SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ३२ सटीकजबूद्वीपसङग्रहणी , त्रिसहस्री (३९००) भवति । तत वाङ्के द्विगुणीकृते द्वाषष्टिर्भवति । तया पूर्वोक्तोऽङ्कः शोव्यः । तदा द्विषष्टिः षट्गुणिता द्वासप्तत्युत्तरत्रिशतं(३७२) भवति । तदध य: षड्भाग आगतः तस्य तावत्या सङ्ख्यया गुणने षट् त्रिंशत् (३६) भवन्ति । संस्थाप्यः तथा च षट्पञ्चाशदधिकसप्तत्रिंशत्शतं(३७५६)भवति । अथासौ सङ्ख्या पूर्वस्याः सङ्ख्याया हासिता चतुश्चत्त्वारिंशदधिकैकशतं (१४४) शेषः वर्धते । अथ पूर्वा केनैकत्रिंशता सह षडङ्काः स्थाप्या । तथा च षोडशोत्तरं त्रिशतं (३१६) भवति । अथ शिष्टाङ्केन चतुश्चत्वारिंशदुत्तरे कशतेन (१४४) सह मूलराशिशिष्टेभ्यः षट्शून्येभ्यः द्वे शून्य स्थाप्ये तथा च चतु:शताधिकचतुर्दशसहस्त्री(१४४००) भवति । ततो वर्गाङ्कः षोडशोत्तरशतत्रयं द्विगुणीकृतं द्वात्रिंशदुत्तर षट्रशती भवति । तया पूर्वसङ्ख्या शोध्या । तदा द्वात्रिंशदुत्तरषट्शती द्विगुणीकृता चतु:ष्टयुत्तरा द्वादशशती(१२६४) भवति । लब्धा द्विभागो द्विगुणीकृतः पूर्वोक्तसङ्ख्याया अधः स्थाप्यः । तथा च षटशतचतुश्चत्वारिंशदधिका द्वादशसहस्री (१२६४४) भवति । सा पूर्वोक्तसङ्ख्याया हासिता सती शेषाङ्क षट्पञ्चाशदकाधकसप्तदशशतं जायते । अथ च वर्गम्लाङ्केन षोडशोत्तरत्रिंशतेन सार्धा द्वयङ्कः स्थाप्यः । तथा सति दिपष्टयुत्तरं (३१६२) एकत्रिंशच्छतं भवति । अथ शिष्टाङ्केन सह उपरिष्टाद् द्वे शून्ये उत्तार्य स्थापिते षट्शतोत्तर कलक्षपञ्चसप्ततिसहस्रसङ्ख्या (१७५६००) जायते । ततो वर्गाङ्कद्विगुणितं कुर्यात् । तथा च चतुर्विशत्यधिकत्रिषष्टिशतं (६३२४) जायते । तमङ्क पूर्वाङ्कन शोधयेत् । तदा द्विगुणीकृतवर्गाङ्कः द्विगुणिते सति अष्टचत्वारिंशदधिकषट्शतोत्तरद्वादशसहस्री (१२६४८) जायते । तदधेो द्वयकं (२) द्विगुणीकृत्वा स्थापयेत् । तथा चैकलक्षषइविंशतिसहस्रचतुःशतचतुरशीति (१२६४८४) सङ्ख्या जायते । तावती सङ्ख्या पूर्वक्तिसङ्ख्याया हासिता सती एकशतषोडशोत्तर कानपञ्चाशत्सहस्रसङ्ख्याऽवशिष्यते । ततः पूर्वोक्तस्य वर्गमूलाङ्कस्याधः द्विसडख्या स्थापने षट्शतद्वाविंशत्यधिकैक त्रिंशत्सहस्री (३१६२२) जायते । अथ शिष्टाङ्कन सह उपरिष्टाद द्वे शून्ये उत्तार्य स्थाप्येते तदा षट्रशताधिकैकादशसहस्रोत्तरकानपञ्चाशल्लक्षसङ्ख्या (४९११६००) जायते । ततो वर्गमलाङ्को द्विगुणीकुर्यात् तदा त्रिषष्टिसहस्रद्विशतचतुश्चत्वारिंशत्सङ्ख्या (६३२४४) जायते । तया पूर्वाङ्कः शोध्यः । तथाहि द्विगुणीकृतवर्गमूलाई सप्तगुणी कुर्यात् तदा चतुर्लक्षद्विचत्वारिंशत्सहस्रसप्तशताष्टसङ्ख्या १४४२७०८) संभूता, सप्तभाग (१) आगतः, अतः सप्त (७) सप्तसंख्यया गुणिता एकानपञ्चाशज्जायन्ते । [सा ४९ पूर्वोक्तसङ्ख्याया (४३२७०८) अधः स्थापयित्वा] सा [सङ्ख्या] (४४२७१२९) पूर्वोक्तसङ्ख्याया (४९११६००) हारिता तदा चतुर्लक्षचतुरशीतिसहस्रचतुःशतैकसप्ततिसडख्या (४८४४७१) ऽवशिष्टा भवति । भागाङ्काश्च सप्त वर्गमूल
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy