________________
प्रसङ्गेन । साधार्मिकवात्सल्येनैव च राजामतिथिसंविभागवताराघनं, राजपिंडस्य मुनीनामकल्प्यत्वात् । अत्र च भरतान्वये त्रिखंडाधिपदंडवीर्यदृष्टान्तो यथा-तं साधर्मिकभोजनपूर्वमेव सर्वदा भुजानं परीक्षितुर्मन्यदेन्द्रः सुश्रादान् कोटिमितांस्तीर्थागतान् । त्रिरत्नीद्वादशव्रतीसूचककाश्चनसूत्रात्रिकतिलकद्वादशोलतान् । भरतकृतचतुर्वेदीवावदूकवदनान् दर्शयामास । ताच सभक्ति निमन्त्र्य भोजयत एव भूभुजो भास्वानस्तमितः । एवं राज्ञ उपवासाष्टकभवनेऽपि साधर्मिकभाक्तिः प्रवर्द्धमानवयस्कशक्तिरिवाधिकाधिकैभिवत् । ततस्तुष्टः शक्रस्तस्मै दिव्यधनुः शररथहारकुंडलयुगलदानपूर्व शत्रुञ्जययात्रार्थ । तीर्थोद्धारार्थ चादिदेश । सोऽपि तथा चक्रे । श्रीसंभवजिनेन'मातृतीयभवे'धातकीखंड ऐरावते क्षेत्रे क्षमापूर्यो। विमलवाहननृपत्वे'महादुर्भिक्षे सकलसाधर्मिकाणां भोजनादिप्रदानेन जिनकर्म बद्धं । ततः स प्रव्रज्यांनतकल्पे सुरीभूय संभवजिनोऽजनि । तस्य चवितरणे फाल्गुनशुक्लाष्टम्यां जाते महादुर्भिक्षेऽपि तद्दिन एव सर्वतोऽप्योगतसमस्तधान्यानां संभवो बभूवेति संभवनाम प्रतिष्ठितं । यद वृहदभाष्ये- "संसोकंति पवुच्चइ, दिट्टे' तं होइ सव्वजीवाणं। तो संभवो जिणेसो, सव्वे विहु संभवा एवं ॥१॥ भन्नति भुवणगुरुणो, नवरं अन्नपि कारणं अत्थि । सावत्थी नयरीए, कयाइ कालस्स दोसेणं ॥ २॥ जाए 'दुभिरकभरे दुत्थीभूए'जणे 'समत्येवि । अवयरिओ एस जिणो, सेणादेवीइ उअरंमि ॥३॥ सयमेवीगम्मसुराहिवेण संपूइआ तो जणणी । वदाविआ य'भुवणिक्कभाणुतणयस्स लाभेणं ॥ ४ ॥ तद्दिअहं चिअ'सहसा, समत्थसत्येहिं धनपुन्नहि। सव्वत्तो इंतेहिं, सुहं 'मुभिरकं तहिं जायं ॥ ५॥ संभविआई जम्हा, समत्त सस्साई संभवे । तस्स । तो संभवोत्ति नामं, पइटिअंजणणिजणएहिं ॥६॥" देवगिरौ साधुजगसिंहः स्वसमीकृतषष्ट्यधिकत्रिशतीवणिकपुत्रपाश्चात्यत्यहं । साधर्मिकवात्सल्यं द्वासप्ततिटंककसहसव्ययेनकै व्यधापयत् । एवं प्रतिवर्षे तस्य षष्ट्यधिकत्रिशतीसाधर्मिकवात्सल्यान्यंभूवन् । थिरापद्रे श्रीश्रीमालआभूः संघपतिः । षष्ट्यधिकत्रिशतीसाधर्मिकान् स्वतुल्यांश्चके । यतः-" किं तेन हेमगिरिणा। रजताद्रिणा वा, यावाश्रिता हितरवस्तरवस्त एव । मन्यामहे 'मलयपर्वतमेकमेव, यत्रांम्रनिम्बकुटजा अपि चन्दनानि ॥१॥" साधुसारङ्गः पञ्चपरमेष्ठिमन्त्रपाठिभ्यः 'प्रवाहेण हैमटङ्ककं प्रत्येकं प्रददे । एकस्य चारणस्य पुनः पुनः पठेत्युक्तेनववारनमस्कारपाठिनो नव सौवर्णान् ददौ । इति साधर्मिकवात्सल्यविधिः। . __तथा प्रतिवर्ष जघन्यतोऽप्येकैका यात्रा कार्या । यात्रा च त्रिधा । यदुक्तं,-" अष्टान्हिकाभिधामेको, रथयात्रामथापराम् । तृतीयां तीर्थयात्रां चेत्योहुर्यात्री त्रिधा बुधाः ॥१॥" तत्राष्टाहिकास्वरूपं प्रागुक्तं । तासु सविस्तरं सर्वचैत्यपरिपाटीकरणायष्टाह्निका यात्रा । इयं चैत्ययात्राप्युच्यते । रथयात्रा ' तु हैमपरिशिष्टपर्वण्येवमुक्ता,-" सुहस्त्यांचार्यपादानामवन्त्यामेव तस्थुषाम् । चैत्ययात्रोत्सवश्चक्रे ' संघनान्यत्र वत्सरे ॥१॥ मंडपं चैत्ययात्रायां सुहस्ती भगवानपि । एत्य नित्यमलचक्रे श्रीसंघेन समन्वितः ।। २ ।। सुहस्तिस्वामिनः शिष्यपरमाणुरिर्वाग्रतः । कृताजलिस्तत्र 'नित्यं निषसाद च संपतिः॥३॥ यात्रोत्सवान्ते संघेन रथयात्रा' प्रचक्रमे । यात्रोत्सवो हि भवति.संपूर्णो रथयात्रया ॥४॥ रथोऽथ । रथशालाया' दिवाकररथोपमः । निर्ययौ स्वर्णमाणिक्यद्युतिद्योतितदिग्मुखः ॥ ५ ।। श्रीमदहमतिमाया रथस्थाया' महर्दिभिः । विधिः स्नात्रपुजादि श्रावकैरुपचक्रमे ॥ ६ ॥ क्रियमाणेऽर्हतः स्नात्रे स्नानांभो न्यपतंद्रथात् । जन्मकल्याणके पूर्व सुमेरुशिखरादिव ।। ७॥ श्रादैः सुगन्धिभिव्यैः प्रतिमाया विलेपनम् । स्वामिविशिप्मुभिरिवांकारि वक्ताहितांशुकैः ॥ ८॥ मालतीशतपत्रादिदाममिः प्रतिमाहेतः । पूजिताभात्कलेवेन्दोभृता शारदवारिदैः ॥९॥ दह्यमानांगरूत्थाभिधुमलेखाभिरावृता । अशुभत्पतिमा नीलवासोभिरिव पूजिता ॥ १० ॥ आरात्रिकं जिनार्चायाः कृतं श्राद्धैवलच्छिखम् । दीप्यमानौषधीचक्रशैलशृङ्गाविडम्बकम् ॥ ११ ॥ वन्दित्वा श्रीमदहन्तमथ तैः परमाईतैः । रथ्यैरिर्वाग्रतो भूयः स्वयमाचकृषे 'रथः ॥ १२ ॥ नागरीभिरुपक्रान्तसहल्लीसकरासकः चतुर्विधातोद्यवाद्यसुन्दरप्रेक्षणीयकः॥ १३ ॥ परितः श्राविकालोकगीयमानोरुमङ्गलः । प्रती च्छन् विविधां पूजा प्रत्यहं प्रतिमन्दिरम् ॥ १४ ॥ बहुलैः' कुंकुमाभोभिरभिषिक्तांग्रभूतलः । संपतेः सदनद्वारमाससाद शनैरथः ॥ १५ ॥ त्रिभिर्विशेषकम् ।। राजापि संपतिरथ रथपूजार्थमुद्यतः । आगात्पनसफलवत्सर्वाङ्गोद्भिनकंटकः ॥ १६ ॥ रथाधिरूढां प्रतिमा पूजयष्टिप्रकारया । अपूजयनवानन्दसरोहंसोऽवनीपतिः ॥ १७॥" महापद्मचक्रिणापि 'मातुर्मनोरथपूर्तये रथयात्रात्याडंबरैश्चक्रे । कुमारपालरथयात्रा त्वेवमुक्ता-" चित्तस्स अट्ठमिदिणे, चउत्थपहरे। महाविभूईए । सहरिसमिलंतनायरजणकयमंगल्लजयसदो ॥१॥ सोवनजिणवररहो, नीहरइ 'चलंतसुरागिरिसमाणो । कणगोरुदंडधयछत्तचमरराईहिं दिप्पंतो' ॥२॥ हविअविलित्तं कुसुमोहपूइअं तत्थ पासाजिणपडिमं । कुमरविहारदुवारे, महायणो ठवइ रिद्धीए ॥ ३ ॥ तूररवभरिअभुवणो, सरभसनच्चंतचारुतरुणिगणो । सामंतमंतिसहिओ, बच्चइ निवमंदिरंमि रहो ॥ ४॥ रायारहत्थपडिमं, पढेंसुअकणयभूसणाईहिं । सयमेव अच्चि कारवेइ विविहाइं नहाई॥५॥ तत्थ गमिऊण रयणि, नीहरि सीहबारबाहिमि । ठाइ एवं चित्र धयतंडवमि पडमंडवंमि रहो ।॥ ६ ॥ तत्थ पहाए राया, रहजिणपडिमाइ विरइउं पूअं । चउविहसंघसमरकं, सयमेवारत्ति कुणइ ॥७॥ तत्तो नयरंमि रहो, परिसकइ कुंजरेहिं जुत्तेहिं । ठाणे ठाणे पडमंडवेसु विउलेसु चिटुंतो ॥८॥" इत्यादि ।
श्रीश्राद्धविधिप्रकरणम्
117