SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सव्वायरेण लग्गइ, जिणवरपूआतवगुणेसु ॥१॥" अत्र गुणा ब्रह्मव्रतादयः । अष्टाहिकामु चैत्राश्विनाष्टाहिके शाश्वत्यौ, तयोर्वैमानिकदेवा अपि नन्दीश्वरादिषु तीर्थयात्राद्युत्सवान् कुर्वन्ति । यदाहुः-" दो सासयजत्ताओ, तत्थेगा होइ चित्तमासंमि । अट्टाहिआइमहिमा, बीआ पुण अस्सिणे मासे ।। १॥ एआउ दोवि सासय, जत्ताउ करंति सव्वदेवावि । नंदीसरंमि खयरा, नरा य नियएसु'ठाणेसु ॥२॥ तह चउमासिअतिअगं, पज्जोसवणा य तह य इअछकं। जिणजम्मदिरककेवलनिव्वाणाइसु असासइआ॥३॥"जीवाभिगमे त्वेवमुक्तं " तत्थणं बहवे भवणवइवाणमंतरजोइसवेमाणिया देवा तिहिं चउमासिएहिं पज्जोसवणाए अ' अढाहिआओ' महामहिमाओ' करितित्ति ।" तिथिश्च प्रातः प्रत्याख्यानवेलायां यः स्यात् स प्रमाणं । सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात् । आहुरपि-"चाउम्मासिअवरिसे, परिकअपंचट्ठमीसु ' नायव्वा । ताओ तिहिओ जासिं, उदेइ सूरो न अण्णाओ॥ १ ॥ पूआ पच्चरकाणं, पडिकमणं तहय निअमगहणं च । जीए उदेइ सूरो, तीइ तिहीए उ काय ॥२॥ उदयंमि जा तिही, सा प्रमाणमिअरीइ कीरमाणीए । आणाभंगणवत्थामिच्छत्त विराहणं पावे ॥३॥" पाराशरस्मृत्यादावपि-" आदित्योदयवेलायां, या स्तोकापि तिथिर्भवेत् । सा संपूर्णेति मन्तव्या, प्रभूता नोदयं विना ॥ १॥" उमास्वातिवचःप्रघोषश्चैवं श्रूयते-"क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा । श्रीवीरज्ञाननिर्वाणं, कार्य लोकानुगौरह ॥१॥" अर्हतां जन्मादिपञ्चकल्याणकदिना अपि पर्वतिथित्वेन विज्ञेयाः, द्विव्यादिकल्याणकदिनाश्च विशिष्य। श्रूयते हि कृष्णमहाराजेन सर्वपर्वदिनान्याराधयितुमशक्तेन 'वर्षमध्ये स्वामिन्नुत्कृष्ट पर्वदिनमाराध्य किन्नाम' ? इति श्रीनेमी पृष्टः प्राह, “ महाभाग ! मार्गशीर्षशुक्लैकादशी जिनेन्द्रपञ्चकल्याणकी पवित्रिता । अस्यां पञ्चपञ्चभरतैरावतक्षेकल्याणकानां मीलने पञ्चाशत् कल्याणकानि स्युः" । ततः कृष्णन मौनपौषधोपवासादिना तद्दिनमाराद्धं । सतः प्रभात 'यथा राजा तथा प्रजा' इत्येकादशी सर्वजनेष्वाराध्यतया प्रसिद्धि प्राप । पर्वतिथिपालनं च महाफले शुभायुर्वन्धहेतुत्वादिना । यदागमः-" भय ! बीअपमुहासु पंचसु तिहीसु विहि धम्माणुढाणं किं फलं होइ ? गोयमा ! बहुफलं होइ । जम्हा एआसु तिहीसु पाएणं जीवो परभवाउअं समजिणइ, तम्हा तवोविहाणाइधम्माणुहाणं कायव्वं । जम्हा सुहाउअं समज्जिगइचि" । आयुषि बढे तु दृढधर्माराधनेऽपि बद्धायुर्न टलति । यथा श्रेणिकनृपस्य क्षायिकसम्यक्त्वसंभवेऽपि प्राक् सगर्भमृगीपाते पृथग् गर्भपाते स्वस्कन्धाभिमुखमीक्षणे निवदं नरकायुः। परसमयेऽपि पर्वसु स्नानमैथुनादि निषिद्धं । यदुक्तं विष्णुपुराणे-"चतुर्दश्यष्टमी चैव, अमावास्या च पूर्णिमा । पाण्येतानि राजेन्द्र ! रविसङ्कातिरेव च ॥१॥ तैलस्तीमांससंभोगी, पर्वस्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम पयाति नरकं मृतः ॥२॥ मनुस्मृतावपि-अमावास्यामष्टमी'च, पौर्णमासी चतुर्दशीम् । ब्रह्मचारी भवेनित्यममृतौ स्नातको द्विजः ॥ ३॥" अतः पर्वावसरे सर्वशक्त्या धर्मे यतनीयं । अवसरे हि धर्मकृत्यं कृतं स्वल्पमप्यनल्पफलं पानभोजनादिवत् । यद्वैधकशास्त्रं-“शरदि यज्जलं पीतं, यद् भुक्तं पौषमाघयोः। ज्येष्टोपाढे च यत्सुप्त, तेन जीवन्ति मानवाः॥१॥ वर्षासु लवणममृतं, शरदि जळं गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वसन्ते गडश्चान्ते ॥२॥"पर्वमहिम्ना च पायो निर्धर्मिणामपि धर्मे, निर्दयानामपि दयायां, अविरतानामपि विरतौ, कपणानामपि धनव्यये, कुशीलानामपि शीले, निस्तपसामपि तपसि मतिर्भवति । दृश्यते चैतत्सर्वदर्शनेष्वपि संप्रत्यपि । तदाह" सो'जयउ जेण विहिआ, संवच्छरचाउम्मासियसुपश्वा । निबंधसाणवि हवइ, जेसि पभावाओ धम्ममई ॥१॥" ततः पर्वमु पौपधादि कार्यमेव । तत्र पौषधचातुर्विध्यादिस्वरूपं अर्थदीपिकायामुक्तमित्यत्र नोच्यते । पौषधं च त्रेधा, अहोरात्रदिवस-रात्रिपौषधभेदात् । तत्रायमहोरात्रपौषधविधिः। -" इह जम्मि दिणे सावओ पोस लेइ, तंमि दिणे घरवावारं वजिअ पोसहसालाए 'गहिअपोसहजुग्गोवगरणो पोसहसालं साहुसमीवे वा गच्छइ । तओ अंगपडिलेहणं करिअ उच्चारपासवणथंडिले पडिलेहिअ गुरुसमीवे नवकारपूव्वं वा ठवणायरियं ठावित्ता इरियं पडिक्कमिअ खमासमणेण वंदिअ पोसहमुहपत्ति पडिळेहेइ । तओ खमासमणं दार उद्भडिओ भणइ । इच्छाकारेण संदिसह भगवन् पोसहं संदि(दे)सावेमि । बीएण पोसई ठावमित्ति भणिअ नमुक्कारपुव्वं पोसहमुच्चारेइ । करेमि भंते पोसहं आहारपोसहं सव्वओ'देसओ वा, सरीरसकारपोसहं सबओ, बंभचेरपोसह सवओ, अव्वावारपोसह सव्वओ, चउबिहे पोसहे ठामि, जाव अहोरत्तं पज्जुवासामि, दुविहं तिविहेणं, मणेणं, वायाए, कारणं, न करेमि न कारवेमि, तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । एवं पुत्तिपेहणपुच्वं खमासमणदुगेण सामाइयं करिय, पुणो खमासमणदुगेण जइ वासारत्तो तो कट्ठासणगं, सेसट्टमासेसु पाउंछणगं संदिसाविअ खमासमणदुगेण सज्झायं करेइ । तओ पडिक्कमणं करिअ खमासमणदुगेण बहुवेलं संदिसाविअ खमासमणपुव्वं पडिलेहणं करेमित्ति भणिय, मुहपुत्तिं पाउँछणगं परिहरणगं च पहिअ, साविआ पुण पुत्ती पाउंछणमुत्तरीअं 'कंचुगं साडि च पहिअ खमासमणं दाउं भणइ । इच्छकारी भगवन् पडिलेहणा पडिलेहावओ । तओ 'इच्छ' भणिअ ठवणायरि पहिअ, ठविअ खमासमणपुव्वं उवाहिमुहपत्तिं पेहिअ, खमासमणदुगेण संदिसाविअ वत्थकंबलाइ पडिलेहेइ । तओ पोसहसालं पमजिअ कज्जयं उद्धरिअ परिठविअ इरिअं पढिक्कमिअ गमणागमणमालोइअ खमासमणपुव्वं मंडलीइ साहुव्व सज्झायं क 110 श्रीश्राविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy