________________
मध्या० परीक्षा उपक्रमः ] ध्यानं, क्रन्दनादि अविप्रयोगचिन्ता च न सर्वज्ञस्य, न च विना मोहं घातिवद्वेदनीयं दुःखदं, अनुकूलत्वाऽदि च न मुखाऽऽदिलक्षण मप्रमत्ताऽऽदिष्वभावात् , नाऽज्ञानजमिन्द्रियजं दुःखं, विभोः निम्बरसलबबवेदनीयं,न दग्थरज्जुवत् न च केवलं क्षुधाऽऽदिप्रतिबन्धक, बल-वीर्ययोर्मेदान्न बलहानिर्दोषः, योगकृतक्रियेव बन्धो निर्वीज इति शङ्कायां स्वभावत एव बन्धः कथं न ? वाणी च न कथं स्वाभाविकी ? खेदोदीरणा च न वचनप्रयत्ने, उदीरणं वीर्योद्भवं स्वभावपक्षे तु सुगतगतिः, केवलियोगैनोंदीरणा खेदस्य, प्रमादाऽभावात् , तथा न दुष्प्रणिधानं रागद्वेषाऽभावात् , अतिचारप्रसञ्जकत्वाभावान्नाऽऽहारस्तत्कथेव प्रमादः, न निद्राहेतुदर्शनावरणीयत्वात्तस्याः, स्तोकत्वाऽनुज्ञा तु तन्प्रसङ्गात् , न च वीतमोहानामपवादाः, पात्रं देहवन ममत्वे हेतुः,ध्यानाऽभावान्न तद्व्याधातः, औदारिककायाऽवस्थान-वृद्धी नान्तरेणाऽऽहारं, परमौदारिकत्वाऽऽदिकल्पनं च संहननाऽऽदिसत्त्वादसमञ्जसमेव, पुष्पादिवन मतिज्ञानोत्पाद आहारात् , ईर्यापथिकी गमनादिवत् कथं आहारात् ? योग्यकालविधानानोपकारहानिः, हितादेन व्याधिः, मोहाभावान्न जुगुप्सा पुरीषादेरित्यादि निदर्श्य स्थापिता कवलभोजिता केवलिनां भगवतां.
१२४तः१७०गायोपक्षेप:-सिद्धानां चाऽष्टगुणाऽन्विततामाविर्भाव्याऽन्यदीयमतेन सिद्धेषु चारित्रमित्यनूध, चारित्रस्यैहभविकत्वमाऽऽस्थाय, यथास्थितपक्षमचारित्रमित्याख्याय, सिद्धानामुपवर्ण्य भेदान् पञ्चदश, स्त्रीणामभावे सिद्धेः क्षपणकानां चतुर्विधत्वं न स्यात् सङ्घस्येत्यादीनि दर्शितानि बाधकानि, निराकृताश्च चारित्ररहिताऽऽत्महीनत्वादयस्तदुपन्यस्ता हेतवः.
१७१तः१८४गाथोपक्षेपः-पर्यन्ते चोपदिष्टमुपदेशसारमय्या सर्वमान्यया गिरा यदुत"संयमयोगे यत्नः स्वर्गाऽपवर्गाऽऽस्पदाऽध्यात्मकनककषपः" ख्यापितं च तत्र भगवद्वचः, “भुक्त्वा भोगान् यत्न इति, सामथ्योभाव इति, कालाभाव" इति च निराकृता दूरभव्योदीरिताः पक्षाः, प्रायश्चित्तप्रकारेण शुद्धौ च चारित्रस्य मिथ्यादुष्कृतस्य शब्दार्थः, सुश्रावकत्वस्य श्रेठता व्युतधर्मणः साधोः, आत्मस्वभावाऽवस्थितिः संविग्नस्य, गीतार्थानां देशनाऽधिकारः एकाकिना विहरणं तु गीतार्थेतरयोयोरप्ययुक्तमिति निर्वर्ण्य, प्रस्तुनप्रकरणनिगमनाय पर्यन्तसाध्यं रागद्वषविलयाऽऽख्यमुपदि, श्रीमद्भिर्याचितं च गीतार्थपार्थात् प्रस्तुतप्रकरणशोधनं ।।
प्रशस्तौ च "जैनधर्मप्रसारकपर्षत्प्रसारित-श्रीमद्यशोविजयग्रन्थमालानिर्दिष्टवत् स्वगुरुपारम्पर्य निरदेशि ।
विशेषस्त्वेपोऽत्र यदुत एतद्विधानं विजयमाने श्रीमद्विजयदेवसूरीन्द्रे जाते च पट्टाऽभिषेके श्रीमत्सुविहितानुष्ठानराग-पडहृदयस्य भीमद्विजयसिंहगुरोः, एष एव च महात्मा "श्रीमत्प्रभृतीनामनेकेषां महापुरुषाणां क्रियोद्धारादेशको, येन विजयतेऽधुना शासनमभीष्टपुरप्रापक-ज्ञानक्रियायुगलोपेतमिति ।