SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ वीत. स्तोत्र प्रस्तावना ५७. श्रीहेमचन्द्रसूरीणामिति शेषः । ५८. 'अभ्यस्ये'-ति पदस्याऽग्रे 'प्रकाशानां द्वात्रिंश' इति पदेन सह सम्बन्धो योजनीयः । ५९. दन्तशोधनं ( दातण ) अन्तःकरणशोधनं च निर्दिश्याऽत्र पूज्यपादै : प्रस्तुतग्रन्थस्वाध्यायस्याऽति महत्त्वं व्यञ्जितमस्ति । ६०. प्रकाशस्योज्ज्वल-दीप्तिमत्त्वाऽऽदिधर्मकदम्बं प्रस्तुतप्रन्थेऽभ्यासपाठाऽऽदिना संगमय्य ग्रन्थाऽवान्त रभागरूपप्रकाशविंशतेर्यथार्थत्वं सङ्गमनीयम् । ६१. 'शोभा'- मिति पदाऽध्याहारेण 'व्यावर्णयन्तः' इति पदेन सहाऽस्य सम्बन्धसङ्गतिः कार्या। ६२. वाद-प्रतिवादे वादिप्रश्नस्य समाधानरूपे उत्तरे स्वभाववादाऽऽश्रयणं तु निरर्थकमेवेति ध्वन्यतेऽत्र । ६३. यथाद्यपारपारावारनीरधौ प्रवहत्पोतमध्यतः कश्चिच्छकुन्तः = पक्षी उड्डीयेतस्ततो गच्छेदपि, परं कुत्रा प्यवस्थितिहेतुरुपं नगं तरं वाऽलभमानोऽगतिकतया वहमानं तमेव पोतमाश्रयेत् , उडीयोडीय तस्य च तत्रैवाऽऽगमनं सहजसिद्धमेवेति निर्दिश्य तीर्थान्तरीयाणां प्रावादकानामभिनिवेशवतामपि वादिनामभिमतनिजवस्तुनिरूपणेऽनाभोगतोऽप्यनेकान्ताश्रयणं शब्दान्तरतोऽपि करणीयमापतत्येवेति सूच यित्वा श्रीमद्भिः सूरिवर्यैः स्याद्वादस्य सार्वतन्त्रिकत्वं निर्दिष्टम् । ६४. 'तस्यै अपि' इति सन्धिच्छेदो ह्यत्र विज्ञेयः । ६५. मुद्रणस्य उपक्रमे उद्भवः यस्येति विगृह्य प्रकृत मुद्रणे जातस्याशुध्याऽऽदिदोषरूपस्य 'मागमः' निर्देशः कृतः इति विज्ञेयमत्र परमार्थाधीधनैः विद्वद्भिः । - श्रीश्रुतज्ञानमहत्ता 8ज्ञानेषु पञ्चसु पुनः श्रुतमेकमेव, व्याख्याति रूपममलं स्वपराश्रयाङ्कम् । मूकानि शेषमतिमुख्यविबोधनानि, स्वेषां न रूपममलं वदितु क्षमाणि ॥ -पूज्याऽऽगमोद्धारकश्रीविरचित"श्रीजैनगीता" भ.२६ श्लो.६३
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy