________________
ज्जुवासामित्ति भबइ । पोसहपारणए साहुसंभवे निअमा अतिहिसंविभागवयं फासिस, पारेअव्वं । इति पोषधविधिः॥"
एवं पौषधादिना पर्वदिनमाराध्यं । अत्र ज्ञातमित्थं । धन्यपुरे धनेश्वरः श्रेष्ठी, धनश्रीः पत्नी, धनसारः सुतः। श्रेष्ठी परमाईतः सकुटुंबः प्रतिपक्ष षटपर्वी विशेषारंभवर्जनादिना, प्रतिमासं षट्पर्वी च, चाउद्दसमुद्दिपूनिमासिणीसु पडिपुण्णं पोसई पालेमाणा' इति पञ्चमाने तुलिकानगरीश्रादवर्णने मोक्तत्वात्, पौषधादिना यथाविधि पालयति । अन्यदाष्टमीपौषधे श्रेष्ठी निशि शून्यगृहे प्रतिमास्थः शक्रेण धर्मदायें प्रशंसितो मिथ्याक्मुरेण परीक्षितः । प्रथम मित्ररूपेण स्वर्णकोटिनिधिग्रहणानुमत्ययमत्येथे पृष्टस्तत: पत्नीरूपेणालिङ्गनादिनाप्यत्यये कदर्थितः । ततो निशीथेऽपि प्रातस्त्यमभाप्रभाकरोद्रमातपादिदर्शनपूर्व पौषधपारणाद्यथै प्रियापुत्रादितत्तदुक्तिश्रावणादिभिरपि स्वाध्यायस्मरणानुसारेण निशीथं जाननंभ्रान्तः । ततः पिशाचरूपेण कृत्योत्पाटनघातोच्छालनशिलास्फालनाब्धिमध्यक्षेपादिमतिकूलोपसगैः प्राणान्तिकैरपि न क्षुब्धः । यतः" दिग्गजकूर्मकुलाचलफणिपतिविघृतापि चलति वसुधेयम् । प्रतिपनममलमनसां, न चलति पुंसां युगान्तेऽपि ॥१॥" ततस्तुष्टोऽस्मीष्टं याचस्वेति तेनोक्तोऽपि ध्यानान्तरं न दधौ । ततस्तेनातितुष्टेनासङ्ख्यकोटिरैरत्नदृष्ट्यादिमहिमा तद्गृहे चक्रे । तन्महिम्नानेके जनाः पर्वपालने सादरा जज्ञिरे । विशिष्य च राज्ञः प्रसादचित्ता एको रजकस्तैलिकः कौटुंबिकश्च षट्पा स्वस्वारंभवर्जिनः , तांश्च श्रेष्ठी नव्यसाधर्मिकत्वेन पारणे सहभोजनपरिधापनयथाविलोक्यमाननिरर्गलद्रविणार्पणादिना भृशं सन्मानयति । यतः- “न यतं करेइ माया, नेव पिआ नेव बंधुवग्गो अ । जं वच्छलं साहम्मिआण सुस्सावगो कुणइ ॥१॥" तत्परिचयात् तेऽपि सम्यग्दृशो बभूवुः । यतः-" सुंदरजणसंसग्गी, सीलदरिदंपि कुणइ सीलढुं । जह मेरुगिरिविलगं, तणपि कणगत्तणमुवेइ॥१॥" अन्यधुश्च कौमुदीमहोभावीन्य(त्य)चैव धावनीयानीत्युक्त्वा चतुर्दश्यां राज्ञो राजीनां च वासांसि धावकस्य धावनायार्पितानि नृपनरैः । तेनोक्तं पर्वसु मम सकुटुंबस्य वस्त्रधावनाद्यारंभे नियमोऽस्ति तैरुक्तं " नृपाज्ञायां को नियमः ? आज्ञाभङ्गे पाणान्तिकोऽपि दण्डो भावी । " ततः स्वजनैरन्यैश्च भृशं प्रेरितोऽपि श्रेष्ठिनापि नृपदण्डे मा धर्माद्यपभ्राजनाहान्यादि भूदिति ‘रायाभिओगेणं' इत्यांकारादियुक्तिज्ञापनेऽपि दाढ्य विना किं'धर्मेणेति स धावक ईदृक्सङ्कटेऽपि धावनं नानुमेने । नृपनरैर्युग्राहितो राजापि रुष्ट आज्ञाभङ्गे प्रातःसकुटुंबोऽपि स निग्रहिष्यते इति वाग्, (अवग्) दैवानिशि शूलव्यथया तथा व्याथितो यथा पुरेऽपि हाहाकारो जज्ञे । एवं दिनत्रयं गतं । धर्मप्रभावानियूंढपर्वनियमः सोऽपि प्रतिपदि धावितानि, द्वितीयायां मार्गितान्यर्पितवान् । एवं गाढविलोक्यमानबहुतैलार्थ चतुर्दश्यां घाणीवाहनादेशे तेन पर्वनियमदायोक्तौ नृपकोपे परचक्रागमनससैन्यनृपसंमुखगमनयुद्धतज्जयादिवयग्र्येण । हालिकस्य त्वष्टमीमुहूर्ते नृपादिहलखेटनादेशे तथैव नृपकोपे तत्कालनिरन्तरवृष्टया सुखं पर्वनियमनिर्वाहोऽभूत् । एवमखण्डपर्वनियमपालनपुण्येन ते त्रयोऽपि क्रमान्मृताः । षष्ठे स्वर्गे सुराश्चतुर्दशसागरायुषो बभूवुः । श्रेष्ठी तु द्वादशे, चतुणो मैत्री । ' त्वया प्राग्वद्वयं प्रतिबोध्या' इति च स्वच्यवनसमये त्रिभिः श्रेष्ठिसुरः स्वीकारितः । त्रयोऽपि ततश्श्युताः पृथक् पृथग नृपकुलेऽवतीर्णा देशाधिपाः प्रौढनृपा धीरवीरहीराख्या जज्ञिरे। तत्र धीरपुरे एकस्य श्रेष्ठिनः पर्वसु सर्वदा सर्वत्र सर्वाङ्गीणो लाभः स्यादन्यदा तु हानिरपि । तेन ज्ञानी पृष्टः प्रोचे, 'त्वया पाग भवे दौस्थ्येऽपि नियमबद्धतया यथाशक्ति पर्वदिनाः सम्यक् पालिताः । अन्यदा'तु'क्षणिकत्वादियोगेऽप्यालस्यादिना प्रमद्वरोऽभूः पुण्यकार्ये । तेनात्र भवे तथा भवेत् । तदुक्तं-" न तं चोरा विलुम्पन्ति, न तं अग्गी विणासए । न तं जूएवि हारिजा, जं धम्ममि पमत्तओ॥१॥" ततः स सकुटुंबः पुण्यकृत्येषु नित्यमप्रमत्तःसर्वशक्त्या सर्वपाण्याराधयति । व्यवहारशुद्ध्या वाणिज्याद्यपि स्वल्पस्वल्पतरारंभं द्वितीयादिपर्वस्वेव विधत्ते न त्वन्यदा । ग्राहका अपि सर्वे विश्वस्तास्तस्यैव पार्चे व्यवहरंति न त्वन्येषां । एवं स्वल्पदिनैरनेककनककोटीश्वरो जज्ञे । “पोषकाः स्वकुलस्यैते, काककायस्थकुर्कुटाः । स्वकुलं घ्नन्ति चत्वारो, वणिग् श्वानो गजा द्विजाः ॥१॥" इति मात्सर्याद नार्यैरन्यैर्वणिम्भिर्रनेककनककोटीनिधिलब्ध इति पैशुन्ये कृते राज्ञा पृष्टः प्राह-मया स्थूलमृषावादादत्तादानादि गुरुपार्धे नियमितं । ततो धर्मधूर्तोऽयमिति वणिगगिरा राज्ञा स्वं लात्वा सपुत्रोऽप्यसौ स्वसौधे स्थापितो दध्यौ । अद्य पश्चमीपर्वसभावावश्यं मम कथमपि लाभ एव भावीति । प्रातर्नुपः सर्व स्वकोशं रिक्तं श्रेष्ठिगृहं च सर्वतोप मणिस्वर्णादिभिर्भूतं दृष्ट्रा विस्मितो विषण्णश्च तं क्षमयति स्म, प्रश्नयति स्म च-श्रेष्ठिन् ! कथमिदं धनं त्वद्गृहे 'गतं ? सोऽप्योह, स्वामित्रहमपि न जाने । परं पर्वणि 'पुण्यमहिम्ना मे लाभ एव भवतीत्यादि सम्यक् स्वरूपोक्तौ पर्वमहिमश्रुत्या जातजातिस्मृतिः क्षितिपतिरपि षट्पर्वीपालनं यावज्जीवं स्वीचक्रे । वर्धापयांचक्रे च तदैव कोशाध्यक्षेण कोशाः सर्वे संप्रत्येव पूर्यन्ते स्म । प्रादृषेण्यप्रवाहपूरेणेव पद्माकरा इति । ततोऽतिविस्मितमुदिते क्ष्मादायते चलत्कुण्डलायाभरणभासुरः सुरः स्फुटीभूय भाषते स्म । भो भूपते ! उपलक्षयसि'मा ' प्राग्भवमित्रं श्रेष्ठिसुरं ? मया माग्वाग्बद्धतया त्वत्मतिबोधाय पर्वादिनैष्ठिकमष्ठश्रीष्ठिसानिध्याय चैतद् व्यधायि, तस्माद्धर्मे मा कापि प्रमादीः । याम्यथो तैलिकहालिकनृपयो|धायेत्युक्त्वा गतस्तयोर्युगपत् प्राग्भवं स्वप्नान्तरदर्शयत् । ततस्तावपि जातजातिस्मृती सम्यक् श्रादधर्म विशिष्य च षट्पीमाराधयतः, त्रयोऽपि ते नृपाः श्रेष्ठिसुरगिरा स्वस्वदेशेऽमारिप्रवर्तनं, सर्वव्यसननिवर्त्तनं, स्थाने
112
श्रीश्राद्धविधिप्रकरणम