________________
कल्प० टिप्पण ]
[ ४९ एतद्धि वर्णनं खलु संहनन चतुष्ककालाऽवस्थितिज्ञापन परमाऽऽवश्यकचूर्णि-वृत्ति-श्रीत्रिषष्टिशलाकापुरुषचरिताऽऽदिग्रंथोल्लेखाऽनुरोधेन सङ्गमनीयम् ।
अन्यथा चूर्णिकृदाद्यभिमतेन सह विरोधोद्भावनं स्यादिति सद्गुरूत्तंसाऽऽगमतत्त्वतलस्पर्शिगीतार्थमूधंन्याऽऽगमोद्धारकाऽऽचार्यमतल्लिकानां हृद्गतः गर्भार्थः समन्वयशैल्योहनीयः । ७४. आचेलक्यविधानस्य यत् मर्म-रहस्यं तस्याऽनवधारणेनेति मध्यमपदलोपिसमासमुपयुज्याऽत्र सङ्गतिः
कार्या। ७५. 'तथा' पदेन महाव्रतनिदानत्वपरामर्शोऽत्राऽवबोध्यः । ७६. एषा हि मान्यता गच्छाऽभिनिवेशवतामुपकेशगच्छीयानां स्वगच्छप्रतिष्ठाविवृतीच्ळावतां स्वाभिमत्येन
विकल्पिताऽस्ति । ७७. सुखातिशये मग्नस्याऽपि धर्मोद्यमस्याऽवश्यंविधेयत्वाच्छक्रस्तवस्योपबृह्यत्वादेव हेतोरित्यर्थः । ७८. ज्योतिश्शास्त्रानुसारेणलौकिकजनैरापादितमुख्यत्वनिरासायाऽत्र "ज्ञापक' पदं प्रयुक्त श्रीमद्भिः ।
एतेन च व्यज्यते यत्-ज्योतिश्शास्त्रं हि कर्मोदयादेापकमेव, न हि तेनैवाऽऽपद्यते बलात् किमपि, आपद्यमानसुखाऽऽदिकं हि प्राक्कृतकर्मोदयाऽपेक्षमित्यतः ज्योतिःशास्त्रसूचितविषमग्रहा.
ऽवस्थितिज्ञानेन शोकादेरकरणीयता प्रशस्येति । ७९. ब्राह्मणकुलस्य भिक्षाककल्पकुलत्वेन तदपेक्षया विशिष्टतां सिद्धार्थनरेन्द्रकुलस्य निरूपयत् "खत्तिए" पदं
जात्यकुलसूचकं विज्ञेयमिति पूज्याऽऽगमप्रज्ञाः सूरिवर्याः दध्वनुरत्र। ८०. अयं हि शब्दः दृष्टिवादस्य भेदपञ्चकीयतृतीयभेदाऽनुयोगाऽऽन्तरभेदयोः प्रथमानुयोग-गण्डिकानुयोग
रूपयोः सूचकःसन् कथा-चरिताऽऽदिग्रन्थानां प्रथमानुयोगत्वेन रूढ़संज्ञां समर्थयति । ८१. समर्थ्यते चैतत् ग्रन्थप्रान्तभागीयप्रशस्तिगतेनाऽमुना श्लोकेन, तथाहिः
"श्रीरामविजयपण्डितशिष्य-श्रीविजयविबुधमुख्यानाम् ।
अभ्यर्थनाऽपि हेतु-विज्ञेयोऽस्याः कृतौ विवृतेः ॥" ८२. एतद्धि व्यक्तीभवति प्रशस्तिगतेनाऽधस्तनश्लोकद्वयेन, तथाहिः
"समशोधयंस्तथैनां, पण्डितसंविग्न-सहृदयवतंसाः। श्रीविमलहर्ष-वाचकवंशे, मुक्तामणिसमानाः ॥ धिषणानिर्जितधिषणाः सर्वत्र प्रस्तकांतिकीर्तिकर्पूराः । मीभावविजयवाचककोटीराः, शास्त्रावमुनिकषाः ॥
प्रशस्ति श्लोकौ १३-१४