________________
द्रव्यतः पुत्रकलत्रदुहित्रादीनां यथायोग्यं वनादि ददाति । पोष्यपोषक इति वचनात् । भावतस्तु तेषामेव धर्मदेशनां करोति। अनुशासनं सुस्थितदुःस्थितत्वादिचिन्तनमित्यर्थः । अन्यत्राप्युक्तं-" राशि राष्ट्रकृतं पापं, राज्ञः पापं पुरोहिते । भरि स्नीकृतं पापं, शिष्यपापं गुरावपि ॥१॥" कलत्रपुत्रादयो हि गृहकृत्यवैयग्यप्रमादबहुलत्वादिना गुरुपाबै धर्ममशृण्वन्तोऽप्येवं धर्मे पायः प्रवर्त्तन्ते । यथा धन्यश्रेष्ठिनः, स हि धन्यः पुरस्थो गुरूपदेशैः सुश्रादीभूतः सायं नित्यं प्रियाचतुःपुत्रादीन् प्रतिबोधयति । क्रमात् पिया त्रयः पुत्राश्च प्रतिबुद्धाः । तुर्यस्तु नास्तिकवत्पुण्यफलं केत्यादिवादी न बुध्यते । श्रेष्ठिनः तत्मतिबोधार्तिभृशं । अन्यदा पातिवेश्मिकी सुश्राविका वृद्धा पान्तसमये तेन नियमिता, “सुरीभूतया त्वया मत्सुतः प्रतिबोध्य" इति सङ्केतिता मृता सौधर्मे सुरीभूता' स्वदिव्यर्द्धिदर्शनादिना तत्सुतमबुधत् । एवं गृहाधिपेन 'मियापुत्रादयः प्रतिबोध्याः। जात्वेवमपि यदि ते न प्रतिबुध्यन्ते, तदा गृहाधिपस्य न दोषः । यथोक्तम्-" न भवति धर्मः श्रोतुः । सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुझ्या वक्तुस्त्वेकान्ततो भवति ॥ १ ॥” इति नवमगाथार्थः॥
पायं अबंभविरओ, समए अप्पं करेइ तो निदं ।
निदोवरमे थीतणुअसुइत्ताई विचिंतिजा ॥१०॥ ततो धर्मदेशनानन्तरं समये रात्रिप्रथमयामाद्यतिक्रमर्द्धिरात्रादिरूपे ' शरीरसात्म्याधुचितशय्यास्थानं गत्वा विधिना निद्रामल्पां करोति । कीदृशः सन् । मायो बाहुल्येन अब्रह्म मैथुनं तस्माद्विरतः । गृहस्थेन यावज्जीवं ब्रह्मव्रतं पालयितुमशक्तेनापि पर्वतिथ्यादिबहुदिनेषु ब्रह्मचारिणव भाव्यं । नवयौवनवयःस्थेनापि ब्रह्मचर्यस्य महाफलत्वात् । महाभारतेऽप्युक्तं -" एकरात्र्युषितस्यापि'या'गतिब्रह्मचारिणः । न 'सा'ऋतुसहस्रेण वत्तं शक्या युद्धिष्ठिर !॥१॥" अत्र निद्रामिति विशेष्यं । अल्पामिति च विशेषणम् । सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्कामत इति न्यायादल्पत्वमत्र विधेयं न तु निद्रा, तस्या दर्शनावरणीयकर्मोदयेन स्वतः सिद्धत्वादप्राप्ते हि शास्त्रमर्थवदित्युक्तं प्राग् । बहुनिद्रो हि भवद्वयकृत्येभ्योऽपि परिभ्रव्येत् । तस्करवैरिधुदुर्जनादिभ्यश्च सुलभपरिभवः स्यात् । अल्पनिद्वत्वं च महानुभावलक्षणं । यदा-" थोहारो' थोवभणिओ अजो होइ थोपनिदो अ। थोवोपहिउवगरणो, तस्स'हु देवावि पणमंति ॥१॥"
निद्राविधिश्चायं नीतिशास्त्रायनुसारेण-"खवा जीवाकुला इस्वां भग्ना' कष्टां मलीभसाम् । प्रतिपादान्विता वविदारुजाताच संत्यजेत् ॥१॥" शयनासनयोः काष्ठमाचतुर्योगतः शुभम् । पञ्चादिकाष्ठयोगे'तुनाशः स्वस्य कुलस्य च ॥२॥ पूज्योर्ध्वस्थो न नर्दािधिन चोत्तरांपराशिराः। नानुवंशं न पादान्तं नागदन्तः स्वपेत् पुमान् ॥३॥ देवताधाम्नि वल्मीके भूरुहाणां तलेऽपि च । तथा प्रेतवने चैव'मुप्यान्नापि विदिशिराः ॥४॥ निरोधभङ्गमाधाय परिज्ञाय 'तदास्पदम् । विमृश्य जलमासन्नं कृत्वा द्वारनियन्त्रणम् ॥ ५॥ इष्टदेवनमस्कारनष्टपिमृतिभीः शुचिः । रक्षामन्त्रपवित्रायां शय्यायां पृथुताजुषि ॥ ६ ॥ सुसंवृतपरीधानः सर्वाहारविवर्जितः । वामपार्थे 'तु' कुर्वीत निद्रा भद्राभिलाषुकः ॥ ७ ॥ विशेषकम् ॥ क्रोधभीशोकमद्यस्त्रीभारयानाध्वकर्मभिः । परीक्लान्तैरतीसारश्वासहिकादिरागिभिः ॥८॥ वृद्धबालावलक्षीणैस्तृशूलक्षतविहलैः। अजीर्णिममुखैः कार्यो 'दिवास्वापोऽपि कहिचित् ॥९॥ युग्मम् ॥ वातोपचयरौक्ष्याभ्यां रजन्याल्पिभावतः । दिवास्वापः सुखी ग्रीष्मे सोऽन्यदा' श्लेष्मपित्तकृत ॥ १०॥ अत्यासक्त्याऽनवसरे निद्रा नैव प्रशस्यते । एषा सौख्यायुषी कालरात्रिवत् पणिहन्ति यत् ।। ११ ॥ प्राकशिरःशयने विद्या धनलाभच दक्षिणे । पश्चिमे प्रबला चिन्ता मृत्युहानिस्तथोत्तरे ॥ १२ ॥" आगमोक्तविधिस्त्वेवं । चैत्यवन्दनादिना देवगुरुनमस्कारकरणं । चतुर्विधाहारादिपत्याख्यानोच्चारणं । ग्रन्थिसहितेन सर्वव्रतसंक्षेपरूपदेशावकाशिकव्रतस्वीकरणं च । यदुक्तं दिनकृत्ये-"पाणिवहमुसदित्तं, मेहुणदिणलाभणत्थदंडं च । अंगीकयं च, मुत्तुं, सव्वं 'उवभोगपरिभोगं ॥१॥ गिहमज्झं 'मुत्तणं, दिसिगमणं मुत्तुमसगजूआई । वयकाएहिं न करे, न कारवे गठिसहिएणं ॥२॥"'पाणिवहत्ति 'मुक्त्वा' मशकयुकादीनिति वाक्यं द्वितीयगाथोक्तं प्राणातिपातमित्यत्र संबध्यते । ततश्च पाणातिपातमनियतमेकेन्द्रियमशकयूकादीन मुक्त्वा आरंभजसापराधत्रसविषयं च । एवं मृषावादित्तादानमैथुनान्यपि । तथा दिनलाभ प्रातर्विद्यमानः परिग्रहो दिनलाभश्च न नियमितः, इदानीं तु तमपि नियच्छामीत्यर्थः । अनर्थदण्डं तथाङ्गीकृतं शयनाच्छादनादि मुक्त्वा' सर्वमुपभोगपरिभोगं गृहमध्यं मुक्त्वा दिशिगमनं च मनसो निरोध्धुमशक्यत्वाद्वाकायाभ्यां न करोमि न कारयामि च' प्रन्थिसहितेन यावन्तं कालं ग्रन्थि न मोचयामीत्यर्थः । एवं देशावकाशिकस्वीकरणं महाफलं, महर्षिवद् भृशं निःसङ्गतादिहेतुत्वात् । तच्च वैद्यजीववानरेण यथा प्राणान्तेऽपि नियूदं निस्तुलं च तत्फलमोगामिभवे प्राप्तं । तथान्येनापि विशेषफलार्थिना मुख्यवृत्त्या निर्वाह्यं । तथा निर्वाहुमशक्तौ त्वनाभोगायोकारचतुष्क चतुर्थाकारेण प्रदीपनादिसङ्कटे तन्मोचनेऽपि न भङ्गः। वैद्यजीववानरवृत्तान्तस्त्वस्मत्कृतादीचारप्रदीपग्रन्थादेवधार्यः । तथा चतुःशरणप्रतिपत्तिः । सर्वजीवराशिक्षमणाष्टादशपापस्थानकव्युत्सर्जनं, दुष्कृतगईणं, सुकृतानुमोदनं । “ जइ मे हुज्ज पमाओ, इमस्स देहस्स ' इमाइ रयणीए । श्रीश्राद्धविधिप्रकरणम्
107