SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आहारमुवहिदेह, सव्वं तिविहेण वोसिरिअं ॥१॥" नमस्कारोचारपूर्वमनया गाथया त्रिः साकारांनशनस्वीकरणं पञ्चनमकारस्मरणं च स्वापावसरे काये। विविक्तायामेव च शय्यायां शयितव्यं न तु स्त्र्यादिसंसक्तायां । तथा सति सताभ्यस्तत्वाद्विषयप्रसङ्गस्योत्कटत्वाच्च वेदोदयस्य पुनरपि तद्वासनया बाध्येत जन्तुः। यथोक्तं-" यथाग्निसन्निधानेन, लाक्षाद्रव्यं विलीयते । धीरोऽपि कृशकायोऽपि, तथा 'स्त्रीसन्निधौ नरः ॥१॥" ' यद्वासनायुक्तश्च शेते तद्वासनायुक्त एव लभ्यते' यावन्न प्रतिबुध्यते' इत्याप्तोपदेशः । अतः सर्वथोपशान्तमोहेन धर्मवैराग्यादिभावनाभावितेनैव च निद्रा कायों, यथा कुस्वप्नदुःस्वप्नोपलंभादिपरिहारेण धर्ममयस्वप्नोपलं बायेव स्यात् । एवं निस्सङ्गताद्यात्मकत्वे सुप्तस्य परायत्तत्वादापदां बहुत्वादायुषः सोपक्रमात्फर्मगतेविचित्रत्वाच्च। जात्वायुःसमाप्तिः स्यात्तदापि सुगतिभागेव भवेत्, ‘अन्ते या मतिः सा गतिः' इति वचनात् । कपटसंयतहतपौषधिकोदायिनृपवत् । अथोत्तरार्दव्याख्या-ततः परिणतायां रात्रौ निद्राया उपरमे व्यपगमे सत्यनादिभवाभ्यासरत्योल्लसदुर्जयकामरागजयार्थ स्त्रीतनोरशुचित्वादि विचिन्तयेत् । आदिशब्दाज्जम्बूस्वामिस्थूलभद्रादिमहर्पिसुदर्शनादिसुश्राद्धादीनां दुष्पालशीलपालनैकाग्रतां कषायादिदोषजयोपायं भवस्थितेरत्यन्तदुःस्थतां धर्म्यमनोरथांश्च विचिन्तयत् । तत्र स्त्रीशरीरस्यापावित्र्यजुगुप्सनीयत्वादि सर्व प्रतिं । तदुक्तं पुज्यश्रीमुनिसुन्दरमूरिपादैरध्यात्मकल्पद्रुमे -"चास्थिमजान्त्रवसांस्रमांसामेध्यायशुर्यस्थिरपुद्गलानाम् । स्त्रीदेहपिण्डाकृतिसस्थितेषु, स्कंधेषु किं पश्यसि ? रम्यमात्मन् ! ॥१॥ विलोक्य 'दूरस्थममेध्यमल्पं, जुगुप्ससे ' मोटितनासिकस्त्वम् । भृतेषु तैरेव विमूढ ! योषावपुष्षु तत्किं कुरुषेऽभिलाषम् ? ॥२॥ अमेध्यभखाबहुरन्ध्रनिर्यन् , मलाविलोद्यत्कृमिजालकीर्णा । चापल्यमायानृतवञ्चिका स्त्री, संस्कारमोहान्नरकाय भुता॥३॥" सङ्कल्पयोनिश्च त्रैलोक्यविडंबकोऽपि सङ्कल्पत्यागे सुजय एव । तदाह-" काम! जानामि ते रूपं, संकल्पांत्किल जायसे । न त्वां सङ्कल्पयिष्यामि, न च मे त्वं भविष्यास ॥१॥" नवपरिणीतमहेभ्यकन्याष्टकमतिबोधयितनवनवतिकाञ्चनकोटिपरिहर्तश्रीजम्बूस्वामिनः सार्धद्वादशकाञ्चनकोटीः , कोशावेश्यासक्त्या विलसितवतः सपत्तिश्रामण्यस्य कोशाहर्ये । चतुर्मासीस्थितस्य श्रीस्थूलभद्रस्यांभयाराज्ञीविहितविविधानुकूलपतिकूलोपसगैरपि स्वल्पमप्य॑क्षुब्धमनस्कसुदर्शनश्रेष्ठ्यादेश्च दृष्टान्ताः स्पष्टा एवेति न वितन्यन्ते । कषायादिदोषजयोपायस्तत्तद्दोषप्रतिपक्षसेवादिना स्यात् । तत्र क्रोधः क्षमया, मोनो मार्दवेन, माया आर्जवेन, लोभः सन्तोषेण, रोगो वैराग्येण, द्वेषो मैत्र्या, मोही विवेकेन, कामः स्त्रीशरीरांशौचभावनया, मत्संरः परसंपदुत्कर्षेऽपि चित्तांबाधया, विषयाः संयमेन, अशुभमनोवाकाययोगाः