________________
॥ अथ षष्ठः प्रकाशः ॥
उक्तं वर्षकृत्यमय जन्मकृत्यं गाथात्रयेणाष्टादशभिरैराह"जम्ममि वासठाणं, तिवग्गसिद्धीइ कारणं उचिअं१।
उचिअं विजागहणं २, पाणिग्गहणं च ३ मित्ताई ४॥ १२ ॥
जन्मनि जन्मवारकमध्ये पूर्वमुचितं योग्य वासस्थानं ग्रामं । किं तदुचितमिति विशेषणद्वारेण हेतुमाह,-त्रिवर्गस्य धर्मार्थकामलक्षणस्य सिद्धिनिष्पत्तिस्तस्याः कारणं हेतुः । एवं च यत्र धर्मार्थकामानां त्रयाणामपि सिद्धिः स्यात्तत्र श्रावकेण वस्तव्यं नान्यत्र भवद्वयभ्रंशापत्तेः तदुक्तं-" न भिल्लपल्लीषु'न चोरसंश्रये, न पार्वतीयेषु जनेषु संवसेत् । न हिंसदुष्टांश्रयलोकसन्निधौ, कुसङ्गतिः साधुजनस्य गर्हिता ॥ १॥ तत्र धाम्नि निवसेद् गृहमेधी, संपतन्ति खलु यत्र मुनींद्राः । यत्र चैत्यगृहमस्ति जिनानां, श्रावकाः परिवसन्ति च यत्र ॥२॥ विद्वत्मायो यत्र लोको निसर्गाच्छीलं यस्मिञ्जीवितादप्यंभीष्टं । नित्यं यस्मिन् 'धर्मशीलाः प्रजाः स्युस्तिष्ठेत्तस्मिन् 'साधुसङ्गो हि भूत्यै ॥ ३ ॥ जत्य पुरे जिणभवणं, समयविऊ साहुसावया जत्थ । तत्थ सया वसिअन्वं, पउरजलं इंधणं जत्थ ॥४॥" त्रिशतीजैनप्रासादसुश्रादाबलकूते सुशीलविज्ञलोकेऽजयमेर्वासन्ने हर्षपुरे सुस्थाने वसन्तोऽष्टादशसहस्रविप्रास्तभक्ताः । पत्रिंशन्महेभ्याश्च'श्रीप्रियग्रन्धसुरींन्द्रागमे प्र. बुद्धाः। सुस्थानचासे हि धनवां गुणवतां धर्मवतां च संगत्या धनित्वं विवेकविनयविचाराचारौदार्यगांभीर्यधैर्यप्रतिष्ठादयो गुणाः सर्वाङ्गीणधर्मकृत्यकौशलं च प्रायः सुमापाणि संपत्यपि प्रतीयन्ते । अतः प्रान्तग्रामादौ धनार्जनादिना सुखनिवोहेऽपि न वसनीयं । उक्तं च-" जत्थ'नदीसंति जिणा, न य भवणं नेव संघमुहकमलं । न य सुच्चा जिणक्यणं, किंताए अत्थभूईए ॥ १॥ यदि वान्छसि मूर्खत्वं, ग्रामे वस दिनत्रयम् । अपूर्वस्यागमो नास्ति, पूर्वाधीतं'च नश्यति ॥२॥" श्रूयते च कश्चिनगरनिवासी स्वल्पवणिग्ग्रामे धनलाभार्थमुषितः । कृषिविविधवाणिज्यव्यापारादिना यावता धनमुपायत्तावद गृह ताणे जज्वाल । एवं पुनः पुनः धनार्जनेऽपि स्तन्यमारीदुर्भिक्षनृपदंडाद्यजनि । अन्यदा तद्ग्राम्यैः स्तेनैः कचित्पुरे घाटीमदाने तत्पुरनृपेण ग्रामो हतः । श्रेष्ठी पुत्रादिधृतौ युध्यमानस्तद्भटारितश्चेति कुनामावासे दृष्टान्तः । उचितमपि च वासस्थानं स्वचक्रपरचक्रविरोधदुर्भिक्षमारीतिप्रजाविरोधवास्तुक्षयादिनाऽस्वस्थीभूतं द्रुतमेव त्याज्यमन्यथा त्रिवर्गहान्यायोपत्तेः । यथा मुद्गलैभङ्गे भयोत्पत्तौ पैडिल्ली त्यक्ता, जे गुर्जरत्रादावागतास्त्रिवर्गपुष्ट्या भवद्वयं सफल्यकार्युः । यैस्तु न त्यक्ता'ते बन्दपतनादिना भवद्वयमप्यंहाषुः । वास्तुक्षीणत्वादिना स्थानत्यागे तु क्षितिप्रतिष्ठितवनकपुरऋषभपुरादिदृष्टान्तः । तथा चाषे–“खिइवणउसभकुसग्गं रायगिहं चंपपाडलीपुत्तं"। इति । वासस्थानं च गृहमप्युच्यते । तच्च सुपातिवेश्मिकेऽनतिपकटेऽनति गुप्ते च'सुस्थाने विधिनिष्पन्नमितद्वारत्वादिगुणं त्रिवर्गसिदिहेतुतया योग्यं । दुष्पातिवेश्मिकाश्चैवमागमादौ निषिद्धाः-"खरीआतिरिकजोणीतालायरसमणमाहणसुसाणा । वग्गुरिअवागुम्मिअहलिएसपुलिंदमच्छंधा ॥१॥"'खारिअत्ति' व्यक्षरिका वेश्या, श्रमणाः शाक्याद्याः, श्मशानं, गुल्मिका गुप्तिपाळाः, मत्स्यबंधा मात्सिकाः ।“ जूआरचोर नह नट्ट ' भट्ट वेसा'कुकम्मकारीणं । संवासं वज्जिज्जा, घरहट्टाणं च मित्ती ॥२॥" तथा "दुःखं देवकुलासभे, गृहे हानिश्चतुष्पथे । धू
मात्यगृहाभ्यासे, स्याता मुतधनक्षयौ ॥१॥ मूर्खा धार्मिकपाखंडिपतितस्तेनरोगिणाम् । क्रोधनान्त्यजहप्तानां, गुरुतल्पगवैरिणाम् ॥ २॥ स्वामिवश्चकलुब्धानामृषिस्त्रीबालघोतिनाम् । इच्छन्नीत्महितं धीमान् पातिवेश्मिकता त्यजेत् ॥३॥" कुशीलादिमातिवेश्मिकत्वे हि तदोलापश्रवणतच्चेष्टादर्शनादिवशात्स्वतः सगुणस्यापि गुणहानिः स्यात् । सुमातिवेश्मिकत्वे पातिवेश्मिकीसंपादितपरमानः सङ्गमः शालिभद्रजीवः , दुपातिवेश्मिकत्वे 'पदिने मागमुनये दत्तग्रिपिंडा मातिवेश्मिकीव्युग्राहितश्चशादिः सोमभट्टभार्या ज्ञातं । अतिप्रकटे हि स्थाने गृहर्मसन्निहितगृहान्तरतया परिपार्वतो निरावरणतया चौरादयोऽभिभवेयुः। अतिगुप्ते च सर्वतो गृहान्तरैर्निरुद्धत्वान्न स्वशोभा लभते । प्रदीपनकायुपद्रवे च दुःखनिर्गमप्रवेशं गृहं भवति । मुस्थानं पुनः' शल्यभस्मक्षात्रादिदोषैनिषिद्धायादिना च रहितं. बहलदुर्वामवालकुचस्तम्बप्रशस्तवर्णगन्धमृत्तिकासुस्वादुजलोद्गमनिधानादिमच्च यदुक्तं-"शीतस्पर्ध्वष्णकाले याऽत्युष्णस्पर्शा हिमागमे । वर्षासु चोभयस्पर्शा सा शुभा सर्वदेहिनाम् ॥ १ ॥ हस्तमात्रं खनित्वादौ पूरिता तेन पांमुना । श्रेष्ठा समषिके पासौ हीने हीना समे समा ॥२॥ पदगतिशतं यावचांभापूर्णा न शुष्यति । सोत्तमैकाङ्गुलहीना'मध्यमा तत्पराधमा ॥३॥ अथवा तत्र पुष्पेषु'खाते' सत्युषितेषु तु । समाईसमशुष्केषु भुवस्वैविध्यमादिशेत् ॥४॥ त्रिपञ्चसप्तदिवसैरुतबीयादिरोहणात् । उत्तमा मध्यमा हीना विज्ञेया त्रिविधा मही ॥५॥ व्याधि वल्मीकिनी नैःस्व्यं शुषिरा स्फुटिता मृतिम् । दत्ते भूः शल्ययुग दुःखं शल्यं ज्ञेयं तु यत्नतः ॥ ६॥" नृशल्यं नृहान्यै, खर
122
श्रीश्राद्धविधिप्रकरणम