SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ स्थाने नव्यचैत्यांर्चायात्रासाधर्मिकवात्सल्यादिनिर्वर्त्तनं, पर्वणोऽर्वाग् दिने पटहोघोषणापूर्व सर्वपर्वसुःसर्वजनेभ्यः सर्वाङ्गीणधमकर्मनिर्मापणं च तथा व्यधुर्यथैकच्छत्रीभूतश्रीनैनधर्ममहिम्ना सततमवहितष्ठिसुरसानिध्येन तेषां देशेष्वीतिदुर्भिक्षस्वपरचक्रभीतिव्याध्याशिवदौस्थ्याग्रुपद्रवास्तीर्थकरविहारभूमाविव स्वप्नेऽपि 'नाभूवन् । धर्ममहिम्ना हि किनाम ' दुस्साधमपि न सुसाधं ? एवं सुखधमैकमयीं राज्यश्रियं सुचिरं परिभुज्य'त्रयोऽपि सह प्रव्रज्य'माज्यतपोभिर्दागेव केवलज्ञानमुपाय॑ स्थाने स्थाने श्रेष्ठिदैवतवितन्यमानानःसमानमहिमानः प्रायो निजनिदर्शनोपदेशैरुक्मपि सर्वपर्वसु 'धर्मसाम्राज्यमुचैर्विस्तार्य 'नानाभव्यजनान् निस्तार्यनितिमियरति स्म । श्रेष्ठिसुरोऽप्यच्युतात् च्युतः मौढनृपीभूय भूयः पर्वमहिमश्रुत्या जाति स्मृत्वा दीक्षां गृहीत्वा तथैव निर्वृतः । इति पर्वतियौ कथा ॥ इत्येकादशगाथार्थः।। - इति श्रीतपागच्छाधिपभीसोमसुंदरसूरि-श्रीमुनिसुंदररि-श्रीजयचंद्रसरि-श्रीभुवनसुंदरसूरिशिष्य-भीरत्नशेखरसरिविरचितायां विधिकौमुदीनाम्न्यां श्रादविधिप्रकरणवृत्तौ पर्वकृत्यप्रकाशकस्तृतीयः प्रकाशः। श्राद्धविधिवृत्तौ तृतीयः प्रकाशः समाप्तः। లలలల లల లల లల లలకు ॥ अहम् ॥ अथ चतुर्थः प्रकाशः। उक्त पर्वकृत्यमथ चतुर्मासीकृत्यं गायानाह __ पश्चउमासं समुचिअ, निअमगहो पाउसे विसेसेण । येन परिग्रहपरिमाणं प्रतिपमं स्यात्तेन तभियमाः प्रतिचतुर्मासकं संक्षेप्याः । येन तु तन्त्र प्रतिपन्नं, तेनापि प्रतिचतुमसिक चतुर्मास्यां चतुर्मास्यां समुचिता योग्या ये नियमा अभिग्रहास्तेषां ग्रहः स्वीकारः कार्यः । प्रादृषि वर्षाचतुर्मास्यां पुनविषेशेण सविशेष समुचितनियमा प्राणाः । तत्र ये नियमा यदा बहुफला ' यभियाग्रहणे च बहुविराधनाधर्मापभ्राजनादिर्दोषस्ते' तदा समुचिताः । यथा वर्षासु शकटखेटननिषेधादि। वादलांम्ददृष्ट्यादिनेलिकादिपाते राजादनांम्रत्यागादि च। देशपुरग्रामजातिकुलवयोवस्याचपेक्षया वा समुचितत्वं नियमानां ज्ञेयं । ते च द्विधा, दुर्निर्वाहाः 'मुस निनां व्यापारिणां चाविरताना सचित्तरसशाकत्यागसामायिकस्वीकाराया दुनिर्वाहाः । पूजादानाचाश्च मुनिवाहाः । नि:स्वानां तु वैपरीत्यं । चित्तैकाम्ये च सर्वेषां मुनिर्वाहा एव । चक्रिशालिभद्रादीनां दीक्षादिकष्टवत् । तद्गदन्ति-"ता तुंगो मेरुगिरी, मयरहरो ताव होइ दुत्तारो । ता विसमा कज्जगई, जाव न धीरा पवज्जति ॥१॥" एवं च दुर्निर्वाहान् नियमान् स्वीक मशक्तोऽपि सुनिर्वाहान स्वीकुर्यादेव । यथा मुख्यवृत्त्या वर्षासु सर्वदिग्गमननिषेध उचितः । कृष्णकुमारपालादिवत् । तर्दशक्तौ यदा यासु दिक्षु गमनं विनापि निर्वहते, तदा तदिग्गमननिषेधं विधत्ते । एवं ' सर्वसचित्तादीनि परिहर्तुमशक्तौ यानि विनापि यदा निर्वहते तानि तदा परिहरति । तथा यस्य यत्र यदा वा यंत्र 'भवति यथा निःस्वस्य हस्त्यादि, मरुस्थलादौ नागवल्लीदलादि, स्वस्वकालं विनाम्रफलादि च, स तत्र तदा वा तन्नियमयति । एवमसदस्तुत्याग रंत्यादि महाफलं । भूयते हि राजगृहे प्रवजितं द्रमकं बहनेन त्यक्तमित्यादि जना हसन्ति । तद्धेतुकं गुरुभिर्विहाराय प्रोक्ते. ऽभयमन्त्रिणा स्वर्णकोटीत्रयं चतुष्पये राशीकृत्य जनानीकार्योक्तं । यः कूपादिजलज्वलनस्वीस्पर्श यावज्जीवं वर्जयति स एव एतद्ग्रहातु । तैर्विमृश्योक्तं । कोटीत्रयं त्यक्तुं शक्यं 'न तुजलादित्रयं । ततो मन्त्रिणोक्तं, “रे जडाः ! तर्हि द्रमकमुनिं किं हसत असौ'जलादित्रयत्यागात्कोटित्रयाधिकत्यागी।" ततो जनैः प्रतिबुद्धैः क्षमितोऽसौ । इत्यसद्वस्तुत्यागे ज्ञातम् । तस्मादैसंभवद्वस्तूनामपि नियमा ग्राह्याः, अन्यथा तु तत्तद्वस्त्वग्रहणेऽपि पशूनामिवाविरतत्वं तत्तनियमफलेन च वञ्च्यते । यदाह भर्तृहरिः-"क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः , सोढा दुस्सहशीतवाततपनक्लेशा. न तप्तं तपः । ध्यात वित्तमहर्निशं नियमितमाणैर्न मुक्तेः पदं, तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वश्चिताः ॥१॥"न हिसकृदभोज्यपि प्रत्याख्यानोच्चारं विनैकाशनादिफलं लभते । जनेऽपि न हि बहुद्रव्यस्य बहुसमयं व्यापारणेऽप्युक्तं विना कलान्तरं स्वल्पमप्यांप्यते । असंभवद्वस्तुनोऽपि नियमग्रहणे च कदाचित् कयश्चित्तद्योगेऽपि नियमबद्धस्तन गृहात्येवान्यथा गृह्णात्य॑पीति श्रीश्राद्धविधिप्रकरणम् 113
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy