________________
प्रयोगसमावेशः, कुहचन च कालकृत्यसमाश्रय इत्यादयो विधय आद्रियन्ते ।'
एत एव विधयः संहत्य कालान्तरे प्रन्थप्रस्तावनादौ सामान्य-विशेषरूपेण वा प्रणयनपदवीमाढौकिताः । साम्प्रतं वैदेश्यविद्वत्प्रभावपारवश्याच्च मन्ये सैव नाटकीया प्रस्तावना बहुरूपिणी सती चित्रयति चेतांसि सचेतसाम् । साहित्यिकी प्रस्तावना
'लक्ष्यानुसारीणि लक्षणानि निर्मीयन्त' इति लौकिकी प्रथितिमनुसृत्य साहित्यिकप्रस्तावना-लक्षणाय वयं विचक्षणविनिर्मितप्रस्तावना लक्ष्यीकुर्म : । ता एताः प्रस्तावनाः प्रायेण प्रन्थस्याकार महत्त्वं व्यापकत्वं विषयं तद्गतगूढताश्चवार्य विलिक्ष्यन्ते सुधीभिः । अत एव भवन्ति ताः क्वापि लघीयस्यः क्वचिश्च महीयस्यः । लेखका अपि तत्र हेतवः । यावती तस्य प्रज्ञा यादृशी तस्य चिन्तनशक्तिर्यादृशश्च तस्य स्वाध्यायः । मुद्रणस्थानसङ्कोचं विना प्रसृता प्रस्तावयितुभरती सत्यमेव नानात्वं भजते प्रस्तावना ।
तत्र हि प्राधान्येन प्रस्तावयितरस्त्रिया मिलन्ति १ लेखकाः २ सम्पादकाः ३ समालोचकाच।
तेषु चापि प्रत्येकं प्रस्तावनाकारो मनोव्यापारदृष्टया वस्तुज्ञान-(Cognition) वस्तुचिन्तन (Thinking )-वस्तुलाभ (Aequisition) रूपाणां विचाराणां प्रकाशनाय यतमान : 'संशोधनामिका 'सङ्कलनात्मिकां रसग्रहणात्मिकां वा प्रस्तावनां प्रस्तौति । तत्रापि प्रत्येक प्रस्तावना 'तार्किकदृष्टिशालिनी सती शास्त्रीया' सौन्दर्यदृष्टिशालिनी च सती कलात्मिकेति निगद्यते ।
इमा अपि पुनः प्रत्येकम्-मआत्मनिष्ठा वस्तुनिष्ठाश्च गदितुं शक्यन्ते । एवं द्वादश प्रकाराः सामान्येनाऽऽकलयितुं शक्का अपि क्रिया-कारक-कारण-करणादिभिर्वैविध्यं भजमाना नानात्वं संश्रयन्ते, तत्र विवेचका एव प्रमाणम् । ५-प्रस्तावनाङ्गानि पथा-' अस्या अगामि उद्धात्यावलगितके द्वे वीथ्याः कयोद्धात-प्रयोगातिशयप्रवर्तकाः । भस्यैवाङ्गानि त्रीणि । एवं पञ्चाङ्गानि ।। उद्धात्यकम्- पदान्यनवगतार्थानि प्रश्नेनावगतार्थेः पदः प्रतिपादयतीति यत्तदुच्यते । अबलगितम्-पात्रसंसूचनाथं यदालपनं तद्रष्टव्यम् । कथोरातः-पत्र सूत्रधारस्य वाक्यं वाक्यार्थ वा गृहीत्वा पात्रं प्रविशति । प्रयोगातिशयः-प्रयोगे तु प्रयोग तु सूत्रधारः प्रयोजयेत् । ततश्च प्रविशेत् पात्रं प्रयोगातिशयो हिसः॥ प्रवर्तका-कालकृत्यं यदाश्रित्य सूत्रधारः प्रवर्तते । .
तदाश्रयस्य पात्रस्य प्रवेशस्तु प्रवर्तकः ॥ माटकलक्षणरत्नकोश पृ० ११९-१२३ किश्च प्रस्तावमालक्षस्य मूल-पथयोध्यजसूचनानुसार मालिकाथा मप्यत्र समावेशो भवति, यस्यां प्रहेकि. कारुपेण प्रश्नोत्तराणि सम्पायन्ते । वर्तमानप्रस्तावमास्वपि प्रहेलिकाः प्रश्नोत्तराणि च मियत इति ।