SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसमहणी ३१ परिमितिर्भवति सा परिधिरिति संज्ञया गीयते तत्करणप्रकारश्चायं विष्कम्भस्य यत्परिमाणं तस्य वर्गः क्रियते । ( बंगो नाम विवक्षितसङ्ख्यायास्तावत्या संख्यया गुणनं यथा चतुरशीति लक्षवर्षप्रमितं यत्पूर्वाङ्ग तस्य वर्गीकृते पूर्व भवति तथा चतुरशीलक्षवर्षी तावद्भिर्वर्षे गुणितो षट्पञ्चशत्सहस्रकोटयुत्तरसप्ततिलक्षकोटिर्भवति पूर्ववर्षाणां । तत्स्थायना ७०,५६,०००००, ००,०००) वर्गीभूतसङख्याया दशगुणीकरणं ततः तत्सइख्याया मूलशोधनं तथाहि दशगुणीकृतसख्यां अन्त्याङ्कात् ऊर्ध्वरेखा विषमाया तिर्यग्रंखा समाख्या च कार्या यावदादिनोऽङ्क ततस्तस्य मूलशोधनम् । सा परिधिः । मूलं नाम यावती सख़्या विवक्षिता सा सङ्ख्या यावत्या संख्यया गुणिता भवति, सा प्रथमा सङ्ख्या मूलम् । यथा पञ्चविंशतेलं पञ्च यद्वा यावत्याः सख़्याया वो भवति, विविक्षिता सऽख्या, सा तस्या मूलं ज्ञेयम् । यथा पञ्चानां वर्गो भवति पऋविंशतिः । ततस्तस्या मूलं पञ्च । तत्र यदि आदिमाङ्के विषमरेखा आगच्छति ततः सैकासंख्या वगाथेन शोधनीया । अथ यदि समरेखाऽऽगच्छति तदा तु आदिमद्वयाङ्क सख्या वगांङ्केन शोधनीयेति यावदन्तिमात इति ।। - प्रस्तुतं प्रस्तूयते । इह तावजंबुद्वीपविष्कम्भो लक्षयोजनप्रमितः । (१,००,०००) तस्य वर्गे कृते लक्ष लक्षेण गुणितं दशाब्जसङ्ख्या १०००००००००० भवति । सा सख्या दशगुणिता कार्या अर्थात् एकं शून्यं अग्रे वर्धनीयं तथा चैकशताब्जसड्ख्या १००००००००००० भवति एकं खर्व वा । अथास्य मूलं शोधनीयम् । मूलशोधनं नाम पूर्वोक्तम् । अथ तत्प्रकारः । अत्रादिमोऽङ्क एकः अन्तिमश्च शून्यम् । अथान्तिमादकाद्विषमसमरेखा करणीया । स्थापना १००००००००००० । अत्रादाब समरेखाऽस्तीत्यतः प्रथमद्वयाङ्कस्य वर्गेण मूलं शोधनीयम् । तथा च आदिमद्वयात्रायाः दशसख्याया(१०) मूलं शोध्यम् । तस्य च मूलं त्रिकमागच्छति । शेष एकः(१)। त्रिकसंख्या(३) चैकत्र स्थाप्या । अथ शिष्टाङ्क पूर्वसङ्ख्याया द्वे शून्येऽवताणें । पूर्वाङ्कः चतुःसंख्यारिक्ता, अष्ट शून्यान्यवशिष्टानि । अत्र च शेषाङ्के द्वे शून्ये -रिक्त, अष्ट शून्यान्यवशिष्टानि । अत्र च शेषाङ्के शून्ये मिलिते शतं (१००) भवति । अथ शताङ्कमूलशोधनविधिः । पूर्व यः त्रिकाङ्क एकत्र स्थापित स द्विगुणः कार्य :..। स चाङ्क छेदराश्यभिधयाभिधीयते । सर्वत्र मूलराशेद्विर्गुणश्छेदराशिरवसेयः । तथा षट्सङ्ख्यया. शतं शोधनीयं यथा षडेकगुणिताः षट् । अत एको भाग आगच्छति । स भाग षट्संख्याया अधः स्थाप्यः तथैकषष्ट्रयङ्का जायन्ते । सैकषष्टिसङ्ख्या (६१) शताङ्काद्रिक्तीकार्या । तथा चैकोनचत्वारिंशदङ्काः शेषा वर्धन्ते । अथ पूर्व यस्त्रिकाङ्कः स्थापितस्तेन सह एकाङ्के स्थापिते एकत्रिशत्सडूख्या (३१) भवति । अथ शिष्टेऽङ्के द्वे शू-ये वर्धितव्ये तथा च नवशताधिका - । -|- |- |- -
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy