________________
६६]
[ बंदासवृति प्रस्ता० टि० ४५. एतत्पदस्य सामान्यतो ह्यर्थः "प्रामाणिकजनै "रिति भवति, परमत्र लाक्षणिकशैल्या
“परमोत्कृष्टज्ञानमूलक-प्रामाणिकत्वभ्राजिभिस्तीर्थकृद्भि" रिति सङ्गमनीयम् । ४६. एतद्धि पदं "चरित्रेषु" इत्यस्य विशेषणं ।
विशेषतः कस्याऽप्येकविषयस्य मुख्यत्वं यत्र न भवेत्तानि हि साधारणानि चरित्राणि व्यपदिश्यन्ते । ४७. आप्तवचनरूपं यत् प्रवचनं तेनाऽऽविर्भूतो योऽसीमश्चासौ समतारसस्याऽऽस्वादः, तेनोद्भूतो यः
कृपारूपपीयूषरूपवारिणः पूरः येषां तै ।। ४८. यथार्थश्चासौ प्राप्तः ज्ञानस्यः पूरः समूहः यैः । ४९. क्रमेणति शेषः । ५०. एतस्य ह्यन्वयः प्राक्तनेन “प्रत्याख्यानसूत्राणा "मित्यनेन सह विज्ञेयः । ५१. अत्र हि 'च' पदं वाक्यालङ्काररुपं विज्ञेयम् , न समुच्चयवाचकं, प्राक्तनस्य विषयस्याऽत्राऽनवतारात् । ५२. 'अनेन' इत्यनेन प्राक्तनविषयस्य वन्दनकसूत्रादर्वाक् प्रत्याख्यानसूत्रव्याख्यासङ्गतिरुपस्य नाऽत्र
परामर्शोऽबबुध्यते, तात्पर्यसङ्गतेरभावात् , परमत्र 'अनेन' पदेन ग्रन्थकृतां बुद्धिस्थस्य प्रकृतस्य
'श्रावकानुष्ठान विधि संज्ञग्रन्थस्यैतद्गतवन्दनसूत्रव्याख्यासन्दर्भस्य वा परामर्शः सङ्गच्छते। ५३, “विधानानि-भेदास्तेषां दर्शनेनाऽत्र ग्रन्थे निरुप्यमाणवन्दनविधौ'-इत्यर्थसङ्गतिरत्र कार्या ।
अथवा विधान-विधिः पद्धतिरिति यावत् , तस्य दर्शनेन, अर्थात् अत्र ग्रन्थे प्रतिपाद्यमानवन्दनकविधिसन्दर्भेऽवलोकनेनेति भावः ।
____एतेनाऽऽगमोद्धारकपादा एतदभिव्यञ्जयन्ति यत् “वर्तमानकाले या वन्दनप्रणालिका
प्रचलति, तस्याः प्राचीनत्वमाप्ताऽभिसन्धिमूलकत्वमेतद्ग्रन्थगतविधिसन्दर्भेणाऽध्यवसीयते” इति । ५४. अत्राऽलुक्समासोऽवबोध्यः । ५५. निर्दिश्यमानं तत्‘सम्पदा'ऽऽदिद्वारत्रयोदशकं भाष्यत्रयाऽऽख्यग्रन्थवर्णितमत्र विवेचनया वर्णितमस्ति । ५६. अतिशयेनाऽधिकारीति अधिकारितमः, तैरेवैकवेद्या इति व्युत्पत्ति कृत्वाऽत्र ग्रंथे वर्णिताऽधिकार
त्रयोदशकाऽऽदिवर्णितवस्तुजातस्याऽधिकारानुरुपं गुरुगमवेद्यत्वं समभिव्यञ्जयन्ति श्रीमन्त आगमो
द्धारकपूज्यपादाः । ५७. न हि समस्तमेतत् पदम् , किन्तु 'तस्मादि'त्यर्थ परकं तत्' इत्यव्ययमत्र बोव्यम् । ५८. 'प्र' पूर्वक 'स्फुर्' धातोः यङन्तस्य सप्तमी (विध्यर्थ ) रुपमिदम् । ५९. एतेन समस्तेन पदेन 'शेठ देवचन्द्र लालभाई जैन पुस्तकोद्धारफंड" संस्थाया अभिख्या
सूचिताऽस्ति ।