________________
सटीकजबूद्वीपसङ्ग्रहणी
wwwwwwwwww
षष्ठीत्येताः षट् पूर्ववदेहेषु शीतादास्य इव । एवमपरविदेहेष्वपि शीतोदादास्य इव षडन्तर्नद्यः तथाहि अपागपरविदेहेषु शीतोदा दक्षिणतटे निषधोदीच्यां शीतोदा निषधान्तरालवर्त्तिन्यः तिस्रोऽन्तर्नद्यः । ताश्चैवं सुपक्ष्ममहा पक्ष्मविजय युगलमध्यगामिनी तयोर्मर्यादाकारिणी क्षीरोदकुंडगनिता क्षीरोदा नाम्न्यन्तदी प्रथमा । एवं पदमावतीशंखाख्यविजयद्वन्द्वान्तरालगामिनी तयोर्मर्यादायां शीतस्रोतःकुण्डसमुद्भूता शीतस्रोताख्या द्वितीया । एवं नलिनकुमुदाभिधानविजययामलमध्यगा तयोः सीम्नि अन्तर्वाहिकुंड प्रभवाऽन्तर्वाहिनी तृतीया इत्यमूस्तिस्रः । एवमुदगपरविदेहेषु शीतोदोदक्कूले नीलवतोsपाच्यां शीतोदानीलवदन्तरालगामिन्योऽपिं तिस्र: । ताश्चैवं सुत्रप्रमहावप्राभिधविजययुगलमध्यवाहिनी तयोः सीमाविधायिनी ऊर्मिमालाकुण्डनिर्गतोर्मिमालिनी चतुर्थी । एवं प्रावती वल्वभिधविजय मिथुनमध्यवर्त्तिनी तयोर्मर्यादायां गंभीरमालिकुण्डप्रादुर्भूता गम्भीरमालिनी पञ्चमी । एवं सुवल्गुगन्धिलाख्यविजय युगलमध्यगा तयोर्मयांदायां फेनमालिकुण्डनिर्गता फेनमालिन्यभिख्यान्तर्नदी षष्ठीत्येवमपरविदेहेष्वपि षमिताः । इत्येवं द्वादशान्तर्नद्यः । एवमेताः षट्सप्ततिः तथा चतुर्दश सप्तवर्षस्थायिन्यो गंगाद्या महानयः इत्येता नवतिर्महानद्यः षट्पञ्चाशत्सहस्राढ्य चतुर्दशलक्षाभ्यधिका ज्ञेयास्तथाहुः श्रीरत्नशेखरसूरयः स्वक्षेत्रसमासे
१९
wwwwwwNNI
" अडसरी महाणईओ बारस अंतरणईउ सेसाओ ।
परिअरणइओ चउदसलक्खा छप्पण्णसहस्साय || (लघुक्षेत्रसमास, गाथा ६४)
99
तत्रभवन्तो मलयगिरयस्तु कच्छविजयगत सिन्धुर्नदीवर्णनाधिकारे क्षेत्रसमासवृत्तौ प्रवेशे च सर्वसङ्ख्यया आत्मना सह चतुर्दशभिर्नदीसहस्रैः समन्विता भवन्तीति वचनप्रबन्धेन महानदीनां न पृथग्गगते सूचयाञ्चकुः । तथा द्वादशान्तरर्नद्यो ऽतिरिच्यन्त एवेत्यत्र तत्त्वं बहुश्रुतद्यमिति ध्येयम् ।
केचित्त्व विचारे
" गाहावइ महानई पवुडा समाणी सुकच्छमहाकच्छविजए दुहा विभयमाणी अट्ठावीसाए सलिलासहस्से ं समग्गादाहिणेणं सीयं महानई समप्पेइ " इत्यादि जंबूद्वीपप्रज्ञप्तिवचनात् तथा “ नद्यो विजयच्छेदिन्यो रोहितावत् कुण्डाः स्वनामदेवीवासा, अष्टाविंशतिनदीसहस्रानुगाः, प्रत्येकं सर्वसर्वसमाः पंचविशशतविस्तृता, अर्घतृतीययोजनावगाहा गाहावती पकाती
१. परिवारनद्यः
""