________________
945454545454441454545454545455
श्रीआगमोद्धारकालेखितप्रस्तावनासंग्रहस्वरूपे । श्री अानन्दरत्नाकरे
__द्वितीयं रत्नं श्रीवीतरागस्तोत्रस्य उपक्रमः
9999
'सकलैहिकामुष्मिकहितकृद्धितकारक-'पुन्नागनिर्मितास्तोकश्लोकास्पदा-तीन्द्रियेतरपदार्थसार्थस्वरूपाविर्भावक लोकोत्तरीयग्रन्थतत्यवधारणपीनबुद्धिप्राग्भाराणाम् सकर्णानां नाऽसमाकर्णितमेतघदुत “यस्य कस्यापि मतस्य ' सौष्ठवमितरच्च तदीयागमस्तोमावगमेनैवागम्यते," "तत एवं 'यतोऽभिमन्तव्यपदार्थानां तथ्येतरत्वविचारणासरण्यवतारः ।
अत एव चावाऽप्ता -खिललोकालोकगताशेषपदार्थसार्थावलोकनप्रत्यल-समस्तज्ञानावरणीयसमूलकाषंकषणप्रभव प्रभूतप्रभुतास्पदकेवला अपि श्रीमदकलङ्काराध्यपादाः श्रीसर्वज्ञाः प्रकटयामासुः प्रकटप्रभावात्यस्तमितकुमतततानुकर्मप्रवेकविस्तारकप्रवादैः श्रीमद्गणधरैरुदयप्रक्षिप्तगणभृत्कर्मभिर्ज्ञानचतुष्टयपीयूषपूरान्तःकरणैः 'उप्पन्ने इ वा विगमे इ वा धुवे इ वे' त्यनन्यसाधारणनिश्शेषवस्तुव्रजावस्थिताबाध्यधर्मदर्शनपटीयोवचत्रितयरत्नत्रयसमाखण्डज्योतिद्वारेण द्वादशाङ्गीतीर्थ सकलसुरासुरनरेश्वरगणोपकारक्षम विद्वद्वन्दनमस्यम् ।
___तच्च यावदपश्चिमपूर्वभृच्छीमद्देवर्डिगणिक्षमाश्रमणम' पश्चिमानुपमातिशयसाम्राज्यसार्वभौमहिमवदाविभूतभागीरथीद्वादशाङ्गी तीर्थान्तरगतमपूर्वचमत्कारचिन्तामणि रोहणायमाणमासीदसाधारणमनीषाधारणलब्ध्युपेतमुनिगणधौरेयधृतं पुस्तकगणमृत एव, परं प्रेक्ष्यावसर्पिणीप्रभावहसद्धीगणम् मुनिगणमुपकारकरणपटवः पूज्यपादाः सम्मील्याचार्यपञ्चशती १६वमानागमरत्नरत्नाकरोपमां सौराष्ट्रराष्ट्रराजमानायां "तचज्ञानश्रीवलभ्यां वलभ्यामुद्भावयामासुः शासनं 'विशसितप्रबलकर्मबलकेतनं पुस्तकारूढं सिद्धान्ततया सर्वसम्मताक्सिंवादमतीयम् । तदारत एव चासंयममयासंयतसंसारपारावारवर्धनमपि संयमवर्धनतयोपकरोति १६ पुस्तकवृन्दमर्हाणामहमर्हच्छासननभोङ्गणतारारूपाणां मुनिवराणाम् ।