । सो पावइ परमसुहं, सुरगणअभिनंदिओ सुइरं ॥१॥" द्वारं ५।
तयैवं प्रतिमा अईद्धिम्बानि मणिस्वर्णादिधातुचन्दनादिदारुदन्तशिलामृदादिमय्यो' धनुःपञ्चशत्यादिमाना यावदगुष्ठमाना यथाशक्ति विधाप्याः। यत:-" सन्मृत्तिकामलशिलातलदन्तरौप्यसौवर्णरत्नमणिचन्दनचारुबिम्बम् । कुर्वन्ति जैनमिह'ये' स्वधनानुरूपं, ते प्राप्नुवन्ति नृमुरेषु महासुखानि ॥ १ ॥ दारिदं दोहग्गं, कुजाइकुसरीरकुगईकुमईओ । अवमाणरोगसोगा, न हुंति जिणबिंबकारीणं ॥२॥" प्रतिमाश्च वास्तुशास्त्रोक्तविधिनिष्पन्नाः सुलक्षणाश्चात्राप्यभ्युदयादिगुणहेतुः । यतः-" अन्यायद्रव्यनिष्पना, परवास्तुदलोद्भवा । हीनाधिकाङ्गी प्रतिमा, स्वपरोन्नतिनाशिनी ॥ १॥ मुहनक्कनयणनाही, कडिभंगे मूलनायगं चयह । आहरणवथ्थपरिगरचिंधाउहभगिपूइज्जा ॥२॥ वरिससयाओ उई, जं बिंबं उत्तमेहिं संठवि। विअलंगुवि पूइज्जइ, तं बिंब निक्कलं न जओ ॥३॥ बिंबपरिवारमज्झे, सेलस्स य वनसंकरं न' सुई । समअंगुलप्पमाणं, न सुंदरं होइ कइआवि ॥ ४ ॥ इक्कंगुलाइपडिमा, इक्कारस जाव गेहि पूइज्जा । उ8 पासाइ पुणो, इअ भणियं पुव्वसूरीहिं ॥५॥ निरयावलिसुचाओ, लेवोवलकट्ठदंतलोहाणं । परिवारमाणरहिअं, घरंमि नो पूअए विंबं ॥६॥ गिहपडिमाणं पुरओ, बलिवित्थारो न चेव कायव्यो । निच्चं हवणं तिअसंझमच्चणं । भावओ'कुज्जा ॥७॥" प्रतिमा मुख्यवृत्या सपरिकराः सतिलकायाभरणाश्च कारयितव्या विशिष्य च मूलनायकस्य । तथैव विशेषशोभातजनितविशेषपुण्यानुबन्धादिसंबन्धात । उक्तं च"पासाईआ पडिमा लरकणजुत्ता'समत्तलंकरणा। जह पल्हाएइ' मणं, तह निज्जरमो विआणाहि ॥१॥" चैत्यार्चादिविधापनं च निस्तुलफलं । यतस्तद्यावत्तिष्ठति तावदसंख्यकालमपि तज्जं पुण्यं । यथा भरतचक्रिकारितमष्टापदचैत्यं रैवतान्तब्रह्मेन्द्रकृतं, काञ्चनबलानकादिचैत्यं च । तयोः प्रतिमा भरतचक्रिमुद्रिकागतकुल्यपाकतीर्थस्थमाणिक्यस्वामिप्रतिमास्तंभनकादिप्रतिमाश्चाद्यापि पूज्यन्ते । तदवोचाम,-"जल-शीताशन-भोजन,-मासिक-वसनाब्द-जीविकादानम् । सामायिक
धुपवासाभिग्रहताद्यथवा ॥१॥ क्षण-योम-दिवस-माँसाध्यैन-हार्यन-जीविताधवधिविविधम् । पुण्यं चैत्यार्चादौ, त्वनवधि तद्दर्शनादिभवम् ॥ २ ॥" युग्मम् ॥ अत एवास्यां चतुर्विंशतिकायां पूर्व भरतचक्री 'शत्रुञ्जये रत्नमयं चतुर्मुखं चतुरशीतिमंडपान्वितं क्रोशोच्चं गव्यूतत्रयायाम प्रासादं । पञ्चकोटिकृतश्रीपुंडरीकज्ञाननिर्वाणपदेऽचीकरत् । एवं बाहुबलिमरुदेव्यादिशृङ्गेषु रैवतेऽर्बुदे वैभारगिरौ संमेताद्यष्टापदादौ च तेन प्रासादाः प्रतिमाश्च पश्चधनुःशतादिमाना हैम्याद्याः कारिताः । दंडवीर्यनृपसगरचक्र्यादिभिस्तु तेषामुद्धाराः । हरिषेणचक्री पृथ्वी जिनप्रासादरमंडयत् । संपतिनृपः सपादलक्षं पासादास्तेषु शतवर्षायुर्दिनशुद्ध्यै षट्त्रिंशत्सहस्री नव्यान्'शेषांश्च जीर्णोद्धारान् सपादकोटिं च सौवर्णादीनि बिंबान्यकारयदिति श्रुतिः । आमनृपेण गोपालगिरौ' श्रीवीरमासाद ' एकोत्तरशतहस्तोचोऽध्युष्टकोटीनिष्पन्नसप्तहस्तस्वर्णबिम्बालङ्कतोऽकार्यत । तत्र मूलमंडपे सपादलक्षस्वर्ण प्रेक्षामंडपे त्वेकविंशतिर्लक्षा व्ययिताः । कुमारपालेन चतुश्चत्वारिंशदधिका चतुर्दशशती नव्या । जीर्णोद्धाराश्च षोडशशती । तत्र पितृनाम्ना त्रिभुवनविहारे षण्णवतिकोटिद्रव्यव्ययनिष्पन्ने मुख्य र्चा पञ्चविंशशाङ्गलारिष्टरत्नमयी । द्वासप्ततिदेवकुलिकासु । चतुर्विशतिप्रतिमा राल्यो । हैम्यो । राजत्यश्च । चतुर्दश चतुर्दश भारमिताः । मन्त्रिवस्तुपालेन त्रयोदशोत्तरा त्रयोदशशतीनव्याः । द्वाविंशतिशतीजीर्णोदाराः सपादलक्षं बिंबानि । साधुपेथडेन चतुरशीतिः प्रासादाः । तत्र सुरगिरौ जैनचैत्यं नास्तीति तदर्थ नृपवीरमदेप्रधानविप्रहेमादेनाम्ना मान्धातापुरे ओङ्कारपुरे च त्रिवर्षी सत्रागारे कारिते तुष्टो हेमादेः साधुपेथडाय ' सप्तसौधभुवं ददौ । पादखनने मिष्टजलोद्गमे केनापि वाप्यर्थ नृपस्य पैशुन्ये कृते रात्रौ द्वादशसहस्रटलवणक्षेपः । चैत्यार्थ द्वात्रिंशत्करभ्यः कनकभृताः पहिताः । चतुरशीतिसहस्रटंकाः पद्यापन्धे लग्नाः । चैत्ये पूर्णे वापयितुस्त्रिलक्षीटंकदानं । एवं पेथडविहार इत्यादि । तथा तेनैव शत्रुञ्जये श्रीऋषभचैत्यमेक
श्रीश्राद्धविधिप्रकरणम्
127