SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ बलारोग्यं न मुश्चति ॥ १८ ॥ आदौ मन्दाग्निजननं' मध्ये पीतं रसायनम् । भोजनान्ते जलं पीतं' तज्जलं विषसन्निभम् ॥ १९ ॥ भोजनानन्तरं सर्वरसलिन पाणिना । एक प्रतिदिनं पेयो'जलस्य'चुलकोऽङ्गिना ॥ २० ॥ न पिबेत्पशुवत्तीयं पीतशेषं च वर्जयेत् । तथा नञ्जिलिना पेयं पयः पथ्यं मितं यतः॥२१॥ करेण सलिलाट्टैण नगण्डौ'नापरं करम् । नेक्षणे च स्पृशेव किन्तु स्पष्टव्ये जानुनी श्रिये ॥ २२ ॥ अङ्गमर्दननीहारभारोत्क्षेपोपवेशनम् । स्नानाधं च कियत्कालं भुक्त्वा कुयोन 'बुदिमान् ॥ २३ ॥ भुक्त्वोपविशतस्तुन्दं बलमुत्तानशायिनः । आयुर्वामकटीस्थस्य मृत्युर्धावति धावतः ॥ २४ ॥ भोजनानन्तरं चामकटिस्थो घटिकाद्वयम् । शयीत निद्रया हीनं यदा पदशतं व्रजेत् ॥ २५॥" आगमोक्तविधिस्त्वेवम्-“निरवजाहारेणं, निजीवेणं परितमीसेणम् । अत्ताणुसंधणपरा, सुसावगा' एरिसा इंति ॥१॥ असरसरं अचबचवं, अ बिअं'अपरिसाडिं । मणवयणकायगुत्तो, भुंजइ साहुन्न उवउत्तो ॥२॥ कडपयरच्छेएणं, भुत्तव्वं अहवसीहखइएणं । एगेण अणेगेहि व, वज्जित्ता धूमइंगालं ॥३॥ जह' अभंगणलेवा, सगडकवणाणजुचिओ' हुंति । इअसंजमभरवहणट्टयाइ साहूण आहारो॥४॥ तित्तगं व कडुरं व कसायं, अंबिलं च महुरं लवणं वा । एअलद्धमन्नपउत्तं, महुघयं व अँजिज्ज संजए' ॥५॥ अहवन जिमिज रोगे, मोहुदए। सयणमाइउवसग्गे । पाणिदयातवहेऊ, अंते तणुमोअणत्थं च ॥६॥" इदं साधुमाश्रित्योक्तं श्रादमाश्रित्यापि यथाई ज्ञेयं । अन्यत्राप्युक्तं-"देवसाधुपुरस्वामिस्वजनव्यसने सति । ग्रहणे च न भोक्तव्यं शक्तौ सत्यां विवेकिना ॥१॥"'एवं अजीर्णप्रभवा रोगाः' इत्यजीर्णे। तथा-"बलावरोधि निर्दिष्टं 'ज्वरादौ लंघनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामक्षतज्वरान् ॥ १ ॥” इति ( इत्यायुक्तेः ) ज्वराक्षिरोगादौ, तथा देवगुरुवन्दनाद्ययोगे, तथा तीर्थगुरुनमस्करणविशेषधर्मानीकरणमौढपुण्यकार्यमारंभादिदिनेष्वष्टमीचतुर्दश्यादिविशेषपर्वस च भोजनं त्याज्यम। क्षपणादितपसोऽत्र परत्रापि बहुगुणत्वात् । यत:-" अथिरं पि थिरं वकं पिउज्जु दुल्लहं पितह सुलहं । दुस्सपि सुसज्जं, तबेण संपज्जए कजं ॥१॥" वामदेवचक्रवादीनां तत्तद्देवसेवकीकरणाचैहिककार्याण्यप्यष्टमादितपसा सियन्ति न वन्यथा। इति भोजनविधिः। नमस्कारस्मरणेनोत्थितश्चैत्यवन्दनया देवान् गुरूंश्च ययायोगं वंदते।