________________
[ प्रस्तावनासंग्रहे निर्दिष्टं चाभिधेयनिर्देशकमभिधानं, सम्बन्धप्रयोजनयोस्तु परापरगुरुस्मरणाऽभिधाननिर्दे शेनाभिधेयनिर्देशेन च स्पष्ट एवावगमः,
रतः१६गायोपक्षेपः-अध्यात्म, तद्वतो (च) निक्षिप्य चतुर्धा निरस्तं देहादि(द)रिपोपकरणानामध्यात्मप्रतिकूलत्वं, यतो न धर्मोपकरणे रतिः परिणामो रक्षणानुबन्धी, यानविघ्नं शुद्धोपयोगानुपकारिता, स्त्रीवदवश्यमपकारिता. (च)
१७तः४१गायोपक्षेपः-रागद्वेषस्वरूपं निशेपचतुष्केनोपदय साधितं प्रवृत्तेर्योगहेतुकत्वं, फलाकाङ्क्षाया एव च रागद्वेषाऽऽपादितत्वं, आहारादेरिव न वस्त्रादेविराधना, परिमाणयुते शुद्धाऽऽहारोपभोगे क्षत्परीषहजय इव सत्यप्युपकरण उपकारके जिताऽऽचेलक्यपरिषहता, निरुपचरिताऽचेलता तु जिनेन्द्राणामेव, तदनुगत्वे तूपदेशादि न युक्तं छअस्थस्य, जिनकल्पस्तु तपःसच-सूत्र-कत्व-बलभावना-निर्णीताऽऽत्मलब्धीनां, कारणिकता त्वाहारस्येव वस्त्रस्य, न च निमू
र्छानां द्रव्यतोऽपि परिग्रहता, पापहरणं च ४ तत्सिद्धान्ताऽनुयायिनामित्यादिप्रबन्धेन निरस्तं धर्मोपकरणस्य परिग्रहत्वं.
४२तः५७गाथोपक्षेपः-तादृशाध्यात्मयोग्यो व्यवहारक्रियावान् समिति-गुप्तियुतो वाचंयम इति समुपक्रम्याऽऽहत्यभावकथनेन क्रियालोपका अपेतबोधिवीजाः, प्रमाणं व्यवहारनिश्चयोभयमतं, समौ च द्वावप्येतो, व्रताऽऽदिनिबन्धनं स्वपरत्वव्यवहारो व्यवहारादिति व्यवहारः, कृपणानां भोगाऽभावाद्विषयगद्धानां स्वभावोपलम्भाऽभावानिःसङ्गभावनाया (नया) रागद्वेषविलय इति [न] (१) तथा किन्तु परिणामाद् बन्धमोक्षाविति च "निश्चयः ।
५८तः६५गाथोपक्षेपः-द्रव्यभावलिङ्गयोगान्मोक्षो विम्तरश्च तत्र वन्द्यत्वेतरविषयो, व्यवहाराबलवानिश्चयो यतोऽसौ फलसाधकक्रियारमणः, कार्यगुणानां कारणगुणानुरूपत्वाच्छङ्कितं ज्ञानप्राधान्यं सर्वनयमयत्वे च सकलादेशता, तवयमपि ज्ञानस्य सारश्चरणमिति सर्वनयता सर्वमान्यतेति च समर्थ्य निराकृतं.
६६तः७१गाथोपक्षेपः-अभेदवृत्तौ निश्चयाधीनः सकलाऽऽदेश इति प्रमाणता निश्चयस्य, अनुपचार इति भावविषयरतिनिश्चयबलवत्ता न युक्ता अपरोपचारात् कारणजत्वाच, भाववृद्धया यावत्केवली क्षीणाऽज्ञानादिदोषः.
___७२तः१२३गाथोपक्षेप:-क्षुत्तृष्णे न तस्येति पक्षे सिद्धिदूषकत्वे मनुजत्वं तथा, दुःखत्वेऽस्त्येवाऽऽसाां विपाकयुत, क्षुत्तृष्णापरिषहजयश्च 'तत्त्वोऽर्थे' तत्सद्भावाऽऽवेदकः, क्षुदादिहेतुः पर्याप्त्याऽऽदिर्नाऽमातं, मोहहेतुका क्षुत्तष्णा नाऽन्यत्वात् , अवमकोष्ठत्वाऽऽदिनाऽऽहारसंज्ञाऽभावाद् विनापीच्छामाहार इति नाऽतिचारोपि तत्र, प्रशस्तध्यानहेतुरयमिति नाऽब्रह्मवत् आहारचिन्ताऽऽर्त्त