________________
अध्यात्ममतपरीक्षोपक्रम
टिप्पणं (आनन्दलहरीसंज्ञ)
१. भीमान् चासौ अकलङ्कज्ञानकलितश्चति समस्य एतादृशश्चासौ जिनेन्द्रः, तत्प्रणीते इत्यन्धयः । २. इदं हि पदं 'आकाश' वाचि, ततश्च यथा दिन-रात्रिगतप्रकाशाऽन्धकारकृतो हि भाकाशस्य भास्वर-मली___मसत्वरुपोपाधिभेदः दृश्यतेतद्वयदत्रेत्यन्वयः कार्यः। ३. भृशम् अत्यधिक, अभीक्ष्णं भूयोभ्यः वा, वदन्ति=निरूपयन्ति इत्यर्थः । ४. संसाररूपे अपारे पारावारे समुद्रे भ्रमणस्य निबन्धनं हेतुभूतां निन्हवतामित्यन्वयः । ५. नपुसका इवेत्यर्थः ।
एते हि श्वेताम्बराणां वा दिगम्बराणामथं न हि किश्चित् लाभं जनयन्ति; प्रत्युत एते तु स्वास्छन्या
नुरोधतः यथारुचि उभयत्र प्रविशन्ति । ६. 'कल्पितां' इत्यस्य 'उत्सर्गापवादानुगताम्' इत्यनेन सह सम्बन्धः
भथ च स्वाऽभिमतकल्पनयैवैते श्वेताम्बर-दिगम्बरयोः उत्सर्गाऽपवादाऽनुगतत्वं प्रतिपादयन्ति, वस्तुतः प्रकल्प्यमानं हि श्वेताम्बराणामपवादाऽनुगतत्वं दिगम्बराणाञ्चोत्सर्गाऽनुगतत्वं शास्त्रसिद्ध
नास्ति। ७. स्वकलितोत्सर्गाऽपवादाऽनुगतत्वस्य अश्रद्धा संजायेत, एतादृशे हेतुबाते सत्यपि “तद अदृष्ट्वव"
अर्थात् तद्-स्वकल्पितस्याऽश्रद्धाजनक हेतुकदम्बकं, अदृष्ट्वैव असमीक्ष्यैव इति भावः । ८. साक्षात बाह्या-भ्यन्तरसाहाय्याऽनपेक्षं साक्षात्कारि=अवबोधकारि ज्ञानं केवलज्ञानं, तेन विफले=
रहिते इत्यर्थः । ९. ततः श्रतज्ञानात , सर्वज्ञोपदिष्टानुसारिण इति शेषः । १०. काकुवाक्यमिदम् , स्यादेवेत्यर्थः।। ११. तस्मिन् सति युक्त्यन्विते हि भाप्तोपदिष्टश्रुतज्ञाने सति तत् दुरवसे य=दुर्बोध्यम् न भवति इत्यर्थः । १२. अनाऽऽश्वास: अविश्वासः। १३. 'पर'पदेनाऽत्र प्रानिर्दिष्टाऽऽसन्नभव्यप्रतिपक्षाः दूरभव्याः ग्राह्याः, ततः परेषां दूरभव्यानाम् इत्यथः । १४. भास्वति-सूर्ये १५. तत्कालीनाः तीर्थकरसत्तासनाथचतुर्थाऽरके वर्तमानाः । १६. भरोषाः तीर्थकृत्सु रोषाऽभाबवन्तः इति ।
एतेन तोर्थकृत्सु रोषाऽभावमात्रेण नात्मनीनपथोऽधिगतिः, परन्तु :निषेधात्मकरीतिरिव विधानात्मकशैली अपि परमोपयोगिनी-तिन्यायात् तीर्थकृद्वचनेषु सुद्द ढाऽऽस्थामूलकविश्वासस्यापि शिवाध्वनीनतां प्रबलोपयोगितां प्राचख्युः श्री नन्तोऽनवद्यहृद्यकरुणासनाथाः आगमोद्धारकवर्याः ।