________________
ऽनतिपकटेऽनतिगुप्ते च सुस्थाने विधिनिष्पन्न मितद्वारत्वादिगुणं त्रिवर्गसिदिहेतुतयोचितं मन्तव्यं । द्वारं १ ।
तथा त्रिवर्गसिद्धेः कारणमित्युत्तरत्राऽप्यनुवर्तनात् त्रिवर्गसिद्धिकारितया यदुचितं तद्विद्यानां लिखितपठितवाणिज्यधर्मादिकलानां ग्रहणमध्ययनं कार्य सम्यक् । अशिक्षिनिभ्यस्तकलो हि मूर्खत्वहास्यत्वादिना पदे पदे पराभूयते, यथा कालिदासकविः प्राग्गोपो भूपसभे स्वस्तिस्थाने 'उशटर' इत्युक्तौ ग्रन्थशोधनचित्रसभादर्शनादौ च । कलावांश्च विदेशेऽपि मान्यते वसुदेवादिवत् । वदन्त्यपि,-" विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥१॥" कलाश्च सर्वाः शिक्षणीयाः । क्षेत्रकालादिविशेषेण सर्वासामपि विशेषोपयोगसंभवादन्यथा जातु सीदत्यपि। तदाह-"अट्टमट्रपि सिक्खिज्जा, सिक्खिन निरत्थ। अट्टमट्टपसाएण, खज्जए गुलतुंबयं ॥१॥" शिक्षितसकलकलस्य हि पागुक्तसप्तविर्धाजीविकोपायानामन्यतरेणाप्युपायेन सुखनिर्वाहसमृद्धत्वादि स्यात् । सर्वाः कलाः शिक्षितुर्मशक्तस्त्वत्र सुखनिर्वाहादेः प्रत्य सद्गतेश्च हेतुं कला शिक्षेतैव । यतः-" सुअसायरो अपारो, आउं थोवं जिआय दुम्मेहा । तं किंपि सिक्खिअव्वं, जं कज्जकरं च थोवं च ॥१॥ जाएण जीवलोए, दो चेव नरेण सिक्खिअन्वाइं । कम्मेण जेण जीवइ, जेण मओ सग्गई जाइ ॥२॥" निन्द्यपापमयकर्मणा निर्वाहकरणं तु सूत्रे 'उचिरं' इत्युक्तेरैनौचित्यादेव निषिद्धं । द्वारम् २ ।
तथा पाणिग्रहणं विवाहस्तदपि त्रिवर्गसिद्धिहेतुतयोचितमेव युक्तं । तच्चान्यगोत्रजैः 'समानकुलसदाचारादिशीलरूपवयोविद्याविभववेषभाषाप्रतिष्ठादिगुणैरेव सार्दै । कुलशीलादिवैषम्ये हि मियोऽवहीलनाकुटुम्बकलहकलङ्काद्यापत्तिः । यथा पोतनपुरे श्रीमत्याः श्रादसुतायाः सादरं मिथ्यादृशोढाया सुधर्मदृढाया वैधाद्विरक्तभा गृहान्तर्घटेऽहिं क्षिप्त्वा पुष्पमालां घटादानयेत्यादेशो ददे । नमस्कारस्मृतिमहिम्ना च तस्याः पुष्पमालैव जज्ञे । ततः पत्यादयोऽपि श्राद्धीबभूवुः । कुलशीलादिसाम्ये तु साधुपेथडमथमिणिदेव्यादीनामिव' सर्वाङ्गीणसुखधर्ममहत्त्वादयो गुणाः । सामुद्रिकशास्त्रायुक्तवपुर्लक्षणजन्मपत्रिकान्वेषणादिना च कन्यावरयोः परीक्षा । तदुक्तं " कुलं च शीलं च' सनाथता च, विद्या च वित्तं च वपुर्वयश्च । वरे' गुणाः सप्त विलोकनीयास्ततः परं भाग्यवशा हि कन्या ॥१॥ मूर्खनिर्धनदूरस्थशरमोक्षाभिलाषिणाम् । त्रिगुणाधिकवर्षाणां, न देया । कन्यका बुधैः ।।२।। अत्यद्भुतधनाढ्यानामतिशीतांतिरोषिणाम् । विकलाङ्गसरोगाणां, चापि देया न कन्यका ॥३॥ कुलजातिविहीनानां पितृमातृवियोगिनाम् । गहिनीपुत्रयुक्तानां, न देया कन्यका बुधैः ।। ४ । बहुवै पवादाना, सदैवोत्पन्नभाक्षणाम् । आलस्याहतचित्तानां, न देया कन्यका बुधैः ॥ ५ ॥ गोत्रिणां द्यूतचौर्यादिव्यसनोपहतात्मनाम् । वैदेशिनामपि प्रायो, न देया कन्यका बुधैः ॥६॥ निर्व्याजा दयितादौ, भक्ता श्वश्रूषु वत्सला स्वजने । स्निग्धा च बन्धुवर्गे, विकसितवदना' कुलवधूटी ॥७॥ यस्य पुत्रा वशे भक्ता, भार्या छन्दानुवर्तिनी । विभवेष्वपि सन्तोषस्तस्य स्वर्ग इहैव हि ॥ ८॥ अग्रिदेवादिसाक्षिकं पाणिग्रहणं विवाहः। स च लोकेऽष्टविधः । तत्रालङ्कृत्य कन्यादानं ब्राह्मो विवाह; १ । विभवविनियोगेन कन्यादानं प्राजापत्यः२। गोमिथुनदानपूर्वकमार्षः ३ । यत्र यज्ञार्थमृत्विजः कन्यामदानमेव दक्षिणा स दैवः ४ । एते धा विवाहाश्चत्वारः। मातुः पितुर्वन्धूनां चीमामाण्यात्परस्परांनुरागेण मिथः समवायाद् गान्धर्वः ५ । पणबन्धेन कन्याप्रदानमासुरः ६। प्रसह्य कन्याग्रहणादाक्षसः ७ । सुप्तप्रमत्तकन्याग्रहणात्पैशाचः ८। एते चत्वारोऽप्यधाः । यदि वधूवरयोः परस्परं रुचिरस्ति तदा अधा अपि धाः । शुद्धकलत्रलाभफलो विवाहस्तत्फलं च वधूरक्षणाचरतः सुजातसुतसन्ततिरनुपहताचित्तनिर्वृतिगुहकृत्यमुविहित्वमाभिजात्याचारविशुद्धत्वं देवांतिथिबान्धवसत्कारांनवद्यत्वं चेति । वधूरक्षणोपायास्त्वेते, गृहकर्मविनियोगः, परिमितोऽर्थसंयोगोऽस्वातन्त्र्यं, सदा च मातृतुल्यस्त्रीलोकावरोधनमित्यादि । एतच्च पत्नीविषयाचित्ये प्राग विवृतं । विवाहादौ च व्ययोत्सवादि स्वकुलविभवलोकाद्यौचित्येन यावत्कृतं विलोक्यते, तावदेव कुर्यान त्वधिकाधिक, अधिकन्ययादेः पुण्यकार्येष्वेवोचितत्वात् । एवमन्यत्रापि क्षेयं । विवाहव्ययानुसारेण च सादरं स्नात्रमहमहापूजारसवतीढौकनचतुर्विधसङ्गसकाराद्यपि सत्यापयेद भवहेतुविवाहादेरप्येवं पुण्यैः सफलीभवनात् । द्वारम् । ३।
तथा मित्रं सर्वत्र विश्वास्यतया साहाय्यादिकृत् । आदिशब्दाद्वाणपत्रसहायकर्मकराधपि त्रिवर्गहेतुतयोचितमेव विधेयं । तच्चोत्तमप्रकृतिसाधर्मिकत्वधैर्यगांभीर्यचातुर्यसबुट्यादिगुणं । एतद् दृष्टान्तादि तु व्यवहारशुद्धौ प्रागुक्तं । द्वारम् ४ । इति चतुर्दशगाथार्थः।
चेइअ-पडिम-पइटा, सुआइपव्वावणा य पयठवणा ।
पुत्थयलेहणवायण, पोसहसालाइकारवणं ॥ १५॥
तथा चैत्यमुच्चैस्तोरणशिखरमंडपादिमांडतं भरतचयादिवन्मणिस्वर्णादिमयं विशिष्टपाषाणादिमयं वा प्रासादं विशिष्टकाष्ठेष्टिकादिमयं देवालयं वा तर्दशक्तौ तृणकुट्याद्यपि न्यायार्जितवित्तेन विधिना विधापयेत । यतः-" न्यायार्जितवित्तेशो, मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारणाधिकारीति ॥ १॥ पाएणणंतदेउलजिणपडिमा
124
श्रीश्राद्धविधिप्रकरणम्