________________
भवति । तथा श्रावकश्राविकाणामन्येषां च शासनस्योपरि बहुमानो जायते, यथा अहो ! महाप्रतापि पारमेश्वरं शासनं यदृशा महातपस्विन इति । तथा कुतीर्थानामपभ्राजना हीलना भवति, तत्रेदशा महासत्वानामभावात । तथा जीतमेतत कल्प एष यत्समाप्तपतिमानुष्ठानः सत्करणीयः । तथा तीर्थवृद्धिश्च प्रवचनस्य मंतिशयं वीक्ष्य बहवः संसाराद्विरज्य प्रव्रज्या प्रतिपद्यन्ते, ततो भवति तीर्थदृद्धिरिति तदत्तिः ॥ तथा यथाशक्ति श्रीसंघस्य सबहुमानकारणतिलककरणचन्दनजवाधिक:रकस्तूर्यादिविलेपनसुरभिकुसुमार्पणादिभत्या नालिकेरादिविविधताम्बूलप्रदानादिरूपा प्रभावना कार्या । शासनोन्नतेस्तीर्थ कृत्वादिफलत्वात् । उक्तं च-" अपुव्वनाणगहणे, सुअभत्तीपवयणे पभावणया । एएहिं कारणेहिं, तित्थयरत्तं लहइ जीवो ॥१॥ भावना मोक्षदा स्वस्य, स्वान्ययोस्तु प्रभावना । प्रकारेणाधिका युक्तं, भावनातः प्रभावना ॥२॥"।१०।।
तथा गुरुयोगे जघन्यतोऽपि प्रतिवर्षमालोचना गुरुभ्यो दातव्या । यतः-" प्रतिसंवत्सरं ग्राह्यं, प्रायश्चित्तं गुरोः पुरः । शोध्यमानो भवेदात्मा, येनादर्श इवोज्ज्वलः॥१॥" आगमे तु श्रीआवश्यकनियुक्तावेवमुक्तं,-"चाउम्मासिस वरिसे, आलोअणनिअमसाउ दायब्वा । गहणं अभिग्गहाण य पुव्वगहिए निवेएउं ।।१॥" श्राद्धजीतकल्पादौ तद्विधिरेवं,-"परिकअ चाउम्मासे, वरिसे उक्कोसओ अ बारसहि । निअमा आलोइज्जा, गीआइगुणस्स भणियं च ॥ १ ॥ सल्लुद्धरणनिमित्तं, खित्तमी सत्तजोअणसयाइं । काले बारसवरिसा, गीअत्थगवेसणं कुज्जा ॥३॥ गीअत्थो कडजोगी, चारित्ति तह य गाहणाकुसलो । खेअन्नो अविसाई, भणिओ आलोयणायरिओ ।। ३ ॥" गीतार्थोऽधिगतनिशीथादिश्रुतसूत्रार्थः । कृतोऽभ्यस्तो योगो मनोवाकायव्यापारः शुभो विविधतपो वा स यस्यास्ति स कृतयोगी, विविधशुभध्यानतपोविशेषैः परिकर्मितात्मशरीर इत्यर्थः । चारित्री निरतिचारचारित्रवान् । ग्राहणा बहुयुक्तिभिरालोचनादायकानां विविधमायश्चितादितपोविधेरङ्गीकारणं तत्र कुशलः । खेदः सम्यकमायश्चित्तविधेः परिश्रमोऽभ्यास इत्यर्थः तं जानातीति खेदज्ञः । अविषादी महत्यप्यालोचकस्य दोषे श्रुते न विषादवान् । प्रत्युतालोचनादायकस्य तत्तन्निदर्शनगर्भवैराग्यवचनैरुत्साहक इत्यर्थः । " आयारवमाहारवं ववहारुवीलए पकुंची य । अंपरिस्सावी' निजव अवायदंसी गुरू भणिओ ॥ ४ ॥" आचारवान् ज्ञानादिपञ्चप्रकाराचारयुक्.१, आधारवान् आलोचितापराधानामा सामस्त्येन धारणमोधारस्तद्वान् २, व्यवहार आगमादिः पश्वधा । तत्रागमव्यवहारः केवलिमनःपर्यायावधिज्ञानिचतुर्दशदशनवपूर्विषु १, श्रुतव्यवहारोऽष्टाघेका वसानपूर्वधरैकादशागिनिशीथाद्यशेषश्रुतज्ञेषु २, आज्ञाव्यवहारो दूरस्थगीतार्थाचार्ययोर्मिथःसङ्गन्तुमक्षमयोगूढपदैरालोचनाप्रायश्चित्तयोः प्रदानं ३, धारणाव्यवहारो गुरुणापराधे यद्यथा प्रायश्चित्तं दत्तं