SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ स्वं पदमासदत् ॥ ७३७ ॥ अयो कथश्चिदापृच्छच पृथिवीशं । कुमारराद् । दाभ्यां मियाभ्यां सहितः प्रतस्थे स्वपुरं प्रति ॥ ७३८ ॥ सैप संप्रेषणांयातसामन्तसचिवैर्वृतः । बुबुधेऽपि ' बुधर्मार्गे भूपभूरिभ्यभूरपि ॥ ७३९ ।। स्थाने स्थाने मार्गभूपैः स कृती कृतसत्कृतिः । क्रमात् कियदिनै रत्लविशाला 'माप्तवान् पुरीम् ॥ ७४० ।। तां च दृष्ट्वा कुमारस्य ऋदिविस्तारसारताम् । समरसिंहोऽपि भूपोऽभ्यागाद्भरिमहेभ्ययुक् ॥ ७४१॥ वसुसारादिमहेभ्ययुक् परा पुरी ततः। प्रावीविशत्तमुशिः कटरे पुण्यपाटवम् ॥ ७४२ ॥ कृतेष्वयौचित्यकृत्येष्वौचितीचतुरः 'शुकः । कुमारस्याखिल वृत्वं नृपादीनां पुरोऽभ्यधात् ।। ७४३ ॥ श्रुत्वा' सत्वाद्भुतं तच्च ते चमञ्चक्रिरेतराम् । तत्पशंसकमखराः सर्वेऽप्युर्वीश्वरादयः॥ ७४४ ॥ प्राप्तमन्येद्यरुद्यानं विद्यानन्दगुरुत्तमम् । वन्दितुं रत्नसाराद्या नृपायाश्च मुदा ययुः ॥ ७४५ ॥ यहिदेशनामान्ते माकान्तेन सविस्मयम् । रत्नसारकुमारस्य पपच्छे प्राग्भवं गुरुः ।। ७४६ ॥ सोऽप्युवाच चतुर्बानी राजन् ! राजपुरे पुरे । धात्रीशपुत्रः श्रीसारः थीसारः सर्वथभिवत ॥ ७४७॥ श्रेष्ठिमन्त्रिक्षत्रियाणां पुत्रा मित्राणि तस्य च । तैः पुमथै त्रिभिः सोऽभादुत्साह इव जङ्गमः ।। ७४८ ॥ कलासु कौशलं मित्रत्रयस्य क्षत्रियात्मजः । दृष्ट्वा स्वं तज्जहं निन्दन्नुर्धानममानयत् ॥ ७४९ ॥ राशीगृहेऽन्यदा दत्तखात्रः कश्चित्सलोपत्रकः । बदचौरो भटैर्वध्यश्चादिष्टः क्रुद्धभूभुजा ।। ७५० ।। वधाये वधकैर्नीयमानश्च स कुरङ्गवत् । त्रस्तहम् ददृशे दैवात् श्रीसारेण कृपालुना ।। ७५१ मन्मातुर्द्रव्यहर्चायमिति हन्ताम्यन स्वयम् । इत्युक्त्वा घातकेभ्यस्तं लात्वा सोडगावहिः पुरात् ।। ७५२ ।। हृदयालुदेयालुस्तं स्तेनं ' स्तैन्यानिवार्य सः। ममोच। गुप्तत्याशु सापराऽप्यहो! रूपा ।। ७५३ । सर्वेषां पत्र सर्वत्र । स्युमित्राणि च शत्रवः । इति कश्चित् क्षितीशस्य मोचे वचौरमोचनम् ॥ ७५४ ।। वधः शस्त्रं विना राज्ञामांझाभङ्ग इति ठुधा । ततः क्षितीशः श्रीसारं नितरां निग्भसंयत् ॥ ७५५ ॥ ततोऽतिदूनः सोऽन्यूनमन्युर्दाग निर्ययौ पुरात् । मानिनां । मानहानिर्हि। प्राणहानेविशिष्यते ॥ ७५६ ॥ ज्ञानदर्शनचारित्रैरिवीत्मा स कुमारराद् । अनुजग्मे त्रिभिमित्रमित्रत्वाव्याभिचारिभिः ।। ७५७ ॥ यतः-"जानीयात्पेषणे भृत्यान् 'बान्धवान् व्यसनागमे । मित्रमापदि काले च भार्या च विभवक्षये ॥ ७५८ ।। " सार्थेन यान्तस्तेऽरण्ये' सार्थभ्रष्टाः क्षुधार्दिताः। व्यहं भ्रान्त्वाः कचिद् ग्रामे प्राप्ता भोज्यान्यसज्जयन् ।। ७५९ ॥ तेभ्यो भिक्षामादातुं दातुं ' चाभ्युदयं परम् । जिनकल्पी मुनिस्तत्राययौ स्वल्पीभवद्भवः ॥ ७६० ॥ भद्रकप्रकृतित्वेनोल्लसद्भावोऽवनीशमः । तस्मै दानं ददे प्रत्योददे भोगफलं किल ॥ ७६१ ॥ द्वाभ्यां सुह या पामोदि तव विधाप्यन्वमोदि च । यद्वा युक्तं। सवयसां समानसुकृतार्जनम् ॥ ७६२ ।। दीयतां दीयतां ' सर्वमीम् योगः पुनः कानः । तावित्युक्त्याधिकश्रद्धाइप्त्यै मायां च चक्रतुः ॥ ७६३ ॥ क्षत्रपुत्रस्तु' तुच्छात्मा तद्दानावसरेऽवदत् । स्थाप्यमस्मत्कृते किश्चित् क्षुधा ः समाप्रभो ! भृशम् ।। ७६४ ॥ दानविघ्नाद् भोगविघ्नं। सेत्यबध्नान्मुधा कुधीः । राजा' हुताः पुनः पापुः स्वपदं च मुदं च ते ।। ७६५ ॥ राज्यं श्रेष्ठिपदं मंत्रिपदं वीराग्यता क्रमात । ते मध्यमगुणा भुक्त्वा चत्वारोऽपि विपेदिरे ॥ ७६६ ॥ श्रीसारस्तेष्वभूद्रत्नसारः सत्पात्रदानतः । श्रेष्ठ्यंमात्यसुतौ चास्य' पत्न्यो । स्त्रीत्वं हि मायया ॥ ७६७ ।। क्षत्रपुत्रश्च कीरोऽभूचिर्यक्त्वं दानविघ्नजम् । तस्य तादृक्षवैदग्ध्यं ' प्राग्ज्ञानबहुमानजम् ।। ७६८ ।। श्रीसारमुक्तचौरश्च तापसव्रततोऽभवत् । चन्द्रचूडसुरो रत्नसारसाहाय्यकारकः ॥ ७६९ ।। श्रुत्वेति क्षितिपालाद्याः' पात्रदानेऽतिसादराः। आंदम व्यधुः सम्यग् बुद्ध तत्वे हि कोऽलसः ? ॥ ७७० ॥ अहो ! महीयसां धर्मः सहस्रांशुरिवोल्लसन् । तमः प्रमथ्य सन्मार्गे समग्रान् यः प्रवर्तयेत् ।। ७७१ ॥ पुण्यप्राग्भारसारश्च रत्नसारकुमारराद् । सह मियाभ्यां बुभुजे भोगांश्चिरमनुत्तरान् ॥ ७७२ ॥ स्वभाग्यैरेव सिद्धार्थः पुमर्थद्वयमेव सः। अन्योऽन्यांबाधया साधु साधयामास शुदधीः ॥ ७७३ ॥ रथयात्रास्तीर्थयात्रा'रूप्यस्वर्णमणीमयीः । प्रतिमास्तत्प्रतिष्ठाश्च प्रासादांश्च। मुदाहताम् ॥ ७७४ ॥ चतुर्दा सङ्घसत्कारानुपकारान्परेध्वपि । स चिरं रचयामास श्रियः फलमिदं खलु ॥ ७७५ ॥ युग्मम् ।। संसर्गात्तस्य कान्ते ते उभे अपि बभूवतुः । तद्वत्सम्यग्धर्मनिष्ठे' सुसंसर्गान किं भवेत् ? ।। ७७६ ॥ सपियाद्वितयः स्वायुःक्षये पण्डितमृत्युना । स मापदच्युतं कल्पं श्राद्धस्यैषा गतिः परा ।। ७७७ ।। ततश्युतो विदेहेषु सम्यक्श्रीधर्ममाईतम् । स समाराध्य लब्धा'च' मस मोक्षसुखश्रियम् ॥ ७७८ ॥ रत्नसारचरितादुदीरितादित्यमब्रुतत्तयावधारितात् । पात्रदानविषये परिग्रहस्वेष्ठमानविषये च यत्यताम् ।। ७७९ ।। " इति पात्रदाने परिग्रहपरिमाणे च रत्नसारकथा." एवं साध्वादिसंयोगेऽवश्यं सुपात्रदानं प्रतिदिनं विवेकी विधिना विधत्ते । तथा यथाशक्ति तदवसराधोयातसाधर्मिकान् सह भोजयति । तेषामपि पात्रत्वात् तद्वात्सल्यविध्यायग्रे वक्ष्यते । तथा ददात्यौचित्येनान्येभ्योऽपि द्रमकादिभ्यः। न प्रत्यावर्चयति तानिराशान् । न कारयति कर्मबन्धम् । न गईयति धर्मम् । न भवति निष्ठुरहृदयः । भोजनावसरे द्वारपिधानादि न हि महतां दयावतां वा लक्षणम् ।श्रूयतेऽपि चित्रकूटे चित्राङ्गदनृपः, शत्रुसैन्यैर्दुर्गे वेष्टितेऽपि तत्मवेशभयोद्रेकेऽपि भोजनकाले प्रतोली मत्यहमुद्घाटयामास । तन्मर्मणा तु गणिकोक्तेन शत्रुभिदुर्गप्रहादि कृतं । ततः श्राद्धेन भोजनसमये दारं न पिघातव्यं, श्रीश्राद्धविधिप्रकरणम 101
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy