________________
सटीकजंबूद्वीपसग्रहणी
जयति जगति जंबूद्वीपभूमीधवोऽयं सततंभितरवाधिद्वीपसामन्तसेव्यः ।
सुरगिरिरयमुच्चैरंशुको नीलचूलः श्रयति कनकदण्डो यस्य राजध्वजत्वम् ॥९॥ इत्यलमतिपल्लवितेन प्रकृतमनुश्रियते ।।
अथ यथोद्देशं निर्देश इति न्यायात् प्रथमोपस्थितौ प्रथमत्यागे मानाभावाद्वा आदी तावत् खंडापरनामभामस्वरूपं निर्णिनीषुरेकयार्यया खण्डान् बंभणीति
णउअसय खंडाण भरहपमाणेण भाइए लक्खे
अहवा णउयसयगुण भरहपमाण हवइ लक्ख ।।३।। णउअसयमिति इहेति शेषः । अस्मिन् जंबूद्वीपे नवत्युत्तरं शतं खण्डानामिति । यत् पूर्वमुक्तं जंबुद्वीपे कियन्तः खंडास्तदर्शयति । अथ नवत्युत्तरं शतं । कथं ज्ञायते ? तत्ज्ञानविधिर्द्विप्रकारतो गाथाया आद्यार्धेन च दर्शयन्नाद्यप्रकारं प्रतिषिपदायेषुराद्यार्धभागमाह भरहेत्यादि भरहपमाणेनेति भरतप्रमाणेन, भाइएति भाजिते, लक्खेति लक्षे इत्यक्षरगमनिका । अयं भावार्थः ॥ अयं तावजंबूद्वीपो लक्षयोजनप्रमाणप्रभितस्तस्य षट्कलासहितषड़ विंशतियोजनोत्तरपञ्चशत्या योजनेन परितप्रमाणेन भाजिते, भवति नवत्युत्तरं शतम् । तथाहि भागकरणप्रकारः । एकत एकलक्षसख्यायाः एकोत्तरं पञ्च बिंदूनि स्थापितव्यानि । स्थापना चेयम् । १०००००। एकतश्च भरतप्रमाणं स्थापितव्यं, स्था. ५२६-६ । अत्र एको भागो लब्धः षड्विशत्युत्तरपञ्चशत्या(५२६) सहस्र सख्यायाः(१०००) भाजिमया:शेषचतुःसप्तत्युत्तरं चतुःशती(४७४) लब्धा तस्यां शिष्टायां पूर्वसङ ख़्याया द्वे शून्य अवतरितयोः सत्योश्चतुःशतोत्तरसप्तचत्वारिंशत्सहस्री(४७४००)लब्धातस्यां षडविंशत्युत्तर पंचशत्या भाजितायां नवतिर्भागा लब्धाः । शिष्टा च षष्टि(६०) सख्या, ततश्च षष्टिसख्या(६०) एकोनविंशत्या(१९) गुणिते साधिकचत्वारिंशदेकशतोत्तरैकसहस्रसङ्ख्या (११४० कलानां भवति । ता कलाः पूर्वलब्धनवत्युत्त रैकशतभागस्यापि षट्कलाभिः गुणिताः तावत्सडख्या(११४०) भवति । तथा च न काऽपि शिष्टा भवति कला । एवं च स्थितं नवत्युत्तरशतं खण्डानां भङ्गविधिः, स्थापनातोऽवसेयः । तथाहि किञ्च भाज्यभाजकसडख्ययोः समत्वे भागकर मा । अतो जंबुद्वीपप्रमाणस्य एकलक्षस्य(१०००००)योजनानां कलाः कार्यास्तथाहि एकयोजनस्य (कोनविंशतिः(१९ कलारतथा च एकोनविंशतिलक्षाणि कलाः भवन्ति तथा षडविंशत्युत्तरपञ्चशत्या योजनानामपि कलाकरणे नवसहस्रनवशतचतुर्नवतिकलाः संपद्यन्ते, तासु षट्सु कलासु प्रक्षिप्तासु दशसहरूसख्या भवन्ति कलाः । ताभिः पूर्वोक्ता एकोनविंशतिलक्षसख्या भाजिता सती नवत्युत्त रैकशतं भागो लभ्यते । तावन्तः खण्डाः । प्रकारः स्थापनातोऽवसेयस्तद्यथा