________________
दध्वनुश्च तेनैकेनैव पदेन "समताभाष एव परमावश्यकः, एतेनैव च गातार्य समेषामनुष्ठानानामि' त्यादि मोहविवशज्ञानलवदुर्विदग्धानां बृहत्कायपुस्तक-निबन्धाऽऽदिना बुधजनानां बुद्धिभेदकारिणां
प्रगल्भवावदूकतामिति । १७. बत्त्वानां यथार्थतया अधिगमाय आयासः कार्य एव इत्यन्वयः । १८. च ऋते इति पदच्छेदः । ऋते=विना इत्यर्थः । १९. 'सकल'पदस्य 'मदृष्टाऽsमयेन सह सम्बन्धः, ततश्च भनादितः रूढानि मूलानिय स्य, अथवा भविद्य
मानाऽऽदिरोहवन्ति मूलानि येषां, एतादृशानां सकलानाम् अदृष्टानामः आन्तराणां आमयानां भावरो
गाणां विनाशकमित्यर्थः । २०. "तत्त्वानां निर्णयाय कृतमपि यासं परोपकार परायणाः निबन्ध विना..............."न तं सफलयितुं
पारयन्ति" इत्यन्वयः । २१. निबन्ध क्रमपद्धपदार्थविचारगर्भसुरचितलेखमित्यर्थः । २२. 'शासन' पदेनाऽत्र व्यवस्थितरचनाऽवबोध्या। २३. व्याजस्तुतिपरमिदं पदं ।
तेन नग्नाटेभ्योऽपि ये अग्रे सरन्ति उन्मार्गप्रतिपादने" इति भावपरकव्युत्पत्तिरत्रावबोध्या। यतः नग्नाटाः दिगम्बरास्तु व्यवहारमार्गमभिमन्यन्ते, देवदर्शन-षडावश्यकाऽऽदिस्वरूप बाह्यक्रियाकलापं धर्माऽङ्गत्वेन मन्यन्ते, परं वाराणसीदासप्रभवा वाक्छूरा अध्यात्माभासपटवस्तु निश्चयनयमानभिज्ञा अपि शुद्धात्म-द्रव्य-गुण--पर्यायाऽऽदिसुमधुरशब्दजालेन मुक्तिपदप्राप्तयेऽवन्ध्यहेतुभूतं राजमार्गनिभमपि पाह्यक्रियाऽनुष्ठानमयं ध्यवहारमार्गमपलपमानाः वालगोपाऽङ्गनाहितकारिणं शिवाध्वनमेष निन्हुवन्ति. भतः व्याजप्रशंसयाऽत्र पूज्याऽऽगमोद्धारकभीभिरेतेषामुल्लेखः "नग्नाटासरा" इति रहस्यपूर्ण
पदेन कृतः प्रतीयते। २४. "अध्यात्मव्याजेन श्वेताम्बराध्वनः मोषकाः इति = एवंरूपेण ख्याताः नग्नाटाप्रेसराः तत्कालीनाः वारा
णसीदासायाः' इत्यन्वयः। २५. श्वेताम्बरमान्यताभ्यः विसंवादिन्यः दिगम्बरीया मान्यताः स्थूलरूपेण चतुरशीतिमिताः सन्ति, तासां
निर्देशः "चतुरशीतिजल्पपट्टक" रूपेणाऽत्र विहितोऽस्ति, एतत्पट्टकाऽऽधारण गूर्जरपद्यमयी रचना न्यायाऽऽचार्योपाध्यायमतल्लजैरेतैरेव प्राकृताध्यात्ममतपरीक्षाग्रंथप्रणेतृमिः विहिताऽस्ति, सा च पूज्योपाध्याय श्रीयशोविजयजी महाराजप्रणीतानां यथाशक्योपलभ्यमानगूर्जरकृतीनां सम्महस्वरूपे
"श्रीगूर्जरसाहित्यसंग्रहाऽऽख्यग्रंथे (प्रथम विभागे) मुद्रिताऽस्ति । २६. मत्र-प्रकृते अध्यात्ममतपरीक्षाऽऽख्ये प्रन्थे इत्यर्थः । २७. भत्र 'तत् पदेन 'विवाद' परामर्शः ।
पुच्छा दियंघराणं,
केवलमज्झप्पिभाण उवहासो। भम्हाणं पुण इहयं
दोण्हपि पढिमारवावारो॥गा०४१॥
२८.