________________
सटीक जंबूद्वीपसङ्ग्रहणी
इत्याद्युमास्वातिवाचकवचनाच्च द्वादशानामन्तर्नदीनामपि प्रत्येकं अष्टावशितिसहस्ररूपं परिवारं मन्यमानाः षट्त्रिंशत्सहस्राधिकनदीलक्षत्र येणान्तर्नदीपरिवारेण सह द्विनवतिसहस्राधिकानि सप्तदशनदीक्षाणि मन्यन्ते । उक्तञ्च –
२०
wwwwwwm
66
सुत्ते चउदसलक्खा छप्पन्नसहस्स जंबुद्दीवंमिं ।
हुति उ सत्तरसलक्खा बाणवइसहस्स मेलविया ॥
19
अन्ये तु यद्यन्तर्नदीवनेकानि परीवारनदीसहस्राणि प्रवेशेयुस्तदा कथं तासां क्रमेण परतः परतो गच्छन्तीनां विस्तारविशेषो गङ्गासिन्ध्यादिनदीनामिव न संपद्येत ? यस्तु परिवारः सिद्धान्तेऽभिदधे, स तु यथाष्टाशीतिर्ब्रहाश्चन्द्रस्येव परिवारतया प्रसिद्धा अपि सूर्यस्यापि स एव परिवारः प्रतीयते न पुनः पृथक् ॥ उक्तञ्च समवायाङ्गवृत्ती
--
wwwwwwwww
39
" अष्टाशतिर्महाग्रहा एते यद्यपि शीतकरस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापीन्द्रत्वादेत एव परिवारतयावसेया । इति तथा गङ्गादिसम्बन्धीन्येवाष्टाविंशतिनदीसहस्राणि अन्तर्नदीनामपि परिवार इति । एवं चान्तर्नदीनां पृथक् परिवारमनभ्युपगच्छन्तो यथास्थितामेव नदीसंख्यां मन्यन्ते इति । दिक्पटोऽप्येवमाह
66
'जंबुद्वीवि नवरात्रि संखा सव्वनइ चउदहयलक्खा । छप्पनं च सहस्सा नव नइओ कहंति जिणा ॥ १ ॥
इति सिद्धं जंबुद्वीपनदीनदीपरिवारप्रभाणम् ।
गङ्गासिन्धुरक्तवतीरक्ताख्यानां चतसृणां महानदीनां वक्ष्यमाणं जिह्विकामानविरतारोद्वेद्धतादिकं सर्वं परस्परं तुल्यं, ततः रूप्यकूला स्वर्णकूला रोहितारोहितांशिकाख्यानां चतसृणां महानदीनां द्विगुणं जिह्विकामानाद्यवसेयं अन्योऽन्यं च सर्वमेव समस्वरूपम् । ततोऽपि नारीकान्तानरकान्ताहरिकान्ताहरिसलिलाह्वयानां तत्सर्वं द्विगुणमभिधातव्यम् । अत्रापि परस्परं तुल्यम् ॥ ततोऽपि शीताशीतोदयोर्द्वयोः प्रागुक्तं सर्वं द्विगुणं वाच्यं मिथश्च तुल्यरूपम् ||
तत्र सुरगिरेर्दक्षिणस्यां दक्षिणाभिमुखीनां गङ्गासिन्धुरोहिताहरिसलिलाख्यानां चतसृणां सरितामशीतिभक्ते स्वस्वहृदविस्तारे यावद्यावन्मानमाप्यते तावत्तावन्मूलविस्तारो बोद्धव्यः तथाहि गङ्गासिन्ध्वोर्निगमस्थानं हिमवत्पर्वतस्थः पद्मनामा हृदः, स च योजनानां पञ्चशती विस्तृतः, अशीतिभक्तेषु च तेषु योजनेषु सपादषड् योजनान्याप्यन्ते ॥