________________
१८
सटीकजंबूद्वीपसङ्ग्रहणी
रक्ता रक्तवती चेति उभे सरिते । हैरण्यवते रूप्यकूला स्वर्णकूलाभिधं नदीयुगलं । रम्यक नरकान्ता नारीकान्ता चेति नदीमिथुनं इतीमा उदक्क्षेत्रस्थषण्महानद्यः । एवमपरविदेहेषु शीतोदा पूर्वविदेहेषु शीता चेति नदीद्वन् विदेहवर्त्ति । एवमेताश्चतुर्दश । परिकरमाश्रित्य भरतवर्त्तिन्यौ गङ्गासिन्धू , ऐरवतस्थे रक्तारक्तवत्यौ चेति चतस्रो नद्यः, प्रत्येकं चतुर्दशसहस्रं परिवारपरिवृत्ताः । हैमवतगाभिन्यौ रोहितारोहितांशिके, हैरण्यवतनिवासिन्यौ रूप्यकूलास्वर्णकूले चेति चतसृणां सरितां प्रत्येकं अष्टाविंशतिः सहस्राणि परिवारः प्रतिपादितः । हरिवर्षवर्त्तिन्यौ हरिकान्ताहरिनद्यौ, रम्यकस्थे नरकान्तानारीकान्ते चेति चतस्रो महानद्यः प्रत्येकं षट्पञ्चाशत्सहस्रैः परिवारिताः । अपरविदेहवर्तिनी शीतोदा पूर्वविदेहनिवासिनी शीता चेति महान द्वयं प्रत्येकं द्वात्रिंशत्सहस्राधिकपञ्चलक्षीपारच्छदपरिच्छिन्नं । तथा च भरतेऽष्टाविंशातसहस्राणि परिवारः २८००० । हैमवते षट्पञ्चाशत्सहस्राणि ५६००० । हरिवर्षे द्वादशसहरू याधिकं लक्षमेकम् १,१२,००० । इत्येवमपाच्यां दिशि षण्णवतिसहस्रया समेतं लक्षमेकम् १,९६,००० । एवमैरवते भरतवदष्टाविंशति सहस्राणि २८००० । हेरण्यवते हैमवतवत् षट्पञ्चाशत्सहस्राणि ५६०००, रम्यके हरिवर्षवद् द्वादशसहस्रयाधिकं लक्षमेकं ११२००० इत्येवमुदीच्यामपि अपाचीवत् षण्णवतिसहस्रया समन्वितं लक्षमेकं १,९६,००० । विदेहेषु च चतुःषष्टिसहस्राणि दश लक्षाश्च नदीनां १०६४००० । एवं च सर्वसङ्ख्यया चतुर्दशलक्षा षट्पञ्चाशत्सहस्राणि १४५६००० सरितामिह द्वीपेऽभिहिता ॥ तथा पूर्वविदेहापाग्विजयेष्वष्टसु प्रत्येकं गङ्गासिन्वभिख्यसरिविकभावात् षोडश, एवमपरविदेहेषु अपाग्विजयाष्टकवत्तिन्योऽपि तथैव षोडश नद्योऽवसेयाः । एवं पूर्वविदेहोदग्विजयेष्वष्टसु प्रत्येकं रक्तारक्तवत्यभिधनदीयुगलसद्भावात् ता अपि षोडश एवमपरविदेहेषूदग्विज येवष्टस्वपि तथैव षोडश नद्यो द्रष्टव्याः । एवं द्वात्रिंशति विजयेषु चतुःषष्टिनद्यः । एवमत्र द्वादश चान्तनद्यः तथाहि शीताख्यमहानद्या उत्तरकूले उदक्पूर्वविदेहेषु नीलवतो वर्षधरस्यापाग्दिशि शीतानीलवदन्तरालवर्त्तिन्यः तिस्रोऽन्तनद्यः । तत्र सुकच्छमहाकच्छविजयद्व यान्तरालवर्तिनी तयोः सीमाकारिणी गाहावत कुंडसमुद्भूता गाहावती नामान्तनदी प्रथमा । एवं कच्छावत्यावर्त्तविजयमिथुनान्तरिता तन्मर्यादाविधायिनी हृदावतकुंडनिर्गता हृदावती नाम्नी द्वितीया । एवं मङ्गलावर्तपुष्कलाख्यविजययुगलान्त
मिनी तयोः सीम्नि वेगवत्कुंडसमुत्पन्ना वेगवती तृतीयेत्येतास्तिस्रः । एवं तत्रैवापाग्विदेहेषु शीतापाक्कूले निषधरय वर्षधरर योदीच्या निषशीतात गामि योऽपि ताव यरतथाहि सुवास. महावत्साभिख्यविजयद्वन्द्वान्तरिता तयोर्मर्यादायां तप्तकुण्डसंभूता तप्ताख्या चतुर्थी । एवं वत्सावतीरम्यविजयद्विकान्तरालवर्तिनी तयोः सीमाविधायिनी मतकुंडनिर्गता मत्ताभिधा पञ्चमी । एवं रम्यकरमणीयकाभिधानविजययुगलान्तर्वर्तिनी तयोः सीमनि उन्मत्तकुण्डसमुद्भूतोन्मत्ताख्या