SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ अथ तीर्थयात्रास्वरूपं । तत्र तीर्थानि श्रीशत्रुञ्जयश्रीरैवतादीनि । तथा तीर्थकुजन्मदीक्षाज्ञाननिर्वाणविहारभूमयोऽपि 'प्रभूतभव्यसत्वशुभभावसंपादकत्वेन भवभिोनिधितारणात् तीर्थान्युच्यन्ते । तेषु सदर्शनविशुद्धिप्रभावनाद्यर्थ विधिवद्यात्रागमनं तीर्थयात्रा । तत्रायं विधिः-प्रथमं प्रतिपद्यते यात्रविध्येकाहारसचित्तपरिहारभूशयनब्रह्मव्रतादिगाढाभिग्रहान् । पर्यङ्किकावर्याश्वपल्यङ्कादिसमग्रसामग्रीसद्भावेऽपि यात्रिकस्य प्रौढ श्रावकस्यापि शक्तौ पदचरणाद्यौचित्यं । यदवोचाम-" एकाहारी दर्शनधारी'यात्रासु भूशयनकारी। सच्चित्तपरिहारी पदचारी । ब्रह्मचारी च । " लौकिकैरप्युक्तं-" यानमर्द्धफलं हन्ति तुरीयांशमुपानहौ। तृतीयांशमवपनं सर्व हन्ति प्रतिग्रहः ॥ १॥ एकभक्ताशिना भाव्यं तथा स्थंडिलशायिना। तीर्थानि । गच्छता नित्यमप्यतौ ब्रह्मचारिणा ॥२॥" तदनु यथाईदानादिना सन्तोष्यांनुज्ञापयति क्षमापतिं । प्रगुणीकरोति च यथाशक्ति युक्तिविशिष्टान् यात्रार्थ देवालयान् । आकारयति सविनयबहुमानं स्वजनसाधर्मिकादिवर्ग । निमन्त्रयते सभक्ति सद्गुरून् । प्रवर्तयत्यमारिं । निर्मापयति चैत्यादौ महापूजादिमहोत्सवं । ददाति निःशम्बलेभ्यः शम्बलं, निर्वाहनेभ्यो वाहनं, निराधारभ्यः सद्ववचनविभवाद्याधारं । यथार्हसान्निध्यप्रदानविषयोघोषणापूर्व सार्थवाह इव प्रोत्साहयति निरुत्साहमनसोऽपि । कारयति साडम्बरपौढतरगुरूदरचतुरकशरावकततपटपटमंडपपौढकटादिचलत्कूपसरोवरादीन् । सज्जयति शकटसेजवालकरथपर्यङ्किकापौष्टिककरभतुरगादीन् । आहयति श्रीसंघरक्षार्थमत्युद्भटाननेकसुभटान् । सन्मानयति कवचाङ्गकाद्युपस्करापणेन तान् | प्रगुणयति गीतनृत्यवाद्यादिसमग्रसामग्रीं । ततः करोति समुहूर्वे शुभशकुननिमित्ताधुत्साहितः प्रस्थानमङ्गलं । तत्र मीलयति सकलसमुदायं भोजयति विशिष्टविशिष्टतरभोज्यताम्बुलादिभिः। परिधापयति पश्चाङ्गमडिदुकुलादिभिः। विधापयति सुप्रतिष्ठधार्मष्ठपूज्यभाग्यवत्तरनरेभ्यः श्रीसंघाधिपत्यतिलकम् । विदधाति संघपूजादिमहामहं । निर्मापयत्येवमन्येभ्योऽपि यथोचितं संघाधिपत्यादितिलकमहं । स्थापयति महाधराग्रेसरपृष्ठिरक्षसंघाध्यक्षममुखान् । प्रख्यापयति श्रीसंघचलनोत्तरणादिसर्वसङ्केतव्यवस्था । संभालयति मार्गे सर्वान् सार्थकान् । विश्राणयति तेषां शकटाङ्गभङ्गाधन्तराये सर्वशत्या सानिध्यं । विधत्ते प्रतिग्राम प्रतिपुरं चैत्येषु च स्नात्रमहाध्वजप्रदानचैत्यपरिपाट्याद्यतुच्छोत्सवं जीर्णचैत्योद्धारणादिचिन्तां च। निर्मिमीते तीर्यदर्शने' स्वर्णरत्नमौक्तिकादिवोपनळपनेप्सितामोदकादिलम्भनसाधर्मिकवात्सल्ययथोचितदानादिविधि। प्रौढमवेशोत्सवेन तीर्थप्राप्तश्च सर्वशक्या स्वयं कुरुते, परैश्च