________________
माणैठकस्य चक्षुषी आनीय संदधौ । स 'एडकाक्ष' इति ख्यातः । प्रत्ययदर्शनात् श्राद्धोऽजनि । कौतुकाचं द्रष्टुं लोके समागच्छति तमाम्ना पुरमप्येडकाक्षं जज्ञे । तद्दर्शनाद् बहवः श्रादा जझिरे । इति दिवसचरमे एडकाक्षबातम् ॥ ततः सन्ध्यायामन्त्यमुहूर्तरूपायामस्तमयति सूर्येऽर्द्रबिम्बार्दर्वाक् पुनरपि तृतीयवारं यथाविधि जिनं पूजयति । इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरि-श्रीभुवनसुन्दरसूरिशिष्यश्रीरत्नशेखरसूरिविरचितायां श्रीविधिकौमुदीनाम्न्यां श्राद्धविधिप्रकरणवृत्ती
दिनकृत्यप्रकाशकः प्रथमः प्रकाशः ।
25
श्राद्धविधिटत्तौ प्रथमः प्रकाशः समाप्तः -- - - - -
॥ अहम् ॥
द्वितीयः प्रकाशः उक्तं दिनकृत्यं सांप्रतं रात्रिकृत्यमाह-'पदिकमइ चि' ततः श्रादः साधुपार्षे पौषधशालादोवाप्यतनपा ममाजेनापूर्व सामायिककरणादिविधिना प्रतिक्रामात, षद्विधावश्यकलक्षणं प्रतिक्रमणं करोति । तत्र स्थापनाचार्यस्थापनामुखवनिकारजोहरणादिधर्मोपकरणग्रहणसामायिककरणादिविधिः श्रादमतिक्रमणसूत्रवृत्तौ कश्चिदुक्त इत्यत्र नोच्यते । प्रतिक्रमणं च'सम्यक्त्वादिसर्वातिचारविशुख्यर्थ प्रतिदिवसमुभयसन्ध्यमाप विधेयं श्रादेनाभ्यासाद्यय च । यथाभद्रकेणापि जातु निरतिचारत्वेऽपि तृतीयवैद्यौषधकल्पमवश्यं कर्त्तव्यमिदं । यदार्ष-"सपडिकमणो धम्मो, पुरिमस्स य पच्छिमस्स या जिणस्स। मझिमगाण जिणाणं, कारण जाए पडिक्कमणं ॥१॥"'कारणजाए चि' अतीचाराभावे पूर्वकोव्यामपि न मतिक्रामन्ति, अतीचारे मध्याह्नेऽपि कुर्युरित्ययः । “ वाहिमवणेइ भावे, कुणइ अभावे' तयं तु पढमंति। बिइअमवणेइ न कुर्णइ, तइअंतु रसायणं होइ ॥ २ ॥ ' रसायणं ति" रसायनं सद्भावे व्याधि हरति । तदभावेऽपि सर्वाङ्गीणपुष्टिसुखबलवृदिहेतुरनागतव्याधिप्रतिबन्धकं च । एवं प्रतिक्रमणमपि सद्भावेऽतिचारान् विशोधयति । तदभावे चारित्रधर्मपुष्टिं करोति । अत्र कविदाह-श्रावकस्यावश्यकचूर्युक्तसामायिकविधिरेव प्रतिक्रमणम् । षद्विधत्वस्योभयसन्ध्यमवश्यकरणीयत्वस्य चात्रैव घटमानत्वात् । तथाहि-“सामायि इयो पतिक्रम्य कायोत्सर्ग च विधाय चतुर्विंशतिस्तवं भाणत्वा वन्दनच दत्वा श्रावकः प्रत्याख्यानं करोति" इति पविधत्वम् । “सामाइअमुभयसंझं" इति वचनादस्य च कालनयत्यमिति। अत्रोच्यतेन समीचीनमिदं षड्विधत्वस्य कालनियमस्य चात्राँसिद्धत्वात् । तत्र तावत्तवाभिमायेणापि चूर्णिकृता सामायिकर्यापथमतिक्रमणवन्दनकान्येव साक्षाहर्शितानिन शेषाणि।तत्रापीर्यापयतिक्रमणं गमनागमनविषयं नोवश्यकतुर्याध्ययनरूपम्। “गमणागमणविहारे, सुत्ते वा सुमि णदंसणे राओ।नावा नइसंतारे, इरिआवहिआपडिक्कमणं ॥१॥" इत्यादिवचनात् । अथ साध्वनुसारेण श्रावकस्थैर्यापथपतिक्रमणे कायोत्सर्गचतुर्विंशतिस्तवावपि दर्यते । तर्हि तदनुसारेण किंन प्रतिक्रमणमपि तस्योच्यते । किंच-" असइ साहुचेइयाणं पोसहसालाए वासगिहे वासामाइयं वा आवस्सयं वा करेइ" इत्यावश्यकचूर्णावपि सामायिकादावश्यकं पृथगुक्तं। तथा सामायिकस्य नकालनैयत्यम् । “जत्य वा वीसमइ अत्थइवा निव्वाचारो सव्वत्थ करेइ" तथा "जाहे खणिोताहे करेइ तो सेनभन्जई" इति चूर्णिवचनमामाण्यात् । 'सामाइअमुभयसंझं' इति तु सामायिकमतिमापेक्षं, तत्रैव तत्कालनियमस्य श्रूयमाणखात् । अनुयोगदारसूत्रेतु स्फुटं श्रावकस्यापि प्रतिक्रमणमुक्तं । यथा-"समणे वा समणी वासावए वा साविआवातचित्ते तम्मणे तल्लेसेतदज्यवसिएतचिव्वज्झवसाए तदहोवउत्ते तदप्पिअकरणे तब्भावणभाविए उमओ कालमोवस्सयं करेइ"। तथा तत्रैव-"समणेण सा य, अवस्सकायब्वयं हवइ जम्हा । अंतो' अहोनिसस्स य तम्हा 'आवस्सयं नाम ! १॥" तस्मात्साधुवत् श्रादेनापि श्रीसुधर्मस्वाम्यादिपूर्वाचार्यपरंपरायातं प्रतिक्रमणं कार्यम् । मुख्यतच्या द्विसन्ध्यं दिवसनिशाकृतपातकविशुदिहेतुत्वेन महाफलत्वात् । यदभ्यषिमहि-"अघनिष्क्रमणं भावद्विषदोक्रमणं च सुकृतसंक्रमणम् । मुक्तः क्रमणं कुर्याद् द्विःप्रतिदिवसं प्रतिक्रमणम् ॥१॥"
104
श्रीश्राद्धविधिप्रकरणम