________________
प्रस्तुत-ग्रन्थकारा
देवसूरतपागच्छसंरक्षकैःशैलानानरेशप्रतिबोधकैरागममन्दिरादिसंस्थापकैः श्रुतवाहकागमदिवाकरध्यानस्थस्वर्गतागमाद्धारकाचार्यवर्य-श्रीमदानन्दसागरसूरीश्वरैःस्वीयप्रतिभाबलेनानेकप्रन्थानां निर्मित्या, नैकग्रन्थरस्नानां सम्पादनसम्पत्त्या विविधग्रन्थेषु प्रस्तावनो-पक्रमा-पोद्घातादि विरचनेन चाऽतिमहती श्रुतोपासना विहितेति परमगौरवास्पदं साहितीसुधास्वादनसंपक्तचेतसां सचेतप्तां कृते ।
आगमोद्धारकाणामितरत् साहित्यजातं बहुधा तद्विनेयेस्तत्कृपापारावारतरङ्गितैश्च प्रकाशित प्रकाश्यते च । सूरीश्वरैरतै : त्रिसप्तत्युत्तरकशतसंख्यकानां ग्रन्थानां सम्पादनमकारि। प्रकाशनसंस्थाश्चश्रीजैनधर्मप्रसार कसभा (भावनगरे), श्रेष्ठिदेवचन्द्रलालभाईपुस्तकोद्धारकण्डसंस्था (सुरते), श्री भागमोदयसमितिः श्रेष्ठि श्री ऋषभदेव बीके शरीमलजीत्याख्या पेढो च (रतलामनगरे) श्रीसिद्धचक्रसाहित्यप्रचारकसमितिः (मोहमय्यां), श्रीजैनानन्दपुस्तकालयः (सुरतनगरे), श्रीजैनपुस्तकप्रचारकसंस्था (सुरते), देवकरणमूलजीप्रकाशनं-(नवसारीनगरे), नवपदाराधकसमाजः (मोहमय्यां), यशोविजयजैनपाठशाला (महेसाणा) प्रमृतय आसन् । समग्रेऽपि भारतभूमण्डले पादचारं विस्तवतां सूरीश्वराणां सम्पादनेषु प्रस्तावनानां संयोजना महत्त्वपूर्णाः सन्ति । तत्र तत्र प्रस्तावनासु तेषामपूर्वश्रुतपारगामित्वं विवेचनगाम्भीयं समालोचनौदार्य पाठसन्धानपाण्डित्यं भावाविष्करणवैचित्र्यं गीर्वाणवाणांवैदुष्यं च पुरः पुरः परिस्फुरलक्ष्यते।
मा स्म भूवन् वञ्चिताः साम्प्रतिकाः सुरसरस्वतीसमाराधनतत्परा अपि तेषाममोधप्रतिभाप्रसूतसाहित्येनेति घिया तेषामेव घिनेयपरम्परापथिकैः व्याकरण-न्याय ज्योतिषा-ध्यात्म-प्राच्याच्यविज्ञानविधानदीष्णैः श्रीमदुपाध्यायधर्मसागरमहाराजानां चरणोपासकैः श्रीमदमयसागरगणिभिः प्राथम्येन 'आनन्दरत्नाकर' नामकः प्रस्तावनासङ्गहोऽयं प्रथितः ।
प्रथम विभागाऽऽ मके एतस्मिश्च प्रकाशने सन्ति पञ्चदशङ्ख्याकाः प्रस्तावनाः सङ्ग्रहीताः।
एतासु १-आगम-२-भक्ति ३-श्रावकधर्म ४-प्रकरणसिद्धान्त-५-योगशास्त्र-६-अध्यात्मचर्चा७-न्याय-८-कर्मसाहित्य-९-साहित्य-१०-पौराणिकसमक्षाविषयक ग्रन्थान प्रकाशन निमित्तमाकलय्य सूरिपुरन्दरैरेतैः प्रस्तावना लिखिता : सन्ति । तत्रापि प्रस्तावना-उपक्रम-उपोद्घात इति त्रीणि नामानि स्वीकृतानि । प्रस्तावना-पद्धतिः
प्रस्तावना-लेखने श्रीजुषामेषां पद्धतिः प्रायेणैवरूपा---
१-आगमप्रस्तावनायां-प्रन्थवाचनप्राचीनत्वं, चूर्णि-टिप्पणादिपरिचयः, विवादस्थानानि, तत्समाधानानि, विशेषावधेयश्चेति ।