________________
वंदासवृति प्रस्ता० टि०]
[६७ ६०. पूर्वं निवेदितमिति निवेदितपूर्वमिति समासोऽत्र बाहुलकाद्याश्रयणेन सङ्गच्छते । ६१. पूर्व मुद्रित इति मुद्रितचरः इति विग्रहः, भूतपूर्वार्थे चरट्प्रत्ययस्याऽत्र विधानमस्ति । ६२. 'श्रेष्ठी श्रीमनसुखभाई'ना विहेतः ज्ञानोद्धाराथ पुस्तकानां प्रबन्धः यत्र यस्माद्वे व्युत्पतिमत्तित्र
संगमय्यत्पदेन “राजनगर (अहमदाबाद) स्थित शेठ मनुसुखभाई भगुभाई ट्रस्ट" संज्ञसंस्थासूचन
मत्र बोध्यम् । ६३. अयं हि शब्दः “लाडवाश्रीमालीज्ञातिसूचको विज्ञेयः, 'लाडवाश्रीमाली 'तिपदस्याऽऽप्तैतिह्य वित्
प्रमाणितोऽर्थ एवमपि श्रूयमाणोस्ति यत् "लाटदेशीया लाटदेशादागता वा श्रीमालीज्ञातीयाः लाडवाश्रीमालीत्यर्थे लाडश्रीमालीया उच्यन्ते," । ___ एतज्जातीयानां बाहुल्यं भृगुकच्छे तत्प्रान्तीयमण्डले इदानीमस्ति, भृगुकच्छप्रदेशस्य परमार्हत
कुमारपालमहाराजराज्यकाले तदूर्द्धमपि च लाटदेशत्वेन व्यवहृतिरभियुक्तप्रमाणिता श्रूयतेऽपि । ६४. परमश्चासौ सर्वोत्कृष्टश्चासौ आनन्दश्च तस्याऽऽलयः मोक्षः तस्याऽऽप्तेरसाधारणं कारणं यत्
रत्नत्रयं, तस्य निचयः व्यवस्थिताऽनेकधर्मक्रियासमूहरूपः, तस्मिन् सादरश्चासौ श्रमणप्रधानसङ्घः
तस्य पादपङ्कजयोः मधुपवदाचरमाण इति तात्पर्यलक्षी अन्वयो विज्ञेयः । ६५. जातानि यानि स्खलितानि तान्येव दोषाः तद्रुपं यत् दुरितं तत्संबन्धी अनुशयः---पश्चात्तापो
विद्यते यस्येति विग्रहः । ६६. सफलत्वमत्र सम्पूणार्थवाचि न विज्ञेयं, परं पार्श्वजिनेशांद्रिपूतत्वरूपकलासहितत्वं विवक्ष्यम् ।