________________
त्रै गो० प्र० टिप्पणी] ६२. चेतनाभृच्चणाः चेतनां बिभ्रति ये ते चेतनाभृतः संसारिणः तेषु निपुणाः इति । ६३. लोकोत्तरेत्यर्थः । ६४. अनन्तकालेन प्रचितः वृद्धिं गतः भूलानां निचयः येषामित्येतादृशर्मणां निकरः प्लुष्टः दग्धः यैरिति । ६५. निपुणाः तत्पराः वा इत्यर्थः।। ६६. 'तत्' पदेन सम्यग्दर्शनादित्रयरूप-मोक्षमार्गग्रहणम् । ६७. निश्चयेन असंदिग्धं आख्याने निरूपणे निपुणैः इति भावः । ६८. तस्य धर्मस्य, अतथात्वं अधर्मत्वं, एतत्पदयोः “तत"-भित्यनेन सह सम्बन्धः । ६६. ततं=विस्तारेण निरूपितं तताः विस्तृताः बोधस्य ज्ञानस्य अंशवः किरणानि येषामिति विग्रहः । ७०. जीवतत्त्वावबोध-पूर्वक-यतनाऽभावरूपे इति शेषः । ७१. असर्वज्ञ-प्रणीतत्व-रूपे। ७२. अत्र तत्पदेन कुतीर्थिककथितधर्मपरामर्शः, ततश्च तस्य-कुतिर्थिककथितधर्मस्य आगमः येभ्यः तथा
तस्य=कुतीर्थिककथितधर्मस्य प्रकाशकाश्च ये, एतादृशानां तेषामिति भावः । ७३. निस्त्रिंश-परिगृहीत रूपे। ७४. न विद्यते शैशवं येषामिति अशैशवाः प्रौढविद्वांसः तेषां मतिरिव मतिः येषां तैरिति विग्रहः। ७५. अवदाता चासौ कल्याणा चेति कर्मधारयोऽत्रावबोध्यः । ७६. अत्र विद्धातोः प्राप्ति-ज्ञान-विचाररूपाणां त्रयाणाम् अर्थाणां पूज्यपादैः सङ्गतीकृताऽस्ति । ७७. हन्धातोः यान्तं रूपमिदम् ।। ७८. दर्पणवाची भयं शब्दः । ८९. प्रमा-बुद्धिस्तद्विषयीभूतं प्रमेयं प्रमाणविषयीभूतं सत्पदार्थमित्यर्थः । ८०. आग्रहरहितायाः इत्यर्थः, इदं च 'स्खलनाया' इत्यस्याः विशेषणम् ।
एतेन च पूज्यपादैः स्खलनामात्रस्य छद्मस्थस्वभावत्वं निराकृत्य निराग्रहत्व-माहात्म्यं ध्वनितम् । ८१. 'भाविनि भूतोपचार' -रूपन्यायमङ्गीकृत्यात्र 'जात' पद-प्रयोगोऽवबोध्यः ।। ८२. श्रीसङ्घस्य पूज्यतमत्वे हेतुत्वेन श्रीजिनमाराधनसावधानत्वमत्र निदर्य पूज्यपादाः समूहमात्रस्य
सङ्गत्वं निराकृतवन्त;।