________________
भवन्ति चात्र प्रस्तावनालेखकस्य कार्याणि-१-विषयावतारः, २-विषयप्रवेशः, ३-विषयकथनं, १-विषयविवरणञ्चेति । विषयसम्बन्धावान्तराज्ञप्ति-स्वरूपप्रकाश-गुणदोषविवेचन-व्यक्ति दर्शन-महत्वमापन-विभूति-पूनाप्रमतीनि कर्माणि च तत्राऽन्तरङ्ग-बहिरङ्गपरीक्षाक्षमतामुत्पादयन्ति । किश्च न्यायाधीश इव ताटस्थ्येन सत्यासत्ये विवेचयन् , बलाबले तुळयन् , नीरक्षीरमिवोचितानुचिते विमलयन् , विवादस्थलानि चिकित्सक इव विमर्शयन् प्रस्तावकः प्रस्तावनां सम्पादयति । ग्रन्थकर्तुः व्यक्तित्वं यथा स्फुरेत् तथा वर्तनमेव भवति बीजं प्रस्तावनायाः ।
अब यावम निर्मितं केनापि प्रस्तावनाशास्त्रम् । न वा कान्यपि लक्षणानि सन्तिसुतरा निर्धारितानीति लेखकाधीनतैव तत्र तत्र प्रतीतिपथमायाति ।
प्रन्थलेखकः स्वदृष्ट्याः स्पष्टतां प्रदर्शयति, तत्र च विशिष्य रचनाया मनोभूमिमवतारयन् कि किं कथङ्कारं साधितं ! किश्चाभिप्रेतं ! के चासन् प्रेरकाः! के वाऽऽदर्शास्तस्मिन् स्वीकता ! इत्यादि विस्पष्टयति ।
सम्पादकस्तु यदि नाम प्राचीनः कोऽपि प्रन्यो भवति तदा तदादर्शप्रतीनां विवरणं, समीक्षापुरस्सरं पाठस्वीकारः, पाठपूर्तेरन्यान्युपादानानि, अन्ये ग्रन्थाः, इतरग्रन्थगतान्युद्धरणानि, समानाः पाठाः, पूर्वसम्पादितपाठानां योगः, प्रतिकूल-पाठशिाना' त्यागः, लिपिदोषस्य कारणात् परिहयाः पाठाः, न्याकरणस्यापप्रयोगाः, मार्षप्रयोगाःः, शन्दान्तराणि रूपान्तराणि च यथायथं प्रस्तौति ।
समालोचकश्च पाठानुसन्धान भाषान्तरणसमीक्षापूर्वक गुणदोष-विवेचन विधाय कर्त्तव्यनिर्देशं सूचयति ।
एवं सकलस्याप्यस्य कर्तव्यजातस्य स्वारस्यं पाठकानामुपरि निर्धारित तिष्ठति । पाठकाण त्रिविधा भवन्ति । यथोकं निशीथचूणों
पुरिसो तिविहो परिणामगो भपरिणामगो पतिपरिणामगो तो एत्य । अपरिणामग-अतिपरिणामगाणं पडिसेहो।
. एतदनुसार १-परिणामकः २-अपरिणामकः ३-अतिपरिणामकश्च सन् पुरुषः पाठकवैविध्य भजति । अपरिणामकोऽपरिपक्वबुद्धेः कारणात्, अतिपरिणामकश्च कुतर्कपूर्णाया बुद्धः सत्वात न भवतोऽधिकारिणौ। परिणामकः = परिपक्वबुद्धिशाली पाठको विषयावगाहनपूर्वकं प्रस्तावनामाध्यमेन पन्थान्तर्निहिततत्त्वं परिचिनोति । एतादृश्या प्रस्तावनया पाठकस्य मन आकृष्टं भवति भूयोभूयः पठनाय मननायात्मसात्करणाय च तदन्तरीहत इति स्पष्टमेव प्रस्तावनाया ऐदंयुगीनं माहात्म्यम् ।
अदानी प्रकृतमनुसरामः।