गुप्तित्रयेण, प्रमादोऽप्रमादेन, अंविरतिर्विरत्या च सखेन जीयन्ते । न चेदं तक्षकशीर्षमाणिग्रहणपीयूषपानाद्युपदेशवदेशक्यानुष्ठानमित्यांशंक्यं । मुन्यादीनां तत्तदोपपरिहारेण । गुणैकमयत्वभवनदर्शनात् । दृढमहारिचिलातीपुत्ररौहिणेयादीनां ज्ञातान्यपि प्रतीतान्येात्र । उक्तमपि-“गताये पूज्यत्वं प्रकृतिपुरुषा एव खलु ते, जना दोषत्यागे जनयत समुत्साहर्मतुलम् । न साधूनां क्षेत्र न च भवति नैसर्गिकमिदं. गुणान् 'यो यो धत्ते स स भवति साधुभेजत तान् ॥ १ ॥ हो ! स्निग्धसखे ! विवेक ! बहुभिः प्राप्तोऽसि पुण्यर्मया, गन्तव्यं कतिचिद्दिनानि भवता नास्मत्सकाशात् कचित् । त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः, को जानाति पुनस्त्वया सहमम स्याद्वान वा सङ्गमः ॥२॥ गुणेषु यत्नसाध्येषु यत्ने चात्मनि संस्थिते । अन्योऽपि गुणिनां धुर्य इति जीवन् सहेत कः ? ॥३॥ गौरवाय' गुणा एव न तु ज्ञातेयडम्बरः। वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः॥४॥ गुणैरेव महत्वं स्याबौङ्गेन वयसापि वा । दलेषु केतकीनां हि लघीयस्सु सुगन्धिता ॥ ५ ॥" कषायाधुत्पत्तिनिमित्तद्रव्यक्षेत्रादिवस्तुपरित्यागेनापि तत्तदोषपरित्यागः स्यात् । उक्तंच-" तं वत्थु मुत्तव्वं, जं पइ उप्पज्जए कसायग्गी। तं वत्थु घेत्त, जत्थोवसमो कसायाणं ॥१॥"श्रयतेऽपि चण्डरुद्राचार्यः। प्रकृतिक्रोधनः क्रोधोत्पत्तिपरित्यागाय शिष्येभ्यः पृथगेव स्थित्यादि चक्रे । भवस्थितरत्यन्तदुःस्थता गतिचतुष्केऽपि प्रायो दुःखमाचुर्यानुभवाद्भावनीया । तत्र'नारकतिरचा दुःखैकबाहुल्यं प्रतीतं । आह च-" सत्तसु खित्तवियणा, अन्नुनकयावि पहरणेहिं विणा । पहरणकयावि पंचसु तिसु परमाहम्मिअकयावि ॥१॥ अच्छिनिमीलणमित्तं, नत्थि सुहं दुकमेव अणुबदं । नरए नेरइयाणं, अहोनिसं पच्चमाणाणं ॥२॥ ज नरए नेरइआ, दुरूं पावंतिगोअमा ! तिकं । तं पुण निगोअमज्झे, अणंतगुणियं मुणेअव्वं ॥ ३ ॥ तिरिआकसंकुसारा।" इत्यादि । मानुष्यकेऽपि गर्भजन्मजरामरणविविधार्तिव्याधिदौस्थ्याद्युपद्रवैर्दुःखितैव । देवत्वेऽपि च्यवनदास्यपराभवेदिभिः। ऊचे च"मुईहिं अग्गिवण्णाहिं, संभिण्णस्स निरंतरं। जारिसं गोअमा'दुरकं, गब्भेअद्वगुणं तओ ॥१॥ गब्भाओनीहरंतस्स, जोणीजंतनिपीलणे । सयसाहस्सिों दुस्कं, कोडाकोडिगुणं पि' वा ॥२॥ चारगनिरोहवहवंधरोगधणहरणमरणवसणाई । मणसंतावो अयसो, विग्गोवणया'य' माणुस्से ॥३॥ चिंतासंसावेहि अ, दारिद्दरुआहिं' दुप्पउत्ताहिं । लद्धण वि माणुस्सं, मरंति केई सुनिम्विन्ना ॥ ४ ॥ ईसाविसायमयकोहमायलोभोहिं । एवमाईहिं । देवा वि समभिभूआ, तेसिं कत्तो सुहं नाम ॥ ५ ॥ इत्यादि । धर्म्यमनोरथभावनां चैवमैभ्यधुः-" सावयघरंमि वरहुन्ज, चेडओ नाणदंसणसमेओ । मिच्छत्तमोहिअमई, मा राया'चकवट्टी वि ॥१॥ कइआ'संविग्गाणं, गीअत्थाणं गुरूण पयमूळे । सयणाइसंगरहिओ, पव्वजं 'संपवज्जिस्सं ॥२॥ 108 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy