________________
२-भक्तिसाहित्योपक्रमे-आगमावश्यकता, महिमा, वाचना, धर्मजिधृक्षुता, मुनिप्रभावः, कोशनिर्माणं, तात्कालिको स्थितिः, प्रकाशनव्यवस्था, ग्रन्थकारपरिचयः समयादिनिर्णयः, प्रन्थपरिचयः आदर्शप्रतिसूचनश्चेति ।
४-प्रकरणसिद्धान्तप्रस्तावनायो-मागमाकर-प्रकरणकर्तृपरिचयः ग्रन्थकारपरिचयः, विवरणकारसूचनं, ग्रन्थपरिचयः, प्रकाशनव्यवस्थासूचना चेति ।
५-योगशास्त्रीयोपोद्घाते--प्रन्थरचनाविषयक प्रश्न-कालनिर्धारण-परकथनखण्डन-प्रमाणस्वनिर्णय-ग्रन्थपरिचयादयः ।
६-अध्यात्ममतपरीक्षोपक्रमे-श्वेताम्बर-दिगम्बर-द्वैधौमा परिचाय्य विविधानन्यान् वादान् विविच्य, ग्रन्थनिर्माणकारणमुद्धत्य, प्रन्थकारकालः, ग्रन्थपरिचयः, विशेषसूचनाः प्रतिसूचनाश्च प्रतिपादिताः।
७-स्याद्वादभाषाप्रस्तावनायां-ग्रन्थमुद्रणप्रयास-मुद्रापणकारण-ग्रन्थपरिचय ग्रन्थकारकालानुमान-ग्रन्थनामयाथार्थ्य-ग्रन्थकारकृतान्यकृतिपरिचयादयः ।
८-कर्मग्रन्थ-कर्मप्रकृत्योरुपोद्धातयोः-इतरधर्मानुयायिनामदृष्टस्वीकारः, कर्मनिबन्धनं, मोक्षचर्चा, ग्रन्थप्रणयनौचित्यं, ग्रन्थावश्यकता, प्रकरणानुसारी ग्रन्थपरिचयः आत्म-विचारः, परेषां मतखण्डनं, ग्रन्थकृत्परिचयस्तत्कृतयश्चेति ।
९-साहित्यग्रन्थचतुष्टय्याः प्रस्तावनासु-प्रन्थ-ग्रन्थकार-महिमा, गुरुपम्परा, प्रन्थपरिचयः, शब्द-लिङ्गकाव्य-छन्दोनुशासनानामावश्यकता आक्षेपनिरासः, प्रतिसूचना, उपक्रमपूर्तिः, छन्दोनाम्नां मत-मतान्तरविवेकश्चेति ।
१०-पौराणिकसमीक्षारूपमस्तावनायां च धर्मविचारः ग्रन्थकार-परिचयः, ग्रन्थपरिचयादयश्च निपुणं प्रतीतिपदवीमानीताः ।
यत्र तत्र वृत्तिकार-विवरणकार-प्रन्थसम्बन्ध्यन्यसूचनानि पुरस्कृत्य .सूरीश्वरैवैः प्रस्तावना. शब्दस्य सत्यमेव सार्थकता सम्पादिता। प्रस्तावनानां भाषा:
___ शाब्दे ब्रह्मणि साधिकारवचसां लधीयस्यामपि रचनायां पदघटाटोपः, काव्यबन्धुरो बन्धः, सुघटितव्युत्पत्तिशक्तिप्रभा च सावष्टम्भं मुखरीभवन्ति । ___श्रूयते किल श्रीमदानन्दसागरसूरिपुरन्दराणां जिह्वाऽजिरे क्रियाकलापविपुलः सर्वोऽपि धातुगणो विराजते स्म, सर्वास्तद्धितवृत्तयः कण्ठस्थिताः क्रीडन्ति स्म स्वान्तान्तरीलाम्बरे च प्रत्ययघटा. घटिताः कृत्संज्ञा विलसन्ति स्मेति ।