तत्तथैवान्योऽपि दत्त इत्यादि ४, जीतं श्रुतोक्तांपत्तितो हीनमधिकं वा परंपरयाऽऽचीर्ण तेन व्यवहारो जीतव्यवहारः पञ्चमः संपतिमुख्यः ५। एवं पञ्चविधं व्यवहारं ज्ञात्वा प्रायश्चित्तप्रदाने यः सम्यग् व्यवहरति स व्यवहारवान् ३ । अपवीडयति लज्जां मोचयतीर्यपत्रीडक आलोचकं लज्जयाऽनालोचयन्तं तथा तथा वैराग्यगर्भ वक्ति, यथा स लज्जा मुक्त्वा सम्यगालोचयतीत्यर्थः ४ । कुर्वेत्यांगमप्रसिद्धो धातुर्यस्य विकुर्वणेति प्रयोगः । प्रकुर्वतीत्येवंशीलः प्रकुर्वी, आलोचकस्य सम्यग् विशुद्धिकारक इत्यर्थः ५ । आलोचितं योऽन्यस्मै न वक्ति सोऽपरिस्रावी ६ । निर्यापयति निर्वाहयतीति निर्यापः , यो यथा समर्थस्तस्य तथा प्रायश्चित्तं दत्त इत्यर्थः ७ । सम्यगनालोचकस्य सम्यक् प्रायश्चितकर्तुश्च भवद्वयेऽयंपायदर्शी ८ । एतेऽष्टौ गुरोर्गुणाः । “आलोयणापरिणओ, सम्मं संपढिओ गुरुसगासे । जई अंतरावि कालं, करिज'आराहओतहवि ॥५॥ आयरिआइ सगच्छे, संभोइअ इअर गीअ पासत्थे । सारूवीपच्छाकडदेवय पडिमा 'अरिहसिद्धे ॥६॥" साधुना श्राद्धन वा नियमतः प्रथम स्वगच्छ आचार्यस्य, तदयोग उपाध्यायस्य, एवं प्रवर्तिनः स्थविरस्य गणावच्छेदिनी वालोचनीयं । स्वगच्छे पञ्चानामप्यभावे सांभोगिक एकसामाचारिके गच्छान्तर आचार्यादिक्रमेणालोच्यं । तेषामर्यभाव इतरस्मिन्नसांभोगिके संविने गच्छे स एव क्रमः । तेषामयभावे गीतार्थपार्श्वस्थस्य । तस्याप्यभावे गीतार्थसारूपिकस्य । तस्याप्यभावे गीतार्थपश्चात्कृतस्यालोचयितव्यं । सारूपिकः शुक्लांबरो मुंडोबद्धकच्छो रजोहरणरहितो'ब्रह्मचर्योऽभार्यो भिक्षाग्राही । सिद्धपुत्रस्तु'सशिखः 'सभार्यश्च । पश्चात्कृतस्त्यक्तचारित्रवेषो गृहस्थः । पार्थस्थादेरपि गुरुवदन्दनकपदानादिविधिः कार्यो विनयमूलत्वाद्धर्मस्य । यदि तु पावस्थादिः स्वं गुणहीनं पश्यन् वन्दनकं न कारयति, तदा तस्य निषद्यामारचय्य प्रणाममात्रं कृत्वालोचनीयं । पश्चात्कृतस्य चेत्वरसामायिकारोपणं लिङ्गपदानं च कत्वा यथाविध्यालोच्यं । पार्थस्थादीनामर्यभावे यत्र राजगृहे ' गुणशिलादावद्गणधराधैबहुशः प्रायश्चित्तप्रदानं ' यया देवतया दृष्टं तत्र तस्याः सम्यग्दृष्टरष्टमााराधनेन प्रत्यक्षाया आलोच्यं । जातु सा च्युतान्योत्पन्ना तदा सा महाविदेहेऽर्हन्तं पृष्ट्वा पायाश्चत्तं दत्ते । तर्दयोगेऽईत्पतिमानां पुर आलोच्य स्वयं पायाश्चत्तं प्रतिपद्यते । तासामर्ययोगे पूर्वोत्तरामुखोऽहत्सिद्धसमक्षमालोचयेनत्वनालोचित एव तिष्ठेत् , सशल्यस्यानाराधकत्वात् । “ अग्गीओ नविजाणइ, सोहि चरणस्स देइ उणहिअं। तो अप्पाणं ' आलोअगं च पाडेइ संसारे ॥ ७ ॥ जह बालो जंपंतो, कजमकज च उज्जु भणइ । तं तह आलोइज्जा, मायामयविप्पमुक्को अ॥८॥ मायाइदोसरहिओ, पइसमयं वडमाणसंवेगो । आलोइज्ज अकज्ज, न' पुणो का हिंति'
120
श्रीश्राद्धविधिप्रकरणम