SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ अध्या० परीक्षा० टिप्पणं ] [ ५७ ३०, असाधारणाः या विद्याः ता एव व्रतत्यः =लताः, तासां वृन्दारकः = समूहः, तदर्थं दुः = वृक्ष:, तन्निभाः, तेषां श्रीमती या वृद्धिः, तस्याः निदानभूतं यत् अमरवनं = नन्दनवन, तदिवाचरन्ति ये ते इति समासो Sर्थक्षी विज्ञेयः । ३१. इदं हि पदं पूज्यपादैरित्यर्थक 'तत्रभवद्भिरितिपदवत् पूज्यार्थकवाचि ज्ञेयमत्र, "अन्येभ्योऽपि दृश्यते" इतिसूत्रेण सप्तम्यन्त- पञ्चम्यन्त-भिन्नविभक्तिकेभ्यो भवदादियागे त्रल् - तसिल प्रत्यययो पूज्याऽर्थे विधानात् । ३२. 'अन्धतमस' शब्दो हि शब्दकोशे गाढान्धकारवाची, ततश्च अन्धतमसः = गाढान्धकारस्य तिरस्कारे तत्परस्य कल्पान्ततरणेः=प्रलयकालीनसूर्यस्य विधानं= चेष्टा इव वेधः = ज्ञानं येषां इति तात्पर्यानुसारी विप्ररचना कार्या । ३३. यथाहि द्वात्रिंशद्वात्रिंशिका प्रस्तावनायां श्रीमतां ग्रन्थप्रणयनाऽऽदिवृत्तं दृश्यते तथा श्रीमद्यशोविजयजैनमन्थमालामुद्रिताऽध्यात्ममतपरीक्षाप्रस्तावनातो विज्ञेयमिति । ३४. शेषाः=देवपूजावशेषरुपाः, "प्रसादी" इतिलोक ( गूर्जर) भाषायाम् । ३५. शेषाः = उपलभ्यमानेतराः प्रन्थमणय इत्यर्थः । ३६. 'ध्रुव' पूर्वक 'सो' धातोः विवक्षया ज्ञानार्थकस्य कर्मणि रूपमिदम् । ३७. ज्ञानाssवरणीयस्य निदानभूतानि ज्ञानसाधनानां पुस्तकादीनामुपेक्षादीनि इत्यन्वयगर्भः समासः । ३८. फलंमतीतं यस्मात् इति विग्रहः, निष्फला इत्यर्थः । ३९. शठश्वासौ असुरः, स चासौ कमठः, तेन विहितब्च तत् विघ्नं= उपसर्गरूपं, तदेव जलं, तेन अविष्यातश्वासौ ध्यानरूपो योऽग्निस्तेन साधितं स्वात्मनः श्रेयः येन तम् इति विग्रहः । ४०. अष्टादश बह्न यो वा शाखाः श्रमणानामासन् तासु साम्प्रतं बाहुल्येन 'विजया' ङ्कितनामधारिणां यतीनां सत्ता यङन्तप्रयोगेणाऽत्र संसूच्यते । ४१. वीरूत् = विस्तारयुता हि लता । ४२. अचला=प्रबलतेजस्विभिरपि ग्रहान्तरसार्थैरधृष्या प्रभा यस्येति विशिष्टार्थविवक्षा - गर्भव्युत्पत्त्या 'सूर्य' वाचि एतत् पदं विज्ञेयम् । आपाततस्तु 'अचल' पदेन स्थिरत्वं शाश्वतत्वं वा प्रतीयेत, तच्चोदयाSस्त-ग्रहणाऽभ्रच्छन्नत्वादिभिः व्यभिचर्येतापि, परं “गुरुगमगम्या हि शब्दानां लक्ष्यार्था' ' इत्यभियुकोक्तेः प्राक्दर्शितव्युत्पत्तिरेवाऽत्र शरणम् । ४३. एतद्धि पदं सप्तम्यन्तं " उपकरणे" इति अत्र विज्ञेयम् । “व्योः” १--३--२३ सूत्रेण स्वरपरकत्वेन आयू आदेशीभूतस्य एतः यूकारलोपोऽत्रविहितोऽस्ति । उपकारके=संयमोपग्रहकारणे उपकरणे इत्यन्वयः । ४४ अमूर्च्छतया जिनाज्ञानुसारं संयमोपकरणानां धारणरुपसिद्धान्तानुसारिणामित्यर्थः । ४५. अत्र " इति प्रतिपादितम्" इति अध्याहार्यम् तस्य च प्राक्तनेन "आहत्य भावकथनेने" तिपदेन सहाऽन्वयः बोध्यः । "
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy