________________
तथा देवद्रव्यदृष्ट्यर्थ प्रतिवर्ष मालोघट्टन कार्य । तत्र चैन्द्रधन्या वा माला प्रतिवर्षे यथाशक्ति प्राया । श्रीकुमारपाळसङ्के मालोद्घट्टने । मन्त्रिवाग्भटादिषु । लक्षचतुष्काष्टकादिवादिषु 'महूआ'वासिसौराष्ट्रिफमाग्घाटहंसराजधारूपुत्रो जगडो मलिनाङ्गवस्त्रः सपादकोटीं चक्रे । विस्मयाद्राज्ञा पृष्टः माह,-मपित्रा नौयात्रार्जितधनैः सपादकोटिमुल्यमाणिक्यपञ्चकं चक्रे । प्रान्ते चोक्तं,-श्रीशत्रुञ्जयरैवतदेवपत्तनेषु देवस्यैकैकं दद्याः, द्वे त्वया स्थाप्ये इति, तत् त्रयं हेमखचितमृषभनेमिचन्द्रप्रभाणां स कंठाभरणीचक्रे । श्रीरैवते श्वेताम्बरदिगम्बरसंघयोः समं प्राप्तयोस्तीर्थविवादे य इन्द्रमाला परिधत्ते तस्येदं तीर्थमिति वृद्धोक्तौ, साधुपेथडेन षट्पञ्चाशद्धटीस्वर्णेनेन्द्रमाला परिदधे । चतुर्धटीस्वर्ण मार्गणेभ्यो ददे। तीर्थ स्वं चक्रे । एवं परिधापनिकानव्यधौतिकविचित्रचन्द्रोदयाङ्गरूक्षणदीपतैलजात्यचन्दनकेसरभोगाद्यपि चैत्योपयोगि प्रतिवर्ष यथाशक्ति मोच्यं ५/
तथा विशिष्टाङ्गीपत्रभङ्गीसर्वाङ्गाभरणपुष्पगृहकदलीगृहपुत्रिकाजळयन्त्रादिरचनानानागीतनृत्ताद्युत्सवैर्महापूजा रात्रिजागरणं च कार्ये। यथैकेन महेभ्येाब्धियात्रां गच्छता 'लक्षव्ययेन द्वादशवा'मनोभीष्टलाभहष्टेन तत आगतेन कोटिव्ययेन चैत्ये महापूजादि विदधे । ६ । ७ ।
तथा श्रुतज्ञानस्य 'पुस्तकादिस्थस्य कर्पूरादिना पूजामात्रं सर्वदापि सुकरं । प्रशस्तवस्त्रादिभिर्विशेषपूजा तु प्रतिमासं शुक्लपञ्चम्यां श्रावकस्य कत्तुं युज्यते । तथाप्यशक्तौ जघन्यतोऽपि ' सा प्रतिवर्षमेकैकवारं कार्या । तद्विस्तरस्तु जन्मकृत्यमध्ये शानभक्तिद्वारे वक्ष्यते । ८।
तथा नमस्कारावश्यकसूत्रोपदेशमालोत्तराध्ययनादिज्ञानदर्शनविविधतत्तत्तपःसम्बन्धिपूद्यापनेषु । जघन्यतोऽप्येकैकमुयापनं वर्षे वर्षे यथाविधि काये । यत:-" लक्ष्मीः कृतार्था। सफळं तपोपि, ध्यानं सदोचैर्जनबोधिलाभः । जिनस्य भक्तिर्जिनशासने ' श्रीर्गुणाः' स्युरुद्यापनतो नराणाम् ॥ १॥ उद्यापनं यत्तपसः समर्थने, तच्चैत्यमौलौ कलशाधिरोपणम् । फलोपरोपोऽक्षतपात्रमस्तके, ताम्बूलदानं कृतभोजनोपरि ॥२॥" दृश्यन्ते हि विधिना नमस्कारलक्षकोटीजापपूर्व चैत्यस्नात्रमहसाधर्मिकवात्सल्यसंघार्चादिप्रौढाडम्बरेण ' लक्षकोटिचोक्षाष्टषष्टिरैरूप्यवर्तुलिकापट्टिका लेखनीमणिमुक्ताविद्रुमनाणकनालिकेराधनेकफलविविधपकानधान्यखाद्यस्वाधकपटकादिवौकनादिना नमस्कारस्योपधानोदहनादिविधिपूर्वमालारोपणेनावश्यकसूत्राणामेवं ' गाथासङ्ख्यचतुश्चत्वारिंशदधिकपश्चशत्यादिमोदकनालिकरवर्तुलिकादिविविधवस्तुदोकनकादिनोपदेशमालादीनां सौवर्णादिगर्भदर्शनमोदकलम्भनादिना दर्शनादीनामप्युद्यापनानि कुर्वाणाः, मालारोपणं च विशेषधर्मकृत्यं, यतो नमस्कारर्यापथिक्यादिसूत्राणां यथाशक्तिविधिनोपधानतपो विना भणनगुणनाघशुद्धस्तदाराधनार्थ श्राद्धानार्मवश्यकत्यमुपधानतपः, साधुनामिव योगोद्वहनं । तदुद्यापनं च मालारोपणं। तदवोचाम-"उपधानतपो विधिवाद्विधाय'धन्यो निधाय निजकंठे, Aधापि सूत्रमाला, द्वेधापि शिवश्रियं श्रयति ॥१॥ मुक्तिकनीवरमाला, मुकृतजलाकर्षणे घंटीमाला । साक्षादिव गुणमाला, माला परिधीयते'धन्यैः ॥२॥" एवं शुक्लपञ्चम्यादिविविधतपसामाप तत्तदुपवासादिसंख्यनाणकवर्तुलिकानालिकेरमोदकादिनानाविधवस्तुढौकनादिना यथाश्रुतसंप्रदायमुद्यापनानि विधेयानि ॥९॥
. तथा तीर्थप्रभावनानिमिचं श्रीगुरुमवेशोत्सवप्रभावनादि जघन्यतोऽपि प्रतिवर्षमेकैफवार कार्य। तत्र श्रीगुरुमवेशोत्सवः सर्वाङ्गीणप्रौढाडम्बरचतुर्विधश्रीसंघसंमुखगमनश्रीगुवादिसंघसत्कारादिना यथाशक्ति कार्यः यत:-"अभिगमणवंदणनमंसणेण पडिपुच्छणेण साहूणं । चिरसंचिअंपि कम्मं, खणेण विरलत्तणमुवेइ ॥१॥" साधुपेथडेन'तपाश्रीधर्मघोषसूरीणां प्रवेशोत्सवे द्वासप्ततिसहस्रटङ्ककन्ययश्चक्रे । न च संविग्नसाधूनां प्रवेशोत्सवोऽनुचित इति वाच्यं, आगम उपेत्य तत्करणस्य प्रतिपादितत्वात् । तथाहि-साधोः प्रतिमाधिकारे व्यवहारभाष्यं,-" तीरिअउन्भामनिओअदरिसणं सन्नि साहुर्मप्पाहे । दंडिअ भोइअ असई, सावगसंघो व सकारं ॥१॥" तीरितायां समाप्तायां प्रतिमायामुत् प्राबल्येन भ्रमन्त्युद्धमा भिक्षाचरास्तेषां नियोगो व्यापारो यत्र स उभ्रामकनियोगो ग्रामस्तत्र दर्शनमात्मनः प्रकटनं करोति । ततः संयतं साधु संज्ञिनं वा श्रावकं ' अप्पाहे त्ति' सन्देशयति । ततो दंडिको राजा भोजिको ग्रामाध्यक्षस्तदभावे श्रावकवर्गः संघः साधुसाध्वीवर्गः सत्कारं करोति । अयं भावः , प्रतिमायां समाप्तायां यस्मिन् प्रत्यासनग्रामे बहवो भिक्षाचराः साधवश्व समागच्छन्ति, तत्रागत्यात्मानं दर्शयति, दर्शयंश्च यं साधुं श्रावकं वा पश्यति, तस्य सन्देशं कथयति, यथा समापिता मया प्रतिमा ततोऽहमीगत इति तत्रोचार्या राज्ञो निवेदयन्ति, यांमुको महातपस्वी' समाप्ततपःकर्मातिमहता सत्कारेण गच्छे प्रवेशनीय इति । ततः स राजा तदभावेऽधिकृतग्रामस्य नायकस्तदभाव समृद्धः श्रावकवगेस्तदभावे साधुसाध्वीप्रभृतिक: संघो यथाशक्ति सत्कारं करोति । सत्कारो नामोपरि चन्द्रोदयधारणनान्दीतूर्यास्फालनसुगन्धवासमक्षेपादिकः । एवं सत्कार इमे गुणाः-" उन्मावणा पवयणे, सद्धाजणणं तहेव बहुमाणो । उहावणा कुतिथ्थे, जीअं तह तित्थवुट्टीअ ॥२॥" प्रवेशसत्कारेण प्रवचनस्योदभ्राजनं मावल्येन प्रकाशनं भवति । तथान्येषां साधूनां श्रदाजननं वयमप्येवं कुर्मो येन महती
श्रीश्राद्धविधिप्रकरणम
119