________________
गुडधाना स्फुरदुरुविषयविमर्शनिधाना सर्वारम्भपूर्वकृतप्रस्थाना प्रथगौरववर्धनायैव धृतावधाना 'प्रस्तावना' किंस्वरूपेति विचारः प्रज्ञाप्रसादसमधिगतः ।
तदेवंविधायां विमर्शप्रवृत्तौ "निरुक्त्या शब्दार्थज्ञानं सकर"मिति प्रस्तुतस्य प्रस्तापनाशब्दस्य 'प्र+स्तु+णि+युच्+टाप्' इति व्याकृतिप्रकृतिः ।
तथा 'प्रस्तूयत इति प्रस्तावना', स्तवनं स्तवः, स्तव एव स्तावः (प्र+स्तु+भावकरणादौ धञ् ), प्रकृष्टः प्रस्तावः, प्रस्ताव एवं प्रस्तावना' चेति निरुक्तिः । परिभाषा चास्याः
"तत् आरम्भिकं कथनं वक्तव्यं वा, यस्मिन् कस्यापि विषयस्य विस्तृतिपूर्वकवर्णनात् प्राक् तत्सम्बन्धिन्यः काश्चन मुख्या वार्ताः प्रकटयितुं प्रयत्येते'ति ।"
पर्यायपयुक्ताः शब्दाश्च-'आमुखम् , उपोद्घातः, भूमिका, विज्ञप्तिः, विनिवेदनम् , उपक्रमः वित्राः शब्दाः, पुरोवाक्, विमर्शवेदिका-अमृतयः।
मूलश्चास्याः-वैदिकमन्त्राणामादौ तत्तन्मन्त्रस्य ऋषि-छन्दो-देवताविस्मारको विनियोग' शब्दः । लौकिकसाहित्ये च दृश्यकाव्यरूपेषु रूपके वावश्यकरूपेण निरूपणीया 'प्रस्तावनेति।
यतो हि नाट्यशास्त्रे प्रस्तावनाशब्दस्य प्राथमिकः प्रयोग उपलभ्यते । तत्र हि सूत्रधारः प्रस्तोष्यमाणस्य नाटकस्य कारणं कर्तार नाटक-कथानकं. च सल्लापमाध्यमेन सूचयति,
किश्च स्वकार्योत्थ-वीथ्यङ्गवाक्यानि चित्रवाक्यान्यन्यानि वा तत्साधकानि भवन्ति ।
एवमामुखापरपर्याया चेयं प्रस्तावना 'उद्धात्यकाऽवलगित-कथोद्धात-प्रयोगातिशय-प्रवर्तकादि-पञ्चभिरङ्गैरश्चिता तत्र भवति । प्रत्येकमङ्गे च क्वचिदनवगतार्थानां पदानां प्रश्नः समाधानं, क्वापि पात्रसंसूचनार्थमालापः, कुत्रचिद् वाक्यस्य वाक्यायस्य वा माध्यमेन पात्रप्रवेशः, कुत्रापि प्रयोगे
1-हिन्दी 'मामक' शब्दकोशे 'प्रस्तावना' शन्दः । २-एवंविधाः समानार्थकाः समानभावाः समानमानाः शन्दा भूयांसो भवन्ति प्रयुक्ताः । तत्र हिपरिवर्तन
प्रत्ययपरिवर्तन-भावपरिवर्तनानि विशिष्यन्ते । ३-यथा-'पृथिवीति मन्त्रस्य मेरुपृष्ठ ऋषिः, सुतलं छन्दः, कुमो देवता, भासने विनियोगः ।' इत्यादि । ४-भरतमुनेर्नाटयशाने प्रस्तावनालक्षणं यथा
"मटी विदूषको वाऽपि पारिपार्श्वक एव वा । सूत्रधारेण सहिताः सरलापं यत्र कुर्वते ॥ चित्रैक्यैिः स्वकार्योंटिगोरन्यथापि वा । भामुखं तछि विज्ञेयं माम्ना प्रस्तावमाऽपि सा ॥"
(भन्यायः ११, पये १-१९ तमे ।