________________
1
निच्छयओ ॥ ९ ॥ लज्जाइगारवेणं, बहुस्सु अमएण वावि दुच्चरिअं । जो न कहेइ गुरूणं, न हु सो आराहओ भणिओ ।। १० ” “ गारवेणं ति ' रसादिगारव प्रतिबद्धत्वेन तपोऽचिकीर्षुतयेत्यर्थः । अपिशब्दादपमानमायश्चित्तगुरुत्वादिना वा । "संवेगपरं चित्तं, काऊणं 'तेहिं तेहिं सुत्तेहिं । सल्लाणुद्धरणविवागदंसगाईहिं आलोए ।। ११ ।” आलोचकस्य दश दोषानाह“ ओकंपइत्ता 'अणुमाणइत्ता जं' दिहं बॉयरं व सुडुमं वा । छनं सदाउलयं, बहुजण अंवत्त तस्सेवी ॥ १२ ॥ " आ वैयावृत्त्यादिना गुरुमावर्ज्यालोचयति, यथा स्तोकं प्रायश्चित्तं दत्त इत्यभिप्राये प्रथमो दोषः १ । एवमेष गुरुर्मृदुदंडमद इत्याद्यैनुमान्यनुिमानं कृत्वा २ । यत्परैर्दृष्टं तदालोचयति न त्वदृष्टं ३ । बादरमोलोचयति न तु सूक्ष्मं, तंत्रविज्ञापरत्वात् ४ । सूक्ष्मं तृणग्रहणादिरूपमालोचयति' न तु बादरं सूक्ष्मालोचको हि कथं बादरं नालोचयेदिति ज्ञापनार्थ ५ । छन्नमव्यक्तस्वरं ६ । तथा शब्दाकुलं यथा गुरुः सम्यग् नविगच्छति यद्वन्येऽपि यथा शृण्वन्ति तथा शब्दाकुलं ७ | आलोच्यं बहुजनान् श्रावयति ८ । अव्यक्तस्यनिवगतच्छेदग्रन्थरहस्यस्य गुरोररालोचयति ९ । स्वकृतपराधसदृशसेविगु रो:' खरंटनादिभियालोचयति १० । एते दश दोषा आलोचकेन वर्जनीयाः । सम्यगालोचने गुणानाह, – “ लहुआ १ ल्हाईजणणं २, अप्पपरनिवचि ३ अज्जवं ४ सोही ५ । दुक्करकरणं ६ आणा ७, निस्सल्लत्तं च ८ सोहिगुणा ॥ १३ ॥ " यथा भारवाहिनो भारेऽपहृते लघुता तथा शल्योद्धार आलोचकस्यापि १ । ल्हादिजननं प्रमोदोत्पादः २ | आत्मपरयोर्दोषेभ्यो निवृत्तिरालोचनादाने हि स्वयं दोषनिवृत्तिः प्रतीता, तं दृष्ट्वान्येऽप्यालोचनाभिमुखाः स्युरिर्त्यन्येषामपि दोषेभ्यो निवृत्तिः ३ | आर्जवं निर्मायता सम्यगालोचनात् ४ । शोधिः शुद्धततिचारमलापगमात् ५ । दुष्करकरणं दुष्करकारिता यतो यत्प्रतिसेवनं ' तन्न दुष्करमनादिभर्वाभ्यस्तत्वात्, यत्पुनरालोचयति तद्दुष्करं मबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्त्तुं शक्यत्वात् । निशी - थचूर्णावप्यूचे, – “ तन्न' दुक्करं जं पडिसेविज्जइ' तं दुक्करं जं सम्मं आलोइज्जइत्ति ” । अत एवाभ्यन्तरतपोभेदरूपं सम्यगालोचनं, मासक्षपणादिभ्योऽपि दुष्करं, लक्षणांर्यादीनां तथा श्रवणात् । तथाहि, इतोऽशीतितमचतुर्विंशतौ नृपस्य बहुपुत्रस्योपयाचितशतैर्जाता बहुमान्या पुत्री स्वयंवरमंडपे दृतवरा ' दुर्दैवाच्चतुरिकान्तर्मृतभर्तृका सुशीला सतीषु प्राप्तरेखा सुश्राधर्मनिष्ठन्यिदन्तियाता दीक्षिता लक्षणार्या ' कदाचिच्चटकयुग्मरतं दृष्ट्वा दध्यौ । अर्हता किमेतन्ननुमतमवेदोऽसौ वा न वेत्ति सवेददुःखमित्यादि, क्षणान्तरे जातपश्चात्तापा कथमालोचयिष्यामीति मोद्भूतत्रपापि सशल्यत्वे सर्वथा न शुद्धिरित्यालोचयितुं स्वं प्रोत्साच याद्याति, तावदैचिन्तिते कंटके भग्नेऽपशकुनेन क्षुब्धा, य ईदृग् दुर्ध्यायति तस्य किं प्रायश्चित्तमिति परव्यपदेशेनाळाोचितवती, न तु साक्षाल्लज्जामहत्वहान्याद्यशङ्कयैव । ततस्तत्प्रायश्चित्तपदे पञ्चाशद्वषीं तीव्रं तपस्तेपे । उक्तं च“ छट्ठठ्ठमदसमदुबाळसेहिं निव्विगइएहिं दसवरिसे । तह खवणएहिं दुनिय, दो चैव य भुज्जिएहिं च ॥ १ ॥ मासखमणेहिं सोळस, वीसंवासाई' अंबिलेहिं च । लरकणअज्जा एवं कुप्यड् तवं वरिसपन्नासं ॥ २ ॥ आवस्सयमाईअं, किरिअ कलावं अमुचमाणीए । अहीणमाणसाए, एस तवो तीइ अणुचिन्नो ॥ ३ ॥ " एवं दुस्वपतपस्तपनेऽपि सा न शुद्धा, प्रत्युता'ध्यानान्मृता दास्यार्थसङ्खच भवेष्वनु भूततचचीव्रतर दुःखा श्रीपद्मनाभतीर्थकृत्तीर्थे सेत्स्यति । तदुक्तं - " ससल्लो' जवि कहुगंघोरं वीरं तवं चरे । दिव्वं वाससहस्सं' तु, तओ तं' तस्स निष्फलं ॥ १ ॥ नह सुकुसलो वि विज्जो, अन्नस्स कहेइ अप्पणी' वाहिं । एवं जाणंतस्स वि, सल्उद्धरणं परसगासे ॥ २ ॥ " ६ । तथाज्ञा तीर्थकृतामाराधिता स्यात् ७ । निःशल्यत्वं स्पष्टं । उक्तं चैकोनत्रिंशदुत्तराध्ययने – “ आलोअणयाएणं भंते ! जीवे किं जणयइ ? गोयमा ! आलोअणयाएणं मायानिआणमिच्छादंसणसल्लाणं अनंतसंसारवद्ध (ह) णाणं उद्धरणं करेइ, उज्जुभावं चणं जणयइ || उज्जुभावं पडिवने अणं जीवे अमाई इत्थीवेअं नपुंसगवेअं च न बंधर, पुव्वबद्धं चणं निज्जरे इति ।" एते शोधेरालोचनाया गुणाः । ८ । इति श्राद्ध जितकल्पात्तद्वृत्तेश्व किञ्चिदुद्धृत आलोचनाविधिः । तीव्रतर्राध्यवसाय कृतं वृहत्तरमपि निकाचितमपि बालस्त्रीयतिहत्या देवादिद्रव्यभक्षणराजपत्नीगमनादिकं महापापं सम्यग् विधिवदालोच्य गुरुदत्तं प्रायश्चित्तं विधत्ते, तदा तद्भवेऽपि शुध्यति । कथमन्यथा दृढप्रहारिप्रभृतीनां तद्भवेऽपि सिद्धिरित्यालोचना प्रतिवर्षे प्रतिचातुर्मासकं वा प्रायैव । इति वर्षकृत्यगाथोत्तरार्धार्थः ॥
इति श्रीतपागच्छाधिपश्री सोमसुंदरसूरि श्रीमुनिसुंदरसूरि - श्रीजयचंद्रसूरि-श्रीभुवनसुंदरसूरिशिष्य श्री रत्नशेखरसूरिविरचितायां श्राद्धविधिप्रकरणवृत्तौ वर्षकृत्यप्रकाशकः पञ्चमः प्रकाशः ।
श्रीश्राद्धविधिप्रकरणम्
దృవ నివేదన సందడిచేసిన సిన श्राद्धविधिवृत्तौ समाप्तः पञ्चमः प्रकाशः ।
6+
121