________________
कल्प० उपक्रमः] लभ्यन्ते च प्रतयोऽपि अष्टमाध्ययनतोल्लेखिन्योऽनेकाः, काचित् काचिच्च तथा लिखिताऽपि प्राचीना, श्रीमति च स्थानाङ्ग स्पष्टमुल्लेखोऽस्याष्टमाध्ययनतया स्थाने १ दशमे, तुर्ये च समवायाख्ये प्रवचनपुरुषाङ्गभूतेऽङ्ग दृश्यतेऽस्यातिदेशो १६"जहा कप्पे” इति वचनेन [इति] नाऽऽरेकाऽस्याऽष्टमाऽध्ययनतायां दशाश्रुतस्कन्धस्य ।
____ २०"समणे भगवं महावीरे बहणं समणाणं.” इत्यादिवचनतो नेदं व्यरचि महापुरुषेणाप्पनेने'-त्यप्य तिरेका न हितावहा, २२"सणयं सोदाहरण" मित्यादि वचनादे२३ तस्मिन्नपि केषाश्चित् साङ्गोपाङ्गानां तत्रत्यानां सूत्राणां पासात् सूत्रमिदमेव । एवमेव च २ प्रज्ञापनादौ गौतमायभिधानाङ्कितेऽपि निर्धार्यम् , नतूच्छङ्कलप्रेरितैर्भाव्यं नास्तिकैः ।
स्वकालावध्यन्तरज्ञापनाय २६चान्तरेषु स्थविरावल्यां चाख्यायि श्रीदेवर्द्धिगणिपूज्यैः स्वं यावत्कालोऽन्तरं च 3°एतस्य एतदाधारेण श्वेताम्बराणां च प्रामाणिकता निश्चीयते 3 'मथुरापुरीयशिलालेखावलोकनतः, यतो दृश्यते ७२तत्रभगवत्यस्मिन्नाऽऽख्यातानि शाखा-कुलाऽऽदीनि, प्राचीनतमाश्च ते लेखा इति सुस्थं समम् । पञ्चशती चाचार्याणां शासनप्रवराणामासीत्तदा पुस्तकाऽऽरोहणससंदि, 3नचर्ते तस्या विश्वासमहेंदाऽऽख्यातोऽप्यर्हताऽऽगमो विश्वासमन्यथा ४ तत्रभवन्नाम्नैव प्रख्यापयेत्सर्वमाविष्कृत्य स्वमनीषाकल्पितं, 'पुराण[प्रभाव]प्रस्थापकान्ययूथिकवत् ।
तदियतावसेयमेतद् यदुत पर्यवसानस्थविरावलिभेदं रचितमन्येन, नत्वन्यदिति, पाश्चात्यपट्टावलीव तस्या न्यासात् , भाषाशास्त्राऽपेक्षयाऽपि नाऽस्याऽर्वाचीनता, तथाविधस्वादुसुगम पदप्रबन्धमयाउनेककारणानामऽत्राऽवलोकनात्तद्ध तुभूतानाम् । सामाचारी प्रकरणमपि तथा विधसुविहितयोग्यं समाचारवृन्दमाविर्भावयत् किमिव न तोषयेत् सद्गतिनिदानसदाऽऽचारलोलुपान् ।
४°तदेवं श्रीमदकलङ्कमहावीरादिऋषभपर्यन्ताञ्जिनाधिपान , "सुधर्मसुधर्मावनतांह्रिपद्मसुधर्माऽऽदिदेवर्द्धिगणिक्षमाश्रमणपर्यवसानान् स्थविरान् , स्वर्गाऽपवर्गनिबन्धनश्रामण्यसाधक पर्युषणाऽऽदिप्रत्युपेक्षणाऽन्तान् समाचारान् प्रकटयत् प्रकटप्रभावमेतदिति मङ्गलमेव तत्र भवतां श्रमणानाम् , विशेषतश्चाव स्थाने प्रतिष्ठान इवाहतां वर्षावासस्य अनन्तानुबन्धिनिवारणप्रत्यलसांवत्सरिकप्रतिक्रान्तिनिखिलकर्मक्षयक्षमतपःकर्मप्रभृतिप्रचुरतरधर्माधारस्य ।
अत एव चाऽऽचारोऽप्यं शास्त्रीयो यदुत-यदा भवति श्रमणानां भगवतामर्हताऽवलोकनेन वर्षावासस्य क्षेत्रे चिकीर्षा वर्षावासीया दृढा, तर्हि विद "ध्युनिशीथेषु पञ्चसु निशीथवर्णितकल्पेन कल्प"कर्षणं समस्तसाधुमध्यगता गीतार्थाः, श्रीमज्जिन गणभृदावलिस्मरण-सामाचारीज्ञानानां परममङ्गलत्वात् , परमपुरुषनामतत्समाचारश्रवणेनोद्भूतेर्विघ्न वृन्दारकविलयस्य,