SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ पाक्षिक० टिमणी] १६. तदवाप्त्यांअप्रमत्तताप्राप्ती। १७. तदकरणं आवश्यकाऽकरणं अप्रमत्तत्वाद्धेतोरावश्यकक्रियाया गतार्थत्वमिति । १८. तेषां सम्यगविधिपूर्वकावश्यककारिणां ।। १९. तथाविधानां अध्यात्माऽऽभासिनां ध्यानाऽऽदिव्याजेन प्रतिक्रमणाद्यकारिणां श्रमणप्रतिरूपकाणां __ 'प्रतिक्रमणकाले त्वस्माकमप्रमत्तता भवति, नाऽतोऽस्माकं प्रतिक्रमणाद्यावश्यकता' इत्यसत्तर्केण सच्छ्र मणानां प्रतिक्रमणक्रियाकृतिव्यङ्ग्यप्रमादशालित्वमिति बलादापद्यते, ततश्च तथाविधपदेनाऽत्र 'प्रमाद वता' मित्यूहनीयम् । २० निरीक्षणार्थ वस्तुसम्यविचारार्थ चक्षुः=अन्तरङ्गसमीक्षाशक्तिः विद्यते येषां ते तैरिति विग्रहेण आलो चनापूर्व वस्तुसारासारनिर्णायकैरिति भावार्थोऽत्र बोध्यः । २१. निपुणानामित्यर्थः । २२. अध्यात्मकक्षाव्याजेन चारित्रमोहोदयप्रभवप्रमादजन्याऽऽध्यात्मिकाऽधस्तनकक्षाऽवरोह एवेष्यते तैः प्रति क्रमणाद्यरुचिमद्भिः श्रमणाभासैः, अतएऽवाधःस्थानस्यान्वेषणे परतै तैषां लक्षिताऽस्ति । २३. लाक्षणिकोऽयं हि शब्दः कुशलापरपर्यायः ।। २३. 'तत्' पदेन प्रतिक्रमणादिक्रियाणामपूर्वमहत्त्वसूचकाऽकाट्ययुक्तिगभंहि गुणस्थानक्रमाऽऽरोहाss. दिवाक्यजालं विज्ञेयम् । २५. 'तथा' पदेन वाद्यभिमतकुयुक्तिबलेन निष्फलत्वस्येष्टापत्तिरत्र तुष्यतुदुर्जनन्यायानुसार विहिता। २६. गुणस्थानक्रमारोहीयषट्त्रिंशत्तमगाथासत्क "न सन्त्यावश्यकानि षडि"-ति पादेऽध्याहारकरणीयता ऽत्र समर्थ्यते एतत्पदेन। २७. एतद्धि गुणस्थानक्रमारोहे गा० ३६ उत्तरार्द्धरूपेणोपलभ्यते । २८. अत्र 'इति' पदेन प्रतिक्रमणादेररुचिवरस्यादिमूलं हि यः कश्चन ध्यानादिव्याजेनाऽनावश्यकत्वम भिमन्येत, अप्रमत्ततायाः फलमावश्यकपरित्याग एवेति विपर्यस्तबुद्धे रिति हेतोः इत्येवंरूपः सामु दायिकाऽर्थोऽवगन्तव्यः। २९. अत्राभव्यानां दृष्टान्तत्वेनोपन्यासं कृत्वा पूज्यवर्या एवं ध्वनयन्ति यत् यथा ह्यभव्यानां संसारत्यागेच्छा कदाऽपि न भवति एवं प्रमादपरिहाणेरूत्तरोत्तरमावश्यक्रियासपयोगजागृतेरनन्यफलरूपत्वात्तत्क्रियानां त्यागस्येच्छाऽपि सुतरामसंभाविनीत्यतः प्रमादराहित्यस्यावश्यकक्रियासानुबन्धनियतत्वा दावश्यकक्रियाणामप्रमत्तत्वस्य च विरोधोद्भावनाऽऽध्यात्मिकाभासश्रमणविहिताऽर्थशून्या विज्ञेयेति । ३०. कैश्चिदतिशयदौर्विदग्ध्यप्रयुक्तवावदूकताशालिभिर्पण्डितम्मन्यैः प्रतिक्रमणसप्तकमभिमन्यते, तत्र चैतद्भवीय-प्रतिभवीय प्रतिक्रमणे द्वे अधिके गण्येते, तयोरस्वारस्यमूलको हि निर्देशोऽत्र । ३१. “भणागयं पच्चक्खामी'-ति प्रसिद्धेः अनागतकालीनपापव्यापारस्य प्रत्याख्यानरूपत्वेन प्रतिक्रमण सम्भवत्वविवक्षायाः निरासोऽत्र विधीयते । ३२. एषा हि गाथा श्रीपर्यन्ताऽऽराधनासूत्रप्रभृत्याराधनाविषयकप्रकरणग्रन्थीया प्रतिभासते, विहितेऽपि प्रयन्ने यथाशब्दं नोपलब्धा, धीधनैः मार्गणीयैषा गाथा।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy