________________
सटीकजंबूद्वीपसङ्ग्रहणी
जिना: । तावन्तः चक्रवर्तिनः तत्स ख्याका: वासुदेवा अचक्रिणः तत्सङ्ख्या एव हलायुधा बलदेवाः । उत्कर्षतस्तु चतुस्त्रिंशतीथाधिपाः त्रिंशच्चक्रिण: तावन्तो वासुदेवाः तत्सङ्ख्या रामाश्च । ते सर्व ऽभी भरतैरवतमहाविदेहेष्वेव भवन्ति, नान्यत्र, तत्रोत्कर्षसख्यायां भरतैरवतयोयुगलं शेषा महाविदेहेषु इत्यादि बहुतरमूहनीयम् । तथा चाभिहितवन्तः पूर्वसूरयः श्रीमन्तस्तत्रभवन्तो जम्बूद्वीपस्वरूपवर्णनाधिकारे -
"जिनैश्चक्रिभिः · सीरिभिः शाङ्गिभिश्च चतुर्भिश्चतुर्भिर्जधन्येन युक्तः । सनाथस्तथोत्कर्षतस्तीर्थनाथै श्चतुस्त्रिंशतायं भवेद् द्वीपराजः ॥१॥ चक्रवर्तिबलदेवकेशवै स्त्रिंशता परिचितः प्रकर्षतः । भारतैरवतयोर्द्वयं तथा ते परे खलु महाविदेहगाः ॥२॥ जंबुद्वीपे स्युर्नदीनां शतानि षड्युक्तानि त्रीणि सत्तामपेक्ष्य । षट्त्रिंशन्ते चक्रिभोग्या जघन्यादुत्कर्षेण दे शते सप्ततिश्च ॥३॥ चक्री गङ्गाद्यापगानां मुखस्थाने तानात्ताशेषषट्खण्डराज्यः । व्यावृत्तः सन्नष्टमस्य प्रभावात् साधिष्ठातृनात्मसान्निर्मिमीते ॥४॥ पञ्चाक्षरत्नो द्विशती दशाधिकोत्कर्षेण भोग्यात्र च चक्रवर्तिनाम् । जघन्यतोऽष्टाभ्यधिकैकविंशतिरेकाक्षरत्नेष्वपि भाव्यतामिदम् ॥५॥ द्वौ चन्द्रौ दिनेन्द्राविह परिलसतो दीपकौ सद्मनीव । षट्सप्तत्या समेतं ग्रहशतमभितः कान्तिमाविःकरोति ॥ पटपञ्चाशच्च लक्षाण्यनिलपथपृथून्निद्रचन्द्रोदयान्त । मुक्ता श्रेण्याः श्रयन्ति श्रियमतिविततश्रीभ रैर्विश्रुतानि ॥६॥ एकं लक्षं सहस्रा: सततभिह चतुस्त्रिंशदुद्योतहृद्या । न्यूनाः पञ्चाशतोच्चैर्दधति रुचिरतां तारकाकोटिकोटयः १३३९५० ॥ प्रोद्यत्प्रस्वेदबिंद्वावलय इव निशि व्योमलक्ष्मी मृगाक्ष्या । रत्यध्यासं विधातुं प्रियतमविधुना गाढमालिङ्गितायाः ॥७॥ कोटाकोटिपदेन केचन बुधाः कोटिं वदन्त्यत्र यत् । क्षेत्रस्तोकतयावकाशघटना नैषां भवेदन्यथा ॥ अन्ये कोटय एव तारकततेरौत्लेकिरण लैः । कोटाकोटिदशां भजन्ति घटिता इत्यूचिरे सूरयः ॥८॥