सर्व चेदं 'सुपत्तदाणाइजुत्ति' इत्यत्रोक्तादिशहेन भूचितं मन्तव्यं । अथोत्तरार्दव्याख्या-भोजनानन्तरं प्रत्याख्याय दिवसचरिमं ग्रन्थिसहितादि वा प्रत्याख्यानं गुर्वादेर्वन्दनद्वयमदानपूर्वमन्यथा वा कृत्वा, गीतार्थानां यतीनां गीतार्थश्रादसिद्धपुत्रादीनां वा अन्तिके समीपे कुर्यात् स्वाध्यायं वाचना-पृच्छनापरावर्तना-धर्मर्कथानुमेक्षालक्षणं यथायोगं । तत्र निर्जरार्थे यथायोग्यं सूत्रादेर्दानं ग्रहणं च वाचना १। तस्मिंश्च शङ्किते गुरोः पृच्छनं पृच्छना २ । पूर्वाधीतस्य सूत्रादेरविस्मृत्याद्यर्यमभ्यासः परावर्त्तना ३ । जंबूस्वाम्यादिस्यविरचरितस्योकर्णनं धर्मकथा ४। मनसैव सत्रादेरनुस्मरणमनप्रेक्षा ५। अत्र च तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेदिति श्रीयोगशास्त्रोक्तेः । श्रीगुरुमुखश्रुतशास्त्रार्थरहस्यपरिशीलनारूप: स्वाध्यायो विशेषकत्यतया झेयः । स चात्यन्तगुणहेतुः । यतः"सज्झाएण'पसत्यं, माणं जाणइ असन्चपरमत्यं । सज्झाए वहतो, खणे खणे जाइ वेरग्गं ॥१॥" पश्चविधस्वाध्यायदृष्टान्ताधाचारमदीपप्रन्ये व्यवृण्महीयंत्र नोक्तमित्यष्टमगाथार्थः। संझाइ, जिणं पुणरवि, पूयइ पडिक्कमइ कुणइ तह विहिणा। विस्समणं सज्झायं, गिहं, गओ तो कहइ धम्मं ॥ ९ ॥ व्याख्या- उत्सर्गतः श्रावकेणैकवारभोजिनैव भाव्यं । यदभागि—" उस्सगेण तु सट्टो अ, सचित्ताहारवजओ। इक्कासणगभोई अ, बंभयारी तहेव य ॥१॥" यश्चैकभक्तं कर्तुं न शक्नोति स दिवसस्याष्टमे भागेऽन्तर्मुहर्चद्वयलक्षणे । यामिनीमुखादौ तु रजनीभोजनमहादोषप्रसङ्गादन्त्यमुहर्दिागेव वैकालिकं करोति । उत्सूरे रात्रौ च भोजनेऽनेके स्वरूपं सदृशान्तं मत्कृतार्थदीपिकातोऽवधार्यम । वैकालिकानन्तरं च यथाशक्ति चतुर्विधाहारं त्रिविधाहारं द्विविधाहारं वा दिवसचरमंसूर्योद्गमान्तं प्रत्याख्याति । मुख्यवृत्त्या दिवसे सति द्वितीयभने रात्रावपि । ननु दिवसचरमं निष्फळमेकासनादिकेनैव गतार्थत्वात् ? नैवं । एकास(श)नादिकं संष्टायांकारम्, एतच्चतुराकारम् , अत आकाराणां संक्षेपकरणात्सफलमेवेदम् । निपिद्धरात्रिभोजनानामपि दिवसशेषे क्रियमाणत्वात्स्मारकत्वाच्च । फलवदेवेत्यावश्यकलघुछत्तौ । इदं च सुकरं बहुफलं च । दशार्णपुरे भाविका वैकालिकं कृत्वा दिवसचरमं प्रत्यहं प्रत्याख्याति । तत्पतिश्च मिथ्याक् सायंकृतवैकालिको न हि कश्चिद्रात्रौ Sक्के इति महत्पत्याख्यानमिदमित्याद्युपहसति । अन्यदा तेनापि दिवसचरमं प्रत्याख्यातं भक्ष्यसीति पत्न्या निवारणेपि, रात्रौ सम्यग्दृष्टिसुरी परीक्षाशिक्षार्थ स्वसरूपेण घृतपूरादिलंभनमानिन्ये । पत्न्या स निषिद्धोऽपि लोल्यात्तत्वादन देवतया तथा शीर्षे महतो यथा दृग्गोलौ भुवि पेततुः । मापयशो भावीति कायोत्सर्गे श्रादी तस्थौ । ततस्तद्विरा सुरी मार्य श्रीश्राद्धविधिप्रकरणम 103
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy