________________
सटीकजंबूद्वीपसङ्ग्रहणी
२१
स्थापना चेयं - ८०) ५०० (६-१
४८० ०२० ४४
षडू योजनानि एक क्रोशः । अत्र विशतेर्भागो नाप्यतेऽतः चतुर्भिः क्रोशैोजनमिति चतुःसङ्ख्यया गुणनेन क्रोशाः कार्याः ।
___ इति तावत्येव तयोः प्रत्येकं मूलविस्तृतिबोध्या । एवं रोहितानिर्गमास्पदं महाहिमवत्स्थायी महासमनामा हृदः, स च सहस्रं योजनानां विस्तृतः, अशीतिभक्तेषु च तेषु साई द्वादशयोजनानि लभ्यन्ते । स्थापना चेयं ---- ८०) १००० (१२-२
द्वादश योजनानि १२ द्वौ क्रोशौ २
अत्रापि प्रागुक्तहेतुतः रीत्या च ०२००
कोशाः करणीयाः ॥
०८०
१६०
०४०
X MMI.
wr]
०००
इति तावानेव मुखविष्कंभोऽवसेयः । एवं हरिसलिलोद्भवस्थान निषधाचलस्थः तिगिञ्छिहदः । तस्य द्वे सहस्रे योजनानां विस्तारः तेषु चाशीतिभक्तेषु पञ्चविंशतिर्योजनान्यवाप्यन्ते । स्थापना चेयं - ८०) २००० (२५
पञ्चविंशतियोजनानि-२५ ॥
४००
०००
मेरोदक्षिणस्यामुत्तराभिमुखीनां रोहितांशाहरिकान्ताशीतोदानां तिसृणां नदीनां चत्वारिंशद्विभक्ते स्वहूदविस्तारे यद्यत्मानमाप्यते तत्तन्मूलविस्तारतया बोध्यम् ॥ तथाहि रोहितांशानिर्गमस्थानं हिमवद्वर्षधरस्थायी पदानामा हृदः । स च विस्तारे योजनानां पञ्चशतानि, तेषु चत्वारिंशता विभक्तेषु सार्द्धद्वादशयोजनानि लभ्यन्ते इति तावान् रोहितांशा मूलविस्तारः ।