________________
औ० गो० प्र० टिप्पणी ] १५. वेत्ति प्रकर्षेण जानाति योऽसौ वित्=विद्वान् , तस्य भावः वित्त्वं, विद्वत्त्वमित्यर्थः । १६. ग्रन्थारम्भे ऐकारप्रयोगरूपाकरणे इत्यहः। १७. लक्ष्यते वस्तुतत्वं येनेति व्युत्पत्या सत्तर्कशास्त्रमत्राभिप्रेतमित्यवसीयते । तेन च सत्तर्कशास्त्रानुमित्या
दिनिपुणैरित्यर्थः। १८. प्रस्तुतग्रन्थकर्तृणां पू० श्रीमुनिसुन्दरसूरीश्वराणामित्यर्थः । १९. इष्टतमार्थपरकमिदं पदम् । २०. अत्र शब्दानुप्रासविधया प्रकरणस्य प्रस्तुतस्य प्र=प्रकर्षेण करणं विरचनमित्यर्थः प्रज्ञाप्यते । २१. 'नदीष्ण' शब्दो हि सर्वदिग्गामितद्विषयकपाण्डित्यसूचकः अतोऽत्र नदीष्णता=प्रकाण्डपाण्डित्य
मित्यर्थः । २२. पूज्यायार्य श्री ज्ञानसागरसूरिविषयिणीत्यर्थः । २३. श्रीदेवसुन्दरसूरिवर्याणां विनेयोत्तंसानां सूरीणां वर्णनप्रसङ्गो गुर्वावल्यां ३२६ श्लोकतः प्रवृत्तोऽस्ति । २४. गुर्वावली श्लो० ६४५ । २५. श्रीज्ञानसागरसूरीयमित्यर्थः । २६. 'पूज्यपाद' शब्देनात्र श्रीज्ञानसागरसूरीशपरामर्शः । २७. अत्र “ये" पदेनाऽद्यतनैतिह्यविदुषामध्यात्मकल्पद्रमगुर्जरानुवादकारिप्रभृतीनामनिश्रितगुरूणां परामर्शः । २८. पूज्याचार्यश्रीमुनिसुन्दरसूरिवराः। २९. श्लोकद्वयमेतत् गुर्वावल्यां ४२०-४२१ सा ख्याङ्कितं दृश्यते । ३०. अत्र वज्रार्थसूचक कुलिश'पदेनाऽसदुद्भावितकुतकैरधृष्यत्वं व्यज्यते । ३१. विज्ञाते गुरुपदस्य ऐदम्पर्येतिहासे यैस्तेषामिति विग्रहोऽत्रावबोध्यः, ततश्व गुरुपदस्य गुरुपरम्परागम्य
निश्रोपजीव्यकृपालभ्यैदम्पर्यस्य पट्टावलीगम्यघटनासमुच्चयरुपैतिह्यस्य च ज्ञातव्यत्वस्यावश्यकतानिर्दे
शोऽत्र पज्यवर्यैः कृतोऽस्ति। ३२. अतिशयेन विदिताः ख्याताः इत्यर्थः । ३३. अत्रार्थद्वयं सङ्गच्छेत, तथाहिः
बृहद्गच्छस्य तपगच्छस्य पूर्वसंज्ञारूपस्य अधीशत्वेन,
अथवा बृहतः पूज्यश्रीसोमसुन्दरसूरिसन्निभनानाविधपदस्थमुनिगणैः शिष्यप्रशिष्यादिभिश्च महाप्रमाणस्य गच्छस्य समुदायस्य अधीशत्वेन इति।। ३४. पूज्याः-श्री सोमसुन्दरसूरिपादाः तैरपि पूज्यास्तेषाम् इति व्युत्पत्तिरत्रावबोध्या। ३५. गुर्वावलीप्रशस्तेश्वरमभागे " इति श्रीयुगप्रधानावतार श्रीमत्तपागच्छाधिराज........."श्री देवसुन्दर
सूरि..........."तद्विनेयश्रीमुनिसुन्दराणां" इति सम्बधोट्टकोऽभावबोध्यः । ३६. अत्र विनेयपदस्य शिष्यार्थत्वमविवक्ष्याज्ञावर्तित्वरूपसामान्यार्थस्य विवक्षा ज्ञेया, समर्थ्यते चाप्येतत्
गुर्वावली (श्लो. ३४५) गत" श्रीसोमसुन्दरगुरुप्रमुखास्तदीय “मितिश्लोके गुरुपदोल्लेखेन, ३७. उद्देशादिरूपं यदतुच्छं उत्कृष्ट फलं, तस्य कल्पनं संपादनं तत्र कल्पमहीरूहः कल्पवृक्षः, तद्वन्मानं शास्त्रे प्रमाणं येषां ते इति विग्रहोऽर्थानुसारी ज्ञेयः ।।
_ 'उद्दे शादि' पदे आदिपदेन समुद्देशानुज्ञागणसम्बन्धिविविधज्ञानदर्शनचारित्राद्याराधनोत्सपककार्यानुज्ञादीनि ग्राह्यानि । ३८. श्रिया यौति=मिश्रीभवति योऽसौ इति व्युत्पत्त्या विवपकरणेन च निष्पन्नं "श्रीयुत्" शब्दय प्रथमा
बहुवचनमिदं विज्ञेयम्।