कारयते, प्रथमहर्षपूजाढौकनादिपतिपत्तिमष्टोपचारादिविधिपूजा, विधिस्नात्रं, मालोघट्टनं, घृतधारामदानं, परिधापनिकामोचनं, नवागजिनपूजनं, पुष्पगृहकदलीगृहादिमहापूजा, दुकूलादिमयमहाध्वजप्रदानमैवारितदानं, रात्रिजागरणं, नानागीतनृत्याधुत्सवं, तीर्थोपवासषष्ठादितपः कोटिलक्षितादिविविधोद्यापनढौकनं, नानावस्तुफलशताष्टोत्तरिकाचतुर्विशिकाद्वापश्चाशिकाद्वासप्ततिकादिढौकनं, सर्वभक्ष्यभोज्यभृतस्थालढौकनं दुकूलादिमयविचित्रचन्द्रोदयपरिधापनिङ्गिरूक्षणदीपतैलधौतिकचन्दनकेसरभोगचङ्गेरीपिङ्गानिकाकलशधूपधानकारात्रिकाभरणप्रदीपचामरभृङ्गारस्थालकचोलकघंटाझल्लरीपटहादिविचित्रवाधादिपदानं, देवकुलिकादिकारणं, सूत्रधारादिसत्कारं, तीर्थसेवा, विनश्यत्तीथाङ्गसमारचनं, तीर्थरक्षकबहुसन्माननं, तीर्थदायप्रवर्त्तनं, साधर्मिकवात्सल्यं, गुरुसङ्घपरिधापनादिभक्ति, जैनमार्गणदीनाद्युचितदानं चेत्यादिधर्मकृत्यानि । न च मार्गणादीनां दानं कीर्तिमात्रहेतुत्वेन निष्फलं, तेषामपि देवगुरुसंघगुणोद्घोषितया। दीयमानस्य दानस्य बहुफलत्वात् । जिनागमनवक्तुरापि' चक्रयादिभिः सार्दद्वादशस्वर्णकोव्यादिदानात् । तदागमः-" वित्तीइ सुवनस्स य, बारस अद्धं च सयसहस्साई । तावइ चित्र कोडी, पीईदाणं तु चकिस्स ॥१॥" एवं यात्रां कृत्वा तथैव बलमानः प्रौढप्रवेशोत्सवैः स्वगृहमागतो देवाहानादिमहं वर्षादि यावत्तीर्थोपवासादि च कुरुते । इति यात्राावीधः। श्रीसिद्धसेनदिवाकरपबोधितविक्रमादित्यस्य श्रीशत्रुञ्जययात्रासंघ एकोनसप्तत्यधिकशतं सौवर्णा देवालयाः, पञ्चशती दन्तचन्दनादिमयाः श्रीसिद्धसेनाद्याः पञ्चसहस्राः सूरयः,चतुर्दश नृपा मुकुटबद्धाः, सप्ततिलक्षाणि श्राद्धकुटुंबानि, एका कोटिदशलक्षाणि नवसहस्री च शकटानि, अष्टादश लक्षाणि तुरङ्गमाः, पट्सप्ततिशतानि गजाः, एवं करभवृषभाद्यपि ज्ञेयं । श्रीकुमारपालस्य स्वर्णरत्नादिमयाश्चतुःसप्तत्यधिकाष्टादशशती देवालयाः । थिरापद्रे पश्चिममंडलीकोतिख्यातस्याभूसंघपतेस्तु सप्तशतानि, तद्यात्रायां द्वादशकोटिस्वर्णव्ययः । साधुपेथडस्यैकादशरूप्यटंकलक्षव्ययस्तीर्थदर्शने, संघे देवालया द्वापश्चाशत्, मनुष्याः सप्त लक्षाः । मन्त्रिवस्तुपालस्य सार्दा द्वादश यात्राः प्रसिद्धाः । इति यात्रात्रयस्वरूपं ॥ ३ ॥ ___तथा चैत्ये स्नात्रमहोऽपि । मेरुभरणाष्टमङ्गलीनैवेद्यादिढौकनभूयस्तरजात्यचन्दनकेसरपुष्पभोगाद्यानयनसकलसमुदायमीलनस्फीतसङ्गीतकाद्याडम्बरदुकूलादिमहाध्वजप्रदानप्रभावनादि प्रौढविस्तारेण प्रत्यहं पर्वसु वा कर्तुमशक्तेनापि प्रतिवर्षमेकैकः कार्यः । स्नात्रमहे च'स्वविभवकुलप्रतिष्ठानुसारेण सर्वशक्त्या द्रव्यव्ययाद्याडम्बरे श्रीजिनमतमहोद्योतहेतौ यतनीयं । श्रूयते हि साधुपेथडेन श्रीरैवते स्नात्रमहामहे 'षट्पञ्चाशद्धटीस्वर्णेनेन्द्रमाला परिदधे । श्रीशत्रुञ्जयरैवतयोश्चैक एव काश्चनमयो ध्वजः प्रददे । तत्पुत्रेण साधुझांझणेन तु दुकूलमय इति स्नात्रं । ४ । 